अध्यायः 019

अथ दानधर्मपर्व ॥ 1 ॥

श्रीकृष्णेन भीष्मंप्रति युधिष्ठिराय गरुडोपाख्यानकथनचोदना ॥ 1 ॥

`युधिष्ठिर उवाच ।

गरुडः पक्षिणां श्रेष्ठ इति पूर्वं पितामह ।
उक्तस्त्वया महाबाहो श्वेतवाहं प्रशंसता ॥
अत्र कौतूहल इति श्रवणे जायते मतिः ।
कथं गरुत्मान्पक्षीणां श्रैष्ठ्यं प्राप परन्तप ॥
सुपर्णो वैनतेयश्च केन शत्रुश्च भोगिनाम् ।
किंवीर्यः किंबलश्चासौ वक्तुमर्हसि भारत ॥
भीष्म उवाच ।
वासुदेव महाबाहो देवकी सुप्रजास्त्वया ।
श्रुतं ते धर्मराजस्य मम हर्षविवर्धन ॥
सुपर्णं शंस इत्येव मामाह कुरुनन्दनः ।
अस्य प्रवक्तुमिच्छामि त्वयाऽज्ञप्तो महाद्युते ॥
त्वं हि शौरे महाबाहो सुपर्णः प्रोच्यसे पुरा ।
अनादिनिधने काले गरुडश्चासि केशव ॥
तस्मात्पूर्वं प्रसाद्य त्वां धर्मपुत्राय धीमते ।
गरुडं पततांश्रेष्ठं वक्तुमिच्छामि माधव ॥
वासुदेव उवाच ।
यथैव मां भवान्वेद तथा वेद युधिष्ठिरः ।
यथा च गरुडो जातस्तथाऽस्मै ब्रूहि तत्वतः' ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनविंशोऽध्यायः ॥ 19 ॥

श्रीः