अध्यायः 236

अथ दानधर्मपर्व ॥ 1 ॥

महेश्वरेणोमांप्रति तिलदानप्रकारतत्फलयोः कथनम् ॥ 1 ॥ तथा जलान्नादिनानादानफलकथनम् ॥ 2 ॥ तथा सेतुकूपतटाकनिर्मापणादिधर्मफलकथनम् ॥ 3 ॥

उमोवाच ।

भगवन्देवदेवेश कथं देयं तिलान्वितम् ।
तस्य तस्य फलं ब्रूहि दत्तस्य च कृतस्य च ॥
महेश्वर उवाच ।
तिलकल्पविधिं देवि तन्मे शृणु समाहिता ॥
समृद्धैरसमृद्धैर्वा तिला देया विशेषतः ।
तिलाः पवित्राः पापघ्नाः सुपुण्या इति संस्मृताः ॥
न्यायतस्तु तिलाञ्शुद्धान्संहृत्याथ स्वशक्तिनः । तिलराशिं पुनः कुर्यात्पर्वाताभं सुरस्नकम् ।
महान्तं यदि वा स्तोकं नानाद्रव्यसमन्वितम् ॥
सुवर्णरजताभ्यां च मणिमुक्ताप्रवालकैः । अलङ्कृत्य यथायोगं सपताकं सवेदिकम् ।
सभूषणं सवस्त्रं च शयनासनसंमितम् ॥
प्रायशः कौमुदीमासे पौर्णमास्यां विशेषतः ।
भोजयित्वा च विधिवद्ब्राह्म्णानर्हतो बहून् ॥
स्वयं कृतोपवासश्च वृत्तशौचसमन्वितः ।
दद्यात्प्रदक्षिणीकृत्य तिलराशिं सदक्षिणम् ॥
एकस्यापि बहूनां वा दातव्यं भूतिमिच्छता ।
तस्य दानफलं देवि अग्निष्टोमेन संयुतम् ॥
केवलं वा तिलैरेव भूमौ कृत्वा गवाकृतिम् । सवस्त्रकं सरत्नं च पुंसा गोदानकाङ्क्षिणा ।
तदर्हाय प्रदातव्यं तस्य गोदानतः फलम् ॥
शरावांस्तिलसम्पूर्णान्सहिरण्यान्सचम्पकान् ।
नृपोऽददद्ब्राह्मणाय सु पुण्यफलभाग्भवेत् ॥
एवं तिलमयं देयं नरेण हितमिच्छता ।
नानादानफलं भूयः शृणु देवि समाहिता ॥
बलमायुष्यमारोग्यमन्नदानाल्लभेन्नरः ।
पानीयदस्तु सौभाग्यं रसज्ञानं लभेन्नरः ॥
वस्त्रदानाद्वपुःशोभामलङ्कारं लभेन्नरः ।
दीपदो बुद्धिवैशद्यं द्युतिशोभां लभेन्नरः ॥
राजपीडाविमोक्षं तु छत्रदो लभते फलम् । दासीदासप्रदानात्तु भवेत्कर्मान्तभाङ्नरः ।
दासीदासं च विविधं लभेत्प्रेत्य गुणान्वितम् ॥
यानानि वाहनं चैव तदर्हाय ददन्नरः । पादरोगपरिक्लेशान्मुक्तः श्वसनवाहवान् ।
विचित्र रमणीयं च लभते यानवाहनम् ॥
प्रतिश्रयप्रदानं च तदर्हाय तदिच्छते ।
वर्षाकाले तु रात्रौ वा लभेत्पक्षबलं शुभम् ॥
सेतुकूपतटाकानां कर्ता तु लभते नरः ।
दीर्घायुष्यं च सौभाग्यं तता प्रेत्य गतिं शुभां ॥
वृक्षसंरोपको यस्तु छायापुष्पफलप्रदः ।
प्रेत्यभावे लभेत्पुण्यमभिगम्यो भवेन्नरः ॥
यस्तु सङ्क्रमकृल्लोके नदीषु जलहारिणाम् ।
लभेत्पुण्यफलं प्रेत्य व्यसनेभ्यो विमोक्षणम् ॥
मार्गकृत्सततं मर्त्यो भवेत्सन्तानवान्नरः ।
कायदोषविमुक्तस्तु तीर्थकृत्सततं भवेत् ॥
औषधानां प्रदानात्तु सततं कृपयाऽन्वितः ।
भवेद्व्याधिविहीनश्च दीर्घायुश्च विशेषतः ॥
अनाथान्पोषयेद्यस्तु कृपणान्धकपङ्गुकान् ।
स च पुण्यफलं प्रेत्य लभते कृच्छ्रमोक्षणम् ॥
वेदगोष्ठाः शुभाः शाला भिक्षूणां च प्रतिश्रयम् ।
यः कुर्याल्लभते नित्यं नरः प्रेत्य फलं शुभम् ॥
प्रासादवासं विविधं यक्षशोभां लभेत्पुनः ।
विविधं विविधाकारं भक्ष्यभोज्यगुणान्वितम् ॥
रम्यं तं दैवगोवाटं यः कुर्याल्लभते नरः ।
प्रेत्य भावे शुभां जातिं व्याधिमोक्षं तथैव च ॥
एवं नानाविधं द्रव्यं दानकर्ता लभेत्फलम् ॥
उमोवाच ।
कृतं दत्तं यथा यावत्तस्य तल्लभते फलम् ।
एतन्मे देवदेवेश तत्र कौतूहलं महत् ॥
महेश्वर उवाच ।
प्रेत्यिभावे शृणु फलं दत्तस्य च कृतस्य च । दानं षङ्गुणयुक्तं तु तदर्हाय यथाविधिः ।
यथाविभवतो दानं दातव्यमिति मानवैः ॥
बुद्धिमायुष्यमारोग्यं बलं भाग्यं तथाऽऽगमम् ।
रूपेण सप्तधा भूत्वा मानुष्यं फलति ध्रुवम् ॥
इदं दत्तमिदं देयमित्येवं फलकाङ्क्षया ।
यद्दत्तं तत्तदेव स्यान्न तु किञ्चन लभ्यते ॥
ध्रुवं देव्यत्तमे दानं मध्यमे त्वधमं फलम् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्त्रिंशदधिकद्विशततमोऽध्यायः ॥ 236 ॥

7-236-10 सहिरण्यान्सवस्त्रकानिति थ.पाठः ॥

श्रीः