अध्यायः 239
अथ दानधर्मपर्व ॥ 1 ॥
महेश्वरेण पार्वतींप्रति दानत्रैविध्यात्तत्फलत्रैविध्यादिकथनम् ॥ 1 ॥ तथा दानफलस्य पञ्चविधत्वप्रतिपादनम् ॥ 2 ॥ तथा नानाधर्मतत्फलप्रतिपादनम् ॥ 3 ॥
उमोवाच ।
एवं कृतस्य धर्मस्य श्रोतुमिच्छाम्यहं प्रभो ।
प्रमाणं फलमानानां तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
प्रमाणकल्पनां देवि दानस्य शृणु भामिनि ॥
यत्सारस्तु नरो लोके तद्दानं चोत्तमं स्मृतम् ।
सर्वदानविधिं प्राहुस्तदेव भुवि शोभने ॥
प्रस्थं सारं दरिद्रस्य शतं कोटिधनस्य च ।
प्रस्थसारस्तु तत्प्रस्थं ददन्महदषाप्नुयात् ॥
कोटिसारस्तु तां कोटिं ददान्महदवाप्नुयात् ।
उभयं तन्महत्तच्च फलेनैव समं स्मृतम् ॥
धर्मार्थकामभोगेषु शक्त्यभावस्तु मध्यमम् ।
स्वद्रव्यादतिहीनं तु तद्दानमधमं स्मृतम् ॥
शृणु दत्तस्य वै देवि पञ्चधा फलकल्पनाम् ।
आनन्त्यं च महच्चैव समं हीनं हि पातकम् ॥
तेषां विशेषं वक्ष्यामि शृणु देवि समाहिता ।
दुस्त्यजस्य च वै दानं पात्र आनन्त्यमुच्यते ॥
दानं षङ्गुणयुक्तं तु महदित्यभिधीयते ।
यथाश्रद्धं तु वै दानं यथार्हं सममुच्यते ॥
गुणतस्तु तथा हीनं दानं हीनमिति स्मृतम् ।
दानं पातकमित्याहुः षड्गुणानां विपर्यये ॥
देवलोके महत्कालमान्त्यस्य फलं विदुः ।
महतस्तु तथा कालं स्वर्गलोके तु पूज्यते ॥
समस्य तु तदा दानं मानुष्यं भोगमावहेत् ।
दानं निष्फलमित्याहुर्विहीनं क्रियया शुभे ॥
अथवा म्लेच्छदेशेषु तत्र तत्फलतां व्रजेत् ।
नरकं प्रेत्य तिर्यक्षु गच्छेदशुभदानतः ॥
उमोवाच ।
अशुभस्यापि दानस्य शुभं स्याच्च फलं कथम् ॥
महेश्वर उवाच ।
मनसा तत्वतः शुद्धमानृशंस्यपुरःसरम् ।
प्रीत्या तु सर्वदानानि दत्त्वा फलमवाप्नुयात् ॥
रहस्यं सर्वदानानामेतद्विद्धि शुभेक्षणे ।
अन्यानि धर्मकार्याणि शृणु सद्भिः कृतानि च ॥
आरामदेवगोष्ठानि संक्रमाः कूप एव च ।
गोवाटश्च तटाकश्च सभा शाला च सर्वशः ॥
पाषण्डावसथश्चैव पानीयं गोतृणानि च ।
व्याधितानां च भैषज्यमनाथानां च पोषणम् ॥
अनाथशवसंस्कारस्तीर्थमार्गविशोधनम् ।
व्यसनाभ्यवपत्तिश्च सर्वेषां च स्वशक्तितः ॥
एतत्सर्वं समासेन धर्मकार्यमिति स्मृतम् ।
तत्कर्तव्यं मनुष्येण स्वशक्त्या श्रद्धया शुभे ॥
प्रेत्यभावे लभेत्पुण्यं नास्ति तत्र विचारणा ।
रूपं सौभाग्यमारोग्यं बलं सौख्यं लभेन्नरः ।
स्वर्गो वा मानुषे वाऽपि तैस्तैराप्यायते हि सः ॥
उमोवाच ।
भगवन्लोकपालेश धर्मस्तु कतिभेदकः ।
दृश्यते परितः सद्भिस्तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
शृणु देवि समुद्देशान्नानात्वं धर्मसङ्कटे ।
धर्मा बहुविधा लोके श्रुतिभेदमुखोद्भवाः ॥
स्मृतिधर्मश्च बहुधा सद्भिराचार इष्यते ॥
देशधर्माश्च दृश्यन्ते कुलधर्मास्तथैव च ।
जातिधर्माश्च वै धर्मा गणधर्माश्च शोभने ॥
शरीरकालवैषम्यादापद्धर्मश्च दृश्यते ।
एतद्धर्मस्य नानात्वं क्रियते लोकवासिभिः ॥
कारणात्तत्रतत्रैव फलं धर्मस्य चेष्यते ।
तत्कारणसमायोगे लभेत्कुर्वन्फलं नरः ॥
अन्यथा न लभेत्पुण्यमतदर्हः समाविशेत् ।
एवं धर्मस्य नानात्वं फलं कुर्वल्लँभेन्नरः ॥
श्रौतस्मार्तस्तु धर्माणां प्राकृतो धर्म उच्यते ।
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥ ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 239 ॥
श्रीः