अध्यायः 240

अथ दानधर्मपर्व ॥ 1 ॥

महेश्वरेण पार्वतींप्रति भद्राश्वकेतुमालादिखण्डानां सुकृतिनां भोगस्थानत्वादिप्रतिपादनम् ॥ 1 ॥

उमोवाच ।

भगवन्सर्वभूतेश पुरमर्दन शङ्कर ।
श्रुतं पापकृतां दुःखं यमलोके वरप्रद ॥
श्रोतुमिच्छाम्यहं देव नृणां सुकृतकर्मणाम् ।
कथं ते भुञ्जते भोगान्स्वर्गलोके महेश्वर ॥
कथिताः कीदृशा लोका नृणां सुकृतकारिणाम् ।
एतन्मे वद देवश श्रोतुं कौतूहलं हि मे ॥
महेश्वर उवाच ।
शृणु कल्याणि तत्सर्वं यत्त्वमिच्छसि शोभने ।
विविधाः पुण्यलोकास्ते कर्मकर्मण्यतां गताः ॥
मेरुं हि कनकात्मानं परितः सर्वतोदिशम् ।
भद्राश्चः केतुमालश्च उत्तराः कुरवस्तथा ॥
जम्बूवनादयः स्वर्गा इत्येते कर्मवर्जिताः ।
तेषु भूत्वा स्वयंभूताः प्रदृश्यते यतस्ततः ॥
योजनानां सहस्रं च एकैकं मानमात्रया ।
नित्यं पुष्पफलोपेतास्तत्र वृक्षाः समन्ततः ॥
आसक्तवस्त्राभरणाः सर्वे कनकसन्निभाः । द्विरेफाश्चाण्डजास्तत्र प्रवालमणिसन्निभाः ।
विचित्राश्च मनोज्ञाश्च कूजितैः शोभयन्ति तान् ॥
कुशेशयवनच्छन्ना नलिन्यश्च मनोरमाः ।
तत्र वान्त्यनिला नित्यं दिव्यगन्धसुखावहाः ॥
सर्वे चाम्लानमाल्याश्च विरजोम्बरसंवृताः ।
एवं बहुविधा देवि दिव्यभोगाः सुखावहाः ॥
स्त्रियश्च पुरुषाश्चैव सर्वे सुकृतकारिणः ।
रमन्ते तत्र चान्योन्यं कामरागसमन्विताः ॥
मनोहरा महाभागाः सर्वे ललितकुण्डलाः ।
एवं तत्र स्थिता मर्त्याः प्रमदाः प्रियदर्शनाः ॥
नानाभावसमायुक्ता यौवनस्थाः सदैव तु ।
युवत्यः कल्पितास्तत्र कामजा ललितास्तथा ॥
मनोनुकूला मधुरा भोगिनामुपकल्पिताः ।
प्रमदाश्चोद्भवन्त्येव स्वर्गलोके यथा तथा ॥
एवंविधाः स्त्रियश्चात्र पुरुषाश्च परस्परम् ।
रमन्ते चेन्द्रियैः स्वस्थै शरीरैर्भोगसंस्कृतैः ॥
कामहर्षगुणाभ्यस्ता नान्ये क्रोधादयः प्रिये ।
क्षुत्पिपासा न चास्त्यत्रि गात्रक्लेशाश्च शोभने ॥
सर्वतो रमणीयं च सर्वत्र कुसुमान्विम् । यावत्पुण्यफलं तावद्दृश्यन्ते बहुसङ्गताः ।
निरन्तरं भोगयुता रमन्ते स्वर्गवासिनः ॥
तत्र भोगान्यथायोगं भुक्त्वा पुण्यक्षयात्पुनः ।
नश्यन्ति जायमानास्ते शरीरैः सहसा प्रिये ॥
स्वर्गलोकात्परिभ्रष्टाः जायन्ते मानुषे पुनः ।
पूर्वपुण्यावशेषेण विशिष्टाः सम्भवन्ति ते ॥
एषा स्वर्गगतिः प्रोक्ता पृच्छन्त्यास्तव भामिनि । अत ऊर्ध्वं पदान्यष्टौ सुकर्माणि शृणु प्रिये ।
भोगयुक्तानि पुण्यानि उच्छ्रितानि परस्परम् ॥
विद्याधराः किम्पुरुषा यक्षगन्धर्वकिन्नराः ।
अप्सरोदानवा देवा यथाक्रममुदाहृताः ॥
तेषु स्थानेषु जायन्ते प्राणिनाः पुण्यकर्मणः ।
तेषामपि च ये लोकाः स्वर्गलोकोपमाः स्मृताः ॥
स्वर्गवत्तत्र ते भोगान्भुञ्जते च रमन्ति च ।
रूपसत्वबलोपेताः सर्वे दीर्घायुषस्तथा ॥
तेषां सर्वक्रियारम्भो मानुषेष्विव दृश्यते ।
अतिमानुषमैश्वर्यमत्र मायाबलात्कृतम् ॥
जराप्रसूतिमरणं तेषु स्थानेषु दृश्यते ।
गुणा दोषाश्च सन्त्यत्र आकाशगमनं तथा ॥
अन्तर्धानं बलं सत्त्वमायुश्च चिरजीवितम् ।
तपोविशेषज्जायन्ते यथा कर्म्णि भामिनि ॥
देवलोके प्रवृत्तिस्तु तेषामेव विधीयते । न तथा देवलोको हि तद्विशिष्टाः सुराः स्मृताः ॥i
तत्र भोगमनिर्देश्यममृतत्वं च विद्यते ।
विमानगमनं नित्यमप्सरोगणसेवितम् ॥
एवमन्यच्च तत्कर्म देवताभ्यो विशिष्यते ।
प्रत्यक्षं तव तत्सर्वं देवलोके प्रवर्तनम् ॥
तस्मान्न वर्णये देवि विदितं च त्वया शुभे ।
तत्सर्वं सुकृतैरेव प्राप्यते चोत्तमं पदम् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 240 ॥

श्रीः