अध्यायः 241

अथ दानधर्मपर्व ॥ 1 ॥

महेश्वरेण पार्वतींप्रति प्राणिनां शुभाशुभत्वनिश्चायकलिङ्गकथनम् ॥ 1 ॥

उमोवाच ।

मानुषेष्वेव जीवत्सु गतिर्विज्ञायते न वा ।
यथा शुभगतिर्जीवो नासौ त्वशुभभागिति ॥
एतदिच्छाम्यहं श्रोतुं तन्मे शंसितुमर्हसि ॥
महेश्वर उवाच ।
तदहं ते प्रवक्ष्यामि जीवितं विद्यते यथा ।
द्विविधाः प्राणिनो लोके दैवमासुरमाश्रिताः ॥
मनसा कर्मणा वाचा प्रतिकला भवन्ति ये ।
तादृशानासुरान्विद्धि मर्त्यास्ते नरकालयाः ॥
हिंस्राश्चोराश्च धूर्ताश्च परदाराभिमर्शकाः ।
नीचकर्मरता ये च शौचमङ्गलवर्जिताः ॥
शुचिविद्वेषिणः पापा लोकचारित्रदूषकाः ।
एवं युक्तसमाचारा जीवन्तो नरकालयाः ॥
लोकोद्वेगकराश्चान्ये पशवश्च सरीसृपाः ।
वृक्षाः कण्टकिनो रूक्षास्तादृशान्विद्धि चासुरान् ॥
अपरान्देवपक्षांस्तु शृणु देवि समाहिता ॥
मनोवाक्कर्मभिर्नित्यमनुकूला भवन्ति ये ।
तादृशानमरान्विद्धि ते नराः स्वर्गगामिनः ॥
शौचार्जवपरा धीराः परार्थं नाहरन्ति ये ।
ये समाः सर्वभूतेषु ते नराः स्वर्गगामिनः ॥
भयाद्वा वृत्तिहेतोर्वा अनृतं न वदन्ति ये ।
सत्यं वदन्ति सततं ते नराः स्वर्गगामिनः ॥
धार्मिकाः शौचसम्पन्नाः शुक्ला मधुरवादिनः ।
नाकार्यं मनसेच्छन्ति ते नराः स्वर्गगामिनः ॥
स्वदुःखमिव मन्यन्ते परेषां दुःखवेदनम् । दरिद्रा अपि ये केचिद्याचिताः प्रीतिपूर्वकम् ।
ददत्येव च यत्किञ्चित्ते नराः स्वर्गगामिनः ॥
आस्तिका मङ्गलपराः सततं वृद्धसेविनः ।
पुण्यकर्मपरा नित्यं ते नराः स्वर्गगामिनः ॥
व्रतिनो दानशीलाश्च धर्मशीलाश्च मानवाः ॥
ऋजवो मृदवो नित्यं ते नराः स्वर्गगामिनः ॥
गुरुशुश्रूषणपरा देवब्राह्मणपूजकाः ।
कृजज्ञाः कृतविद्याश्च ते नराः स्वर्गगामिनः ॥
जितेन्द्रिया जितक्रोधा जितमानमदाः स्मृताः ।
लोभमात्सर्यहीना ये ते नराः स्वर्गगामिनः ॥
निर्मा निरहङ्कारः सानुक्रोशाः स्वबन्धुषु ।
दीनानुकम्पिनो नित्यं ते नराः स्वर्गगामिनः ॥
ऐहिकेन तु वृत्तेन पारत्रमनुमीयते ।
एवंविधा नरा लोके जीवन्तः स्वर्गगामिनः ॥
यदन्यच्च शुभं लोके प्रजानुग्रहकारि च । पशवश्चैव वृक्षाश्च प्रजानां हितकारिणः ।
तादृशान्देवपक्षस्थानिति विद्धि शुभानने ॥
शुभाशुभप्रयं लोके सर्वं स्थावरजङ्गमम् ।
दैवं शुभमिति प्राहुरासुरं चाशुभं प्रिये ॥ ॥

इति श्रीमन्यहाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 241 ॥

श्रीः