अध्यायः 244
अथ दानधर्मपर्व ॥ 1 ॥
महेश्वरेण पार्वतींप्रति जरामरणतारणस्य निर्वाणैकसाध्यत्वोक्त्या तस्य ज्ञानैकसाध्यत्वप्रतिपादनेनेन्द्रियनिग्रहादिना वैराग्यस्य तत्कारणत्वोक्तिः ॥ 1 ॥
महेश्वर उवाच ।
अनुद्विग्नमतेर्जन्तोरस्मिन्संसारमण्डले ।
शोकव्याधिजरादुःखैर्निर्वाणं नोपपद्यते ॥
तस्मादुद्वेगजननं मनोऽवस्थानपं तथा ।
ज्ञानं ते सम्प्रवक्ष्यामि तन्मूलममृतं हि वै ॥
शोकस्थानसहस्राणि भयस्थानशतानि च ।
दिवसेदिवसे मूढमाविशन्ति न पण्डितम् ॥
नष्टे धने वा दारे वा पुत्रे पितरि वा मृते ।
अहो दुःखमिति ध्यायञ्शोकस्य पदमाव्रजेत् ॥
द्रव्येषु समतीतेषु ये शुभास्तान्न चिन्तयेत् ।
ताननाद्रियमाणस्य शोकबन्धः प्रणश्यति ॥
सम्प्रयोगादनिष्टस्य विप्रयोगात्प्रियस्य च ।
मानुषा मानसैर्दुःखैः संयुज्यन्तेऽल्पबुद्धयः ॥
मृतं वा यदि वा नष्टं योऽतीतमनुशोचति ।
सन्तापेन च युज्येत तच्चास्य न निवर्तते ॥
उत्पन्नमिह मानुष्ये गर्भप्रभृति मानवम् ।
विविधान्युपवर्तन्ते दुःखानि च सुखानि च ॥
तयोरेकतरो मार्गो यद्येनमभिसंनमेत् ।
सुखं प्राप्य न संहृष्येन्न दुःखं प्राप्य संज्वरेत् ॥
दोषदर्शी भवेत्तत्र यत्र स्नेहः प्रवर्तते ।
अनिष्टेनान्वितं पश्येद्यथा क्षिप्रं विरज्यते ॥
यथा काष्ठं च काष्ठं च समेयातां महोदधौ ।
समेत्य च व्यपेयातां तद्वज्ज्ञातिसमागमः ॥
अदर्शनादापतिताः पुनश्चादर्शनं गताः ।
स्नेहस्तत्र न कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् ॥
कुटुम्बपुत्रदारांश्च शरीरं धनसञ्चयम् ।
ऐश्वर्यं स्वस्तिता चेति न मुह्येत्तत्र पण्डितः ॥
सुखमेकान्ततो नास्ति शक्रस्यापि त्रिविष्टपे ।
तत्रापि सुमहद्दुःखं न नित्यं लभते सुखम् ॥
सुखस्यान्तरं दुःखं दुःखस्यानन्तरं सुखम् ।
क्षया निचयाः सर्वे पतनान्ताः समुच्छ्रयाः ॥
संयोगा *********** मरणान्तं च जीवितम् ।
उच्छ्रयांश्च निपाताश्च दृष्ट्या प्रत्यक्षतस्त्रयम् ।
अनित्यमसुखं चेति व्यवस्येत्सर्वमेव च ॥
अर्थानामार्जने दुःखमार्जितानां तु रक्षणे ।
नाशे दुःखं व्यये दुःखं धिगर्थं दुःखभाजनम् ॥
अर्थवन्तं नरं नित्यं पञ्चाभिघ्नन्ति शत्रवः ।
राजा चोरश्च दायादा भूतानि क्षय एव च ॥
अर्थमेव ह्यनर्थस्य मूलमित्यवधारय ।
न ह्यनर्थाः प्रबाधन्ते नरमर्तविवर्जितम् ॥
अर्थप्राप्तिर्महद्दुःखमाकिञ्चिन्यं परं सुखम् ।
उपद्रवेषु चार्थानां दुःखं हि नियतं भवेत् ॥
धनलोभेन तृष्णाया न तृप्तिरुपलभ्यते ।
लब्धाश्रयो विवर्धेत समिद्ध इव पावकः ॥
जित्वाऽपि पृथिवीं कृत्स्नां चतुःसागरमेखलाम् ।
सागराणां पुनः पारं जेतुमिच्छत्यसंशयम् ॥
अलं परिग्रहेणेह दोषवान्हि परिग्रहः ।
कोशकारः क्रिमिर्देवि बध्यते हि परिग्रहात् ॥
एकोऽपि पृथिवीं कृत्स्नामेकच्छत्रां प्रशास्ति च ।
एकस्मिन्नेव राष्ट्रे तु स चापि निवसेन्नृपः ॥
तस्मिन्राष्ट्रेऽपि नगरमेकमेवाधितिष्ठति ।
नगरेऽपि गृहं चैकं भवेत्तस्य निवेशनम् ॥
एक एव प्रतिष्ठः स्यादावासस्तद्गृहेऽपि च ।
आवासे शयनं चैकं निशि यत्र प्रलीयते ॥
शयनस्यार्धमेवास्य स्त्रियाश्चार्धं विधीयते ।
तदनेन प्रसङ्गेन स्वल्पेनैव हि युज्यते ॥
सर्वं ममेति सम्मूढो बलं पश्यति बालिशः ।
एवं सर्वोपयोगेषु स्वल्पमस्य प्रयोजनम् ॥
तण्डुलप्रस्थमात्रेण यात्रा स्यात्सर्वदेहिनाम् ।
ततो भूयस्तरो योगो दुःखाय तपनाय च ॥
नास्ति तृष्णासमं दुःखं नास्ति त्यागसमं सुखम् ।
सर्वान्कामान्परित्यज्य ब्रह्मभूयाय कल्पते ॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ।
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥
न जातु कामः कामानामुपभोगेन शाम्यति ।
हविषा कुष्णवर्त्मेव भूय एवाभिवर्धते ॥
अलाभेनैव कामानां शोकं त्यजति पण्डितः ।
आयासविटपस्तीव्रः कामाग्निः कर्षणारणिः ।
इन्द्रियार्थैश्च सम्मोह्य दहत्यकुशलं जनम् ॥
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
नालमेकस्य पर्याप्तमिति पश्यन्न मुह्यति ॥
यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥
इन्द्रियाणीन्द्रियार्थेषु नैव धीरो नियोजयेत् ।
मनःषष्ठानि संयम्य नित्यमात्मनि योजयेत ॥
इन्द्रियाणां विसर्गेण दोषमृच्छत्यसंशयम् ।
संनियम्य नु तान्येव ततः सिद्धिमवाप्नुयात् ॥
षण्णामात्मनि युक्तानामैश्वर्यं योऽधिगच्छति ।
न च पापैर्न चानर्थैः संयुज्येत विचक्षणः ॥
अप्रमत्तः सदा रक्षेदिन्द्रियाणि विचक्षणः ।
अरक्षितेषु तेष्वाशु नरो नरकमेति हि ॥
हृदि काममयश्चित्रो मोहसञ्चयसम्भवः ।
अज्ञानरूढमूलस्तु विवित्सापरिषेचनः ॥
रोषलोभमहास्कन्धः पुरा दुष्कृतसारवान् ।
आयासविटपस्तीव्रशोकपुष्पो भयाङ्कुरः ॥
नानासङ्कल्पपत्राढ्यः प्रमादात्परिवर्धितः ।
महतीभिः पिपासाभिः समन्तात्परिवेष्टितः ॥
संरोहत्यकृतप्रज्ञे पादपः कामसम्भवः ।
नैव रोहति तत्वज्ञे रूढो वा छिद्यते पुनः ॥
कृच्छ्रोपायेष्वनित्येषु निःसारेषु फलेषु च ।
दुःखादिषु दुरन्तेषु कामयोगेषु का रतिः ॥
इन्द्रियेषु च जीर्यत्सु च्छिद्यमाने तताऽऽयुषि ।
पुरस्ताच्च स्थिते मृत्यौ किं सुखं पश्यतासुखे ॥
व्याधिभिः पीड्यमानस्य नित्यं शारीरमानसैः ।
नरस्याकृतकृत्यस्य किं सुखं मरणे सति ॥
सञ्चिन्वानं तमेवार्थं कामानामवितृप्तकम् ।
व्याघ्रः पशुमिवारण्ये मृत्युरादाय गच्छति ॥
जन्ममृत्युजरादुःखैः सततं समभिद्रुतः ।
संसारे पच्यमानस्तु पापान्नोद्विजते जनः ॥
उमोवाच ।
केनोपायेन मर्त्यानां निवर्त्येते जरान्तकौ ।
यद्यस्ति भगवन्मह्यमेतदाचक्ष्व माचिरम् ॥
तपसा वा सुमहता कर्मणा वा श्रुतेन वा ।
रसायनप्रयोगैर्वा केनात्येति जरान्तकौ ॥
महेश्वर उवाच ।
नैतदस्ति महाभागे जरामृत्युनिवर्तनम् ।
सर्वलोकेषु जानीहि मोक्षादन्यत्र भामिनि ॥
न धनेन न राज्येन नोग्रेण तपसाऽपि वा ।
मरणं नातितरते विना मुक्त्या शरीरिणः ॥
अश्वमेधसहस्राणि वाजपेयशतानि च ।
न तरन्ति जरामृत्यू निर्वाणाधिगमाद्विना ॥
ऐस्वर्यं धनधान्यं च विद्यालाभस्तपस्तथा ।
रसायनप्रयोगाद्वै न तरन्ति जरान्तकौ ॥
दानयज्ञतपःशीलरसायनविदोऽपि वा ।
स्वाध्यायनिरता वाऽपि न तरन्ति जरान्तकौ ॥
देवदानवगन्धर्वकिन्नरोरगराक्षसान् ।
स्ववशे कुरुते कालो न कालस्यास्त्यगोचरः ॥
न ह्यहानि निवर्तन्ते न मासा न पुनः क्षपाः ।
स्रेयं प्रपद्यते ध्यानमजस्रं ध्रुवमव्ययम् ॥
स्रवन्ति न निवर्तन्ते स्रोतांसि सरितामिव ।
आयुरादाय मर्त्यानामहोरात्रेषु सन्ततम् ॥
जीवितं सर्वभूतानामक्षयः क्षपयन्नसौ ।
आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च ॥
यस्यां रात्र्यां व्यतीतायामायुरल्पतरं भवेत् ।
गाधोदके मत्स्य इव किन्नु तस्य कुमारता ॥
मरणं हि शरीरस्य नियतं ध्रुवमेव च ।
तिष्ठन्नपि क्षणं सर्वः कालस्यैति वशं पुनः ॥
न म्रियेरन्न जीर्येरन्यदि स्युः सर्वदेहिनः ।
न चानिष्टं प्रवर्तेत शोको वा प्राणिनं क्वचित् ॥
अप्रमत्तः प्रमत्तेषु कालो भूतेषु तिष्ठति ।
अप्रमत्तस्य कालस्य क्षयं प्राप्तो न मुच्यते ॥
श्वःकार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् ।
कोपि तद्वेद यत्रासौ मृत्युना नाभिवीक्षितः ॥
वर्षास्विदं करिष्यामि इदं ग्रीष्मवसन्तयोः ।
इति बालश्चिन्तयति अन्तरायं न बुध्यति ॥
इदं मे स्यादिदं मे स्यादित्येवं मनसा नराः ।
अनवाप्तेषु कामेषु ह्रियन्ते मरणं प्रति ॥
कालपाशेन बद्धानामहन्यहनि जीर्यताम् ।
का श्रद्धा प्राणिनां मार्गे विषमे भ्रमतां सदा ॥
युवैव धर्मशीलः स्यादनिमित्तं हि जीवितम् ।
फलानामिव पक्वानां सदा हि पतनाद्भयम् ॥
मर्त्यस्य किं धनैर्दारैः पुत्रैर्भोगैः प्रियैरपि ।
एकाह्ना सर्वमुत्सृज्य मृत्योस्तु वशमन्वियात् ।
जायामानांश्च सम्प्रेक्ष्य म्रियमाणांस्तथैव च ।
न संवेगोस्ति चेत्पुंसः काष्ठलोसमो हि सः ॥
विनाशिनो ह्यध्रुवजीवितस्य
किं बन्धुभिर्मित्रपरिग्रहैश्च ।
विहाय यद्गच्छति सर्वमेवं
क्षणेन गत्वा न निवर्तते च ॥
एवं चिन्तयतो नित्यं सर्वार्थानामनित्यताम् ।
उद्वेगो जायते शीघ्रं निर्वाणस्य पुरस्सरः ॥
तेनोद्वेगेन चाप्यस्य विमर्शो जायते पुनः ।
विमर्शो नाम वैराग्यं सर्वद्रव्येषु जायते ॥
वैराग्येण परां शान्तिं लभन्ते मानवाः शुभे ।
मोक्षस्योपनिषद्दिव्यं वैराग्यमिति निश्चितम् ॥
एतत्ते कथितं देवि वैराग्योत्पादनं वचः ।
एवं सञ्चिन्त्य सञ्चिन्त्य मुच्यन्ते हि मुमुक्षवः ॥ ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 244 ॥
7-244-18 दाराश्चोराश्चेति क.पाठः ॥
श्रीः