अध्यायः 246
अथ दानधर्मपर्व ॥ 1 ॥
महेश्वरेण पार्वतींप्रति योगनिरूपणपूर्वकं तत्फलप्रतिपादनम् ॥ 1 ॥
महेश्वर उवाच ।
साङ्ख्यज्ञाने नियुक्तानां यथावत्कीर्तितं मया ।
योगधर्मं पुनः कृत्स्नं कीर्तयिष्यामि ते शृणु ॥
स च योगो द्विधा भिन्नो ब्रह्मिदेवर्षिसम्मतः ।
समानमुभयत्रापि वृत्तं शास्त्रप्रचोदितम् ॥
च चाष्टगुणमैश्वर्यमधिकृत्य विधीयते ।
सायुज्यं सर्वदेवानां योगधर्मं परं श्रिताः ॥
ज्ञानं सर्वस्य योगस्य मूलमित्यवधारय ।
व्रतोपवासनियमैस्तत्सर्वं चापि बृंहयेत् ॥
ऐकात्म्यं बुद्धिमनसोरिन्द्रियाणां च सर्वशः ।
आत्मनो वेदितं प्राज्ञे ज्ञानमेतत्तु योगिनाम् ॥
अर्चयेद्ब्राह्मणानग्निं देवतायतनानि च ।
वर्जयेदशिवं भावं सर्वसत्त्वमुपाश्रितः ॥
दानमध्ययनं श्रुद्धा व्रतानि नियमास्तथा ।
सत्यमाहारशुद्धिश्च शौचमिन्द्रियनिग्रहः ।
एतैश्च वर्धते तेजः पापं चाप्यवधूयते ॥
निर्धूतपापस्तेजस्वी लघ्वाहारो जितेन्द्रियः ।
अमोधो निर्मलो दान्तः पश्चाद्योगं समाचरेत् ॥
अवरुध्यात्मनः पूर्वं मत्स्यघात इवामिषम् ।
एकान्ते विजने देशे सर्वतः संवृते शुचौ ।
कल्पयेदासनं तत्र स्वास्तीर्णं मृदुभिः कुशैः ॥
उपविश्यासने तस्मिन्नृजुकायशिरोधरः ।
अव्यग्रः सुखमासीनः स्वाङ्गानि न विकम्पयेत् ।
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥
मनोऽवस्थापनं देवि योगस्योपनिषद्भवेत् ।
तस्मात्सर्वप्रयत्नेन मनोऽवस्थापयेत्सदा ॥
त्वक्छ्रोत्रं च ततो जिह्वा घ्राणं चक्षुश्च संहरेत् ।
पञ्चेन्द्रियाणि सन्धाय मनसि स्थापयेद्बुधः ॥
सर्वं चापोह्य सङ्कल्पमात्मनि स्थापयेन्मनः ।
यदैतान्यवतिष्ठन्ते मनःषष्ठानि चात्मनि ॥
प्राणापानौ तदा तस्य युगपत्तिष्ठतो वशे ।
प्राणे हि वशमापन्ने योगसिद्धिर्ध्रुवा भवेत् ॥
शरीरं चिन्तयेत्सर्वं विपाट्य च समीपतः ।
अन्तर्देहगतिं चापि प्राणानां परिचिन्तयेत् ॥
ततो मूर्धानमग्निं च शरीरं परिपालयेत् ।
प्राणो मूर्धनि च श्वासो वर्तमाने विचेष्टते ॥
सज्जस्तु सर्वभूतात्मा पुरुषः स सनातनः ।
मनो बुद्धिरहङ्कारो भूतानि विषयांश्च सः ॥
बस्तिर्मूलं गुदं चैव पावकं च समाश्रितः ।
वहन्मूत्रं पुरीषं च सदाऽपानः प्रवर्तते ॥
अतः प्रवृत्तिर्देहषु कर्म चापानसंयुतम् ।
उदीरयन्सर्वधातूनन्त ऊर्ध्वं प्रवर्तते ।
उदान इति तं विद्युरध्यात्मकुशला जनाः ॥
सन्धौसन्धौ स निर्विष्टः सर्वचेष्टाप्रवर्तकः ।
शरीरेषु मनुष्याणां व्यान इत्युपदिश्यते ॥
धातुष्वग्नौ च विततः समानोऽग्निः समीरणः ।
स एव सर्वचेष्टानामन्तकाले निवर्तकः ॥
प्राणानां सन्निपातेषु संसर्गाद्यः प्रजायते ।
ऊष्मा सोग्निरिति ज्ञेयः सोन्नं पचति देहिनाम् ॥
अपानप्राणयोर्मध्ये व्यानोदानावुपाश्रितौ ।
समन्वितः समानेन सम्यक्पचति पावकः ॥
शरीरमध्ये नाभिः स्यान्नाभ्यामग्निः प्रतिष्ठितः ।
अग्नौ प्राणाश्च संयुक्ताः प्राणेष्वात्मा व्यवस्थितः ॥
पक्वाशयस्त्वधो नाभेरूर्ध्वमामाशयस्तथा ।
नाभिर्मध्ये शरीरस्य सर्वप्राणाश्च संश्रिताः ॥
स्थिताः प्राणादयः सर्वे तिर्यगूर्ध्वमधश्वराः ।
वहन्त्यन्नरसान्नाड्यो दशप्राणाग्निचोदिताः ॥
योगिनामेष मार्गस्तु पञ्चस्वेतेषु तिष्ठति ।
जितश्रमः समासीनो मूर्धन्यात्मानमादधेत् ॥
मूर्धन्यात्मानमाधाय भ्रुवोर्मध्ये मनस्तथा ।
सन्निरुध्य ततः प्राणानात्मानं चिन्तयेत्परम् ॥
प्राणे त्वपानं युञ्जीत प्राणांश्चापानकर्मणि ।
प्राणापानगती रुद्ध्वा प्राणायामपरो भवेत् ॥
एवमन्तः प्रयुञ्जीत पञ्च प्राणान्परस्परम् ।
विजने सम्मिताहारो मुनस्तूष्णीं निरुच्छ्वसन् ॥
अश्रान्तश्चिन्तयेद्योगी उत्थाय च पुनःपुनः ।
तिष्ठन्गच्छन्स्वपंस्चापि युञ्जीतैवमतन्द्रितः ॥
एवं नियुञ्जतस्तस्य योगिनो युक्तचेतसः ।
प्रसीदति मनः क्षिप्रं प्रसन्ने दृश्यते परम् ॥
विधूम इव दीप्तोऽग्निरादित्य इव रश्मिवान् ।
वैद्युतोऽग्निरिवाकाशे पुरुषो दृश्यतेऽव्ययः ॥
दृष्ट्वा तदात्मनो ज्योतिरैश्वर्याष्टगुणैर्युतः ।
प्राप्नोति परमं स्थानं स्पृहणीयं सुरैरपि ॥
इमान्योगस्य दोषांश्च दशैव परिचक्षते ।
दोषैर्विघ्ने वरारोहे योगिनां कविभिः स्मृताः ॥
कामः क्रोधो भयं स्वप्नः स्नेहमत्यशनं तथा ।
वैचित्यं व्याधिरालस्यं लोभं च दशमं स्मृतम् ॥
एतैस्तेषां भवेद्विघ्नो दशभिर्देवकारितैः ।
तस्मादेतानपास्यादौ युञ्जीत च परं मनः ॥
इमानपि गुणानष्टौ योगस्य परिचक्षते ।
गुणैस्तैरष्टभिर्द्रव्यमैश्वर्यमधिगम्यते ॥
अणिमा महिमा चैव प्राप्तिः प्राकाम्यमेव हि ।
ईशित्वं च वशित्वं च यत्र कामावसायिता ॥
एतानष्टौ गुणान्प्राप्य कथञ्चिद्योगिनां वराः ।
ईशाः सर्वस्य लोकस्य देवानप्यतिशेरते ॥
योगोस्ति नैवात्यशिनो न चैकान्तमनश्नतः ।
न चातिस्वप्नशीलस्य नातिजागतरस्तथा ॥
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥
अनेनैव विधानेन सायुज्यं तत्प्रकल्प्यते ।
सायुज्यं देवसात्कृत्वा प्रयुञ्जीतात्मभक्तितः ॥
अनन्यमनसा देवि नित्यं तद्गतचेतसा ।
सायुज्यं प्राप्यते देवैर्यत्नेन महता चिरात् ॥
हविर्भिरर्चनैर्होमैः प्रणामैर्नित्यचिन्तया ।
अर्चयित्वा यथाशक्ति स्वकं देशं विशन्ति ते ॥
सायुज्यानां विशिष्टं च मामकं वैष्णवं तथा ।
मां प्राप्य न निवर्तन्ते विष्णु वा शुभलोचने ॥
इति ते कथितो देवि योगधर्मः सनातनः ।
न शक्यः प्रष्टुमन्येन योगधर्मस्त्वया विना ॥ ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 246 ॥
7-246-15 निपात्य चेति ङ.पाठः ॥
श्रीः