अध्यायः 247

अथ दानधर्मपर्व ॥ 1 ॥

महेश्वरेण पार्वतींप्रति स्वमाहात्म्यकथनपूर्वकं दीक्षया शिवलिङ्गार्चनाफलकथनम् ॥ 1 ॥

उमोवाच ।

त्रियक्ष त्रिदशश्रेष्ठ त्र्यम्बक त्रिदशाधिप ।
त्रिपुरान्तक कामाङ्गहर त्रिपथगाधर ॥
दक्षयज्ञप्रशमन सूलपाणेऽरिसूदन ।
नमस्ते लोकपालेश लोकपालवरप्रद ॥
नैकशाखमपर्यन्तमध्यात्मज्ञानमुत्तमम् ।
अप्रतर्क्यमविज्ञेयं साङ्ख्ययोगसमन्वितम् ॥
भवता परिपृष्टेन शृण्वन्त्या मम भाषितम् ।
इदानीं श्रोतुमिच्छामि सायुज्यं त्वद्गतं विभो ॥
कथं परिचरन्त्येते भक्तास्त्वां परमेष्ठिनम् । आचारः कीदृशस्तेषां केन तुष्टो भवेद्भवान् ।
वर्ण्यमानं त्वया साक्षात्प्रीणयत्यधिकं हि मा ॥
महेश्वर उवाच ।
हन्त ते कथयिष्यामि मम सायुज्यमद्भुतम् ।
येन ते न निवर्तन्ते युक्ताः परमयोगिनः ॥
अव्यक्तोऽहमचिन्त्योऽहं पूर्वैरपि मुमुक्षुभिः ।
साङ्ख्ययोगौ मया सृष्टौ सर्वं चापि चराचरम् ॥
अर्चनीयोऽहमीशोऽहमव्ययोऽहं सनातनः ।
अहं प्रसन्नो भक्तानां ददाम्यमरतामपि ॥
न मां विदुः सुरगणा मुनयश्च तपोधनाः ।
त्वत्प्रियार्थमहं देवि मद्विभूतिं ब्रवीमि ते ॥
आश्रमेभ्यश्चतुर्भ्योऽहं चतुरो ब्राह्मणाञ्शुभे ।
मद्भक्तान्निर्मलान्पुण्यान्समानीय तपस्विनः ॥
व्याचख्येऽहं तथा देवि योगं पाशुपतं महत् ।
गृहीतं तच्च तैः सर्वं मुखाच्च मम दक्षिणात् ॥
श्रुत्वा तत्त्रिषु लोकेषु स्थापितं चापि तैः पुनः ।
इदानीं च त्वया पृष्टो वदाम्येकमनाः शृणु ॥
अहं पसुपतिर्नाम मद्भक्ता ये च मानवाः ।
सर्वे पाशुपता ज्ञेया भस्मदिग्धतनूरुहाः ॥
रक्षार्थं मङ्गलार्थं न पवित्रार्थं च भामिनि ।
लिङ्गार्थं चैव भक्तानां भस्म दत्तं मया पुरा ॥
तेन संदिग्धसर्वाङ्गा भस्मना ब्रह्मचारिणः ।
जटिला मुण्डिता वाऽपि नानाकारशिखण्डिनः ॥
विकृताः पिङ्गलाभिस्च नग्ना नानाप्रकारिणः ।
भैक्षं चरन्तः सर्वत्र निःस्पृहा निष्परिग्रहाः ॥
मृत्पात्रहस्ता मद्भक्ता मन्निवेशितबुद्ध्यः ।
चरन्तो निखिलं लोकं मम हर्षविवर्धनाः ॥
मम पाशुपतं दिव्यं योगशास्त्रमनुत्तमम् ।
सूक्ष्मं सर्वेषु लोकेषु विमृशन्तश्चरन्ति ते ॥
एवं नित्याभियुक्तानां मद्भक्तानां तपस्विनाम् ।
उपायं चिन्तयाम्याशु येन मामुपयान्ति ते ॥
स्थापितं त्रिषु लोकेषु शिवलिङ्गं मया मम ।
नमस्कारेण वा तस्य मुच्यन्ते सर्वकिल्बिषैः ॥
इष्टं दत्तमधीतं च यज्ञाश्च बहुदक्षिणाः ।
शिवलिङ्गप्रणामस्य कलां नार्हन्ति षोडशीम् ॥
अर्चया शिवलिङ्गस्य परितुष्याम्यहं प्रिये ।
शिवलिङ्गार्चनायां तु विदानमपि मे शृणु ॥
गोक्षीरनवनीताभ्यामर्चयेद्यः शिवं मम ।
इष्टस्य हयमेधस्य यत्फलं तत्फलं भवेत् ॥
घृतमण्डेन यो नित्यमर्चयेद्यः शिवं मम ।
स फलं प्राप्नुयान्मर्त्यो ब्राह्मणस्याग्निहोत्रिणः ॥
केवलेनापि तोयेन स्नापयेद्यः शिवं मम ।
स चापि लभते पुण्यं प्रियं च लभते नरः ॥
सघृतं गुग्गुलु सम्यग्धूपयेद्यः शिवान्तिके ।
गोसवस्य तु यज्ञस्य यत्फलं तस्य तद्भवेत् ॥
यस्तु गुग्गुलपिण्डेन केवलेनापि धूपयेत् ।
तस्य रुक्मप्रधानस्य यत्फलं तस्य तद्भवेत् ॥
यस्तु नानाविधैः पुष्पैर्मम लिङ्गं समर्चयेत् । स हि धेनुसहस्रस्य दत्तस्य फलमाप्नुयात् ।
यस्तु देशान्तरं गत्वा शिवलिङ्गं समर्चयेत् ।
तस्मात्सर्वमनुष्येषु नास्ति मे प्रियकृत्तमः ॥
एवं नानाविधैर्द्रव्यैः शिवलिङ्गं समर्चयेत् ।
मत्समानो मनुष्येषु न पुनर्जायते नरः ॥
अर्चनाभिर्नमस्कारैरुपहारैः स्तवैरपि ।
भक्तो मामर्चयेन्नित्यं शिवलिङ्गेष्वतन्द्रितः ॥
पलाशबिल्वपत्राणि राजवृक्षस्रजं तथा ।
अर्कपुष्पाणि मेध्यानि मत्प्रियाणि विशेषतः ॥
फलं वा यदि वा शाकं पुष्पं वा यदि वा जलम् ।
दत्तं सम्प्रीणयेद्देवि भक्तैर्मद्गतमानसैः ॥
ममाभिपरितुष्टस्य नास्ति लोकेषु दुर्लभम् ।
तस्मात्ते सततं भक्ता मामेवाभ्यर्चयन्त्युत ॥
मद्भक्ता न विनश्यन्ति मद्भक्ता वीतकल्मषाः ।
मद्भक्ताः सर्वलोकेषु पूजनीया विशेषतः ॥
मद्द्वेषिणश्चि ये मर्त्या मद्भक्तद्वेषिणश्च वा ।
यान्ति ते नरकं घोरमिष्ट्वा क्रतुशतैरपि ॥
एतत्ते सर्वमाख्यातं योगं पाशुपतं महत् ।
मद्भक्तैर्मनुजैर्देवि श्राव्यमेतद्दिनेदिने ॥
शृणुयाद्यः पठेद्वाऽपि ममेदं धर्मनिश्चयम् ।
स्वर्गं कीर्तिं धनं धान्यं स लभेत नरोत्तमः ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 247 ॥

श्रीः