अध्यायः 248
अथ दानधर्मपर्व ॥ 1 ॥
महेश्वरेण पार्वतींप्रति सश्लाघं स्त्रीधर्मकथनचोदना ॥ 1 ॥ पार्वत्या गङ्गादिमहानदीषु तन्निवेदनम् ॥ 2 ॥ गङ्गया तदनुमोदनपूर्वकं भगवति तत्कथनाभ्यनुज्ञानम् ॥ 3 ॥
नारद उवाच ।
एवमुक्त्वा महादेवः श्रोतुकामः स्वयं प्रभुः ।
अनुकूलां प्रियां भार्यां पार्श्वस्तामभ्यभाषत ॥
महेश्वर उवाच ।
परावरज्ञे धर्माणां तपोवननिवासिनाम् ।
दीक्षाविधिदमोपेते सततं व्रतचारिणि ।
पृच्छामि त्वां वरारोहे पृष्टा वद ममेप्सितम् ॥
सावित्री ब्रह्मणः पत्नी कौशिकस्य शची शुभा ।
लक्ष्मीर्विष्णोः प्रिया भार्या धृतिर्भार्या यमस्य तु ॥
मार्कण्डेयस्य धूमोर्णा ऋद्धिर्वैश्रवणस्य तु ।
वरुणस्य प्रिया गौरी सवितुश्च सुवर्चला ॥
रोहिणी शशिनो भार्या स्वाहा चाग्नेरनिन्दिता ।
काश्यपस्यादितिश्चैव वसिष्ठस्याप्यरुन्धती ॥
एताश्चान्याश्च देव्यस्तु सर्वास्ताः पतिदेवताः ।
श्रूयन्ते लोकविख्यातास्त्वया चैव सहोषिताः ॥
ताभिश्च पूजिताऽपि त्वमनुवृत्त्यनुभाषणैः ।
तस्मात्तु परिपृच्छामि धर्मज्ञे लोकसम्मते ॥
स्त्रीधर्मं श्रोतुमिच्छामि त्वयैव समुदाहृतम् ।
सध्रमचारिणी मे त्वं लोकसन्धारिणी तथा ॥
अयं हि स्त्रीगणस्त्वां तु अनुयाति न मुञ्चति ।
त्वत्प्रसादाद्धितं श्रोतुं स्त्रीवृत्तं शुभलक्षणम् ॥
त्वया चोक्तं विशेषेण गुणभूतं हि तिष्ठति ।
स्त्रिय एव सदा लोके स्त्रीगणस्य गतिः प्रिये ॥
शश्वद्गौर्गोषु गच्छेत नान्यत्र रमते नरः ।
एवं लोकगतिर्देवि आदिप्रभृति वर्तते ॥
प्रमदोक्तं तु यत्किञ्चित्तत्स्त्रीषु बहुमन्यते ।
न तथा मन्यते स्त्रीषु पुरुषोक्तमनिन्दिते ॥
त्वयैष विदितो ह्यर्थः स्त्रीणां धर्मः सनातनः ।
तस्मात्त्वां प्रति पृच्छामि पृष्टा वद ममेप्सितम् ॥
नारद उवाच ।
एवमुक्ता तदा देवी महादेवेन शोभना ।
सोद्वेगा च सलज्जा च नावदत्तत्र किञ्चन ।
पुनः पुनस्तदा देवी देवः किमिति चाब्रवीत् ॥
उमोवाच ।
भगवन्देवदेवेश सुरासुरनमस्कृत ।
त्वदन्तिके मया वक्तुं स्त्रीणां धर्मः कथं भवेत् ॥ महेश्वर
उवाच ।
मन्नियोगादवश्यं तु वक्तव्यं तु मम प्रिये ॥
उमोवाच ।
इमा नद्यो महादेव सर्वतीर्थोदकान्विताः ।
उपस्पर्शनहेतोस्त्वां न त्यजन्ति समीपतः ॥
एताभिः सह सम्मन्त्र्य प्रवक्ष्यामि तवेप्सितम् ।
अयुक्तं सत्सु तन्त्रेषु तानतिक्रम्य भाषितुम् ॥
मया सम्मानिताश्चैव भविष्यन्ति सरिद्वराः ॥
नारद उवाच ।
इति मत्वा महादेवी नदीर्देवीः समाह्वयत् ।
विपाशां च वितस्त्यां च चन्द्रभागां सरस्वतीम् ॥
शतद्रुं देविक्तां सिन्धुं गौतमीं कौशिकीं तथा ।
यमुनां नर्मदां चैव कावेरीमथ निम्नगाम् ॥
तथा देवनदीं गङ्गां श्रेष्ठां त्रिपथगां शुभाम् ।
सर्वतीर्थोदकवहां सर्वपापविनाशिनीम् ।
एता नदीः समाहूय समुद्वीक्ष्येदमब्रवीत् ॥
उमोवाच ।
हे पुण्याः सरितः श्रेष्ठाः सर्वपापविनाशिकाः ।
ज्ञानविज्ञानसम्पन्नाः शृणुध्वं वचनं मम ॥
अयं भगवता प्रश्न उक्तः स्त्रीधर्ममाश्रितः ।
न चैकया मया साद्यं तस्माद्वस्त्वानयाम्यहम् ॥
युष्माभिस्तद्विचार्यैवं वक्तुमिच्छामि शोभनाः ।
तत्कथं देवदेवाय वाच्यः स्त्रीधर्म उत्तमः ॥
नारद उवाच ।
इति पृष्टास्तथा देव्या महानद्यश्चकम्पिरे ।
तासां श्रेष्ठतमा गङ्गा वचनं त्ववेमब्रवीत् ॥
धन्याश्चानुगृहीताः स्म अनेन वचनेन ते ।
या त्वं सुरासुरैर्मान्या नदीराद्रियसेऽनघे ॥
तवैवार्हति कल्याणि एवं सान्त्वप्रसादनम् ।
अशक्यमपि ये मूर्खाः स्वात्मसम्भावनायुताः ।
वाक्यं वदन्ति संसत्सु स्वयमेव यथेष्टतः ॥
शक्तो यश्चानहंवादी सुदुर्लभतमो मतः ॥
त्वं हि शक्ता सती देवी वक्तुं प्रश्नमशेषतः ।
व्याहर्तुं नेच्छसि स्त्रीत्वात्संपूजयति नस्तथा ॥
त्वं हि देवि महादेवी ऊहापोहविशारदा ।
दिव्यज्ञानयुता देवि दिव्यज्ञानेन्धनैधिता ॥
त्वमेवार्हसि तद्वक्तुं स्त्रीणां वृत्तं शुभाशुभम् ।
याचामहे वयं श्रोतुममृतं त्वन्मुखोद्गतम् ।
कुरु देवप्रियं देवि वद स्त्रीधर्ममुत्तमम् ॥
नारद उवाच ।
एवं प्रसादिता देवी गङ्गया लोकपूज्यया ।
प्राह धर्ममशेषेण स्त्रीधर्मं सुरसुन्दरी ॥
उमोवाच ।
भगवन्देवदेवेश सुरेश्वर महेश्वर ।
त्वत्प्रसादात्सुरश्रेष्ठ तवैव प्रियकाम्यया ।
तमहं कीर्तयिष्यामि यथावच्छ्रोतुमिच्छसि ॥ ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टचत्वारिंशदधिकद्विशततमोऽध्यायः ॥ 248 ॥
श्रीः