अध्यायः 250

अथ दानधर्मपर्व ॥ 1 ॥

पार्वत्या महेश्वरंप्रति स्त्रीधर्मकथनम् ॥ 1 ॥ नारदेन कृष्णंप्रति उमामहेश्वरसंवादानुवादोपसम्हारः ॥ 2 ॥

उमोवाच ।

पतिमत्या दिवारात्रं वृत्तान्तं श्रूयतां शुभम् ।
पत्युः पूर्वं समुत्थाय प्रातःक्रम समाचरेत् ॥
पत्युर्भावं विदित्वा तु पश्चात्सम्बोधयेत्तु तम् ।
नित्यं पौर्वाह्णिकं कार्यं स्वयं कुर्याद्यथाविधि ॥
निवेद्य च तथाऽऽहारं यथा सम्पद्यतामिति ।
तथैव कुर्यात्तत्सर्वं यथा पत्युः प्रियं भवेत् ॥
यथा भर्ता तथा नारी गुरूणां प्रतिपद्यते ॥
शुश्रूषापोषणविधौ पतिप्रियचिकीर्षया ।
भर्तुर्निष्क्रमणे कार्यं संस्मरेदप्रमादतः ॥
आगतं तु पतिं दृष्ट्वा सहसा परिचारणम् ।
स्वयं कुर्वीत सम्प्रीत्या कायश्रमहरं परम् ॥
पाद्यसनाभ्यां शयनैर्वाक्यैश्च हृदयप्रियैः ।
अतिथीनामागमेन प्रीतियुक्ता सदा भवेत् ॥
कर्मणा वचनेनापि तोषयेदतिथीन्सदा ।
मङ्गलं गृहशौचं च सर्वोपकरणानि च ॥
सर्वकालमवेक्षेत कारयन्ती च कुर्वती ।
धर्मकार्ये तु सम्प्राप्ते तद्वद्धर्मपरा भवेत् ॥
अर्थकार्ये पुनर्भर्तुः प्रमादालस्यवर्जिता ।
सा यत्नं परमं कुर्यात्तस्यि साहाय्यकारणात् ॥
धुरन्धरा भवेद्भर्तुः साध्वी धर्मार्थयोः सदा ।
विहारकाले वै भर्तुर्ज्ञात्वा भावं हृदि स्थितम् ॥
अलङ्कृत्य यथायोगं मन्दहाससमन्वितम् ।
वाक्यैर्मधुरसंयुक्तैः स्मयन्ती तोषयेत्पतिम् ॥
कठोराणि न वाच्यानि अन्यथा प्रमदान्तरे ।
यस्यां कामी भवेद्भर्ता तस्याः प्रीतिकरी भवेत् ॥
अप्रमादं पुरस्कृत्य मनसा तोषयेत्पतिम् ।
अनन्तरमथान्येषां भोजनावेक्षणं चरेत् ॥
दासीदासबलीवर्दांश्चण्डालं च शुनस्तथा । अनाथान्कृपणांश्चैव भिक्षुकांश्च तथैव च ।
पूजयेद्बलिभैक्षेण पत्युर्धर्मं विवर्धयेत् ॥
कुपितं वाऽर्थहीनं वा श्रान्तं वोपचरेत्पतिम् ।
यता स तुष्टः स्वस्थश्च तथा सन्तोषयेत्पतिम् ॥
यथा कुटुम्बचिन्तायां विवादे वाऽर्थसञ्चये ।
आहूता तत्सहायार्थं तथा प्रियहितं वदेत् ॥
अप्रियं च हितं ब्रूयात्तस्य धर्मार्थकाङ्क्षया ।
एकान्तचर्याकथनं कलहं वर्जयेत्परैः ॥
बहिरालोकनं चैव मोहं व्रीडां च पैशुनम् ।
बह्वाशित्वं दिवास्वप्नमेवमादि विवर्जयेत् ॥
रहस्येकासनं साध्वी न कुर्यादात्मजैरपि ।
यद्यद्दद्यान्नियत्स्वेति न्यासवत्परिपालयेत् ॥
विस्मृतं वाऽपि यद्द्रव्यं प्रतिपद्यात्स्वशौचतः ।
यत्किञ्चित्पतिना दत्तं लब्ध्वा तत्सा सुकी भवेत् ॥
अतीवाज्ञामतीर्ष्यां च दूरतः परिवर्जयेत् ।
बालवद्वृद्धवद्भार्या सदैवानुचरेत्पतिम् ॥
भार्याया व्रतमित्येव कर्तव्यं सततं विभो ।
एतत्पतिव्रतावृत्तमुक्तं देव समासतः ॥
न च भोगे न चैश्वर्ये न सुखे न धने तथा ।
स्पृहा यस्यास्तथा भर्तुः सा नारीणां पतिव्रता ॥
पतिर्हि दैवतं स्त्रीणां पतिर्बन्धुः पतिर्गतिः ।
नान्यं गतिमहं पश्ये प्रमदाया यथा पतिः ॥
जातिष्वपि च वै स्त्रीत्वं विशिष्टं मे मतिः प्रभो । कायक्लेशेन महता पुरुषः प्राप्नुयात्फलम् ।
तत्सर्वं लभते नारी सुखेन पतिपूजया ॥
यथासुखं पतिमती सर्वं पत्यनुकूलतः । ईदृशं धर्मसाकल्यं पश्य त्वं प्रमदां प्रति ।
एतद्विसृज्य पच्यन्ते कुस्त्रियः पापमोहिताः ॥
तपश्चर्या च दानं च पतौ तस्याः समर्पितम् ।
रूपं कुलं यशस्तेजः सर्वं तस्मिन्प्रतिष्ठितम् ॥
एवं व्रतसमाचाराः स्ववृत्तेनैव शोभनाः ।
स्वभर्त्रा च सम गच्छेत्पुण्यलोकान्सुकर्मणा ॥
वृद्धो विरुपो बीभत्सो धनवान्निर्धनोऽपि वा ।
एवंभूतोपि वै भर्ता स्त्रीणां भूषणमुत्तमम् ॥
आढ्यं वा रूपयुक्तं वा विरूपं धनवर्जितम् ।
या पतिं तोषयेत्साध्वी सा पत्नीनां विशिष्यते ॥
दरिद्रांश्च विरूपाश्च प्रमूढान्कुष्टसंयुतान् ।
पतीनुपचरेल्लोकानक्षयान्प्रतिपद्यते ॥
एवं प्रवर्तमानायाः पतिः पूर्वं म्रियेत चेत् ।
तदाऽनुमरणं गच्छेत्पुनर्धर्मं चरेत वा ॥
एतदेवं मया प्रोक्तं स्त्रियस्तु बहुधा स्मृताः ।
देवदानवगन्धर्वा मनुष्या इति नैकधा ॥
सौम्यशीलाः शुभाचाराः सर्वास्ताः सम्भवन्ति च ।
यथा शुभं प्रवक्ष्यामि स्त्रीणां धर्मं महेश्वर ॥
आसुर्यश्चैव पैशाच्यो राक्षस्यश्च भन्ति हि ।
तासां वृत्तमशेषेण श्रूयतां लोककारणात् ॥
न्यायतो वाऽन्यथा प्रोक्ता भावदोषसमन्विताः ।
भर्तॄनुपचरन्त्येव रागद्वेषबलात्कृताः ॥
स्वधर्मविमुखा भूत्वा प्रदूष्यन्ति यतस्ततः ।
प्रवृद्दविषया नित्यं प्रतिकूलं वदन्ति च ॥
अर्थान्विनाशयन्त्येवं न गृह्णन्ति हितं क्वचित् ।
स्वबुद्धिनिरता भूत्वा जीवन्ति च यथा तथा ॥
गुणवत्यः क्वचिद्भूत्वा पतिधर्मपरा इव ।
पुनर्भवन्ति पापिष्ठा विषमं वृत्तमास्थिताः ॥
अनवस्थितमर्यादा बहुवेषा व्यवस्थिताः ।
असन्तुष्टाश्च लुब्धाश्च ईर्ष्याक्रोधयुता भृशम् ॥
भोगप्रिया हितद्वेष्याः कामभोगपरायणाः ।
प्रायशोऽनृतभूयिष्ठा गुरूणां प्रतिलोमकाः ॥
एवंवृत्तसमाचारा आसुरं भावमाश्रिताः ।
अपकारपरा नित्यं सततं कलहप्रिया ॥
परुषा रुक्षवचना निर्घृणा निरपत्रपाः ।
निःस्नेहाः क्रोधनाश्चैव भर्तृपुत्रस्वबन्धुषु ॥
घोरा मांसप्रिया नित्यं हसन्ति च रुदन्ति च । पतीन्व्यभिचरन्त्येव दुर्मार्गेण यथा तथा ।
बन्धुभिर्भर्त्सिता भूत्वा गृहकार्याणि कुर्वते ॥
अथवा भर्त्सिता देव निवृत्ताः स्वेषु कर्मसु ।
तथैवात्मवधं घोरं व्यवस्येयुर्न संशयः ॥
निर्दया निरनुक्रोशाः कुटुम्बार्थविलोपकाः ।
धर्मर्थरहिता घोराः सततं कुर्वते क्रियाः ॥
अनर्थे निपुणाः पापाः परप्राणेषु निर्दयाः ।
एवंयुक्तसमाचाराः स्त्रियः पैशाचमाश्रिताः ॥
अपरा मोहसंयुक्ता निर्लज्जा रोदनप्रियाः । अशुद्धा मलदिग्धाङ्ग्य पानमांसरता भृशम् ।
वदन्त्यनृतवाक्यानि हसन्ति विलपन्ति च ।
दुष्पसादा महाक्रोधाः स्वप्नशीला निरन्तरम् । तामस्यो नष्टतत्वार्था मन्दशीला महोदराः ।
भुञ्जते विविधं सिद्धं भोजनं तीव्रसम्भ्रमाः ॥
गुणरूपवयोयुक्तं पतिं कामिनमुत्तमम् ।
हित्वाऽन्येनैव गच्छन्ति सर्वधा भृशतापिताः ॥
निर्लज्जा धर्मसन्दिग्धाः प्रतिकूलाः समन्ततः ।
एवंरूपसमाचाराः स्त्रियो राक्षसमाश्रिताः ॥
एवंविधानां सर्वासां न परत्र महासुखम् ।
नरकाद्विप्रमुक्तानां मानुष्यं दुर्लभं भवेत् ॥
कष्टं तत्रापि भुञ्जन्ते स्वकृतं दुःखजं बहु । दरिद्राः क्लेशभूयिष्ठा विरूपाः कुत्सिताः परैः ।
विधवा दुर्भगा वाऽपि लभन्ते दुःखमीदृशम् ॥
शतवर्षसहस्राणि निरयं व्यभिचारिणी ।
व्रजेत्पतिं च पापेन संयोज्य स्वकुलं तथा ॥
एतद्विज्ञाय पतितं पुनश्चेद्धितमात्मनः ।
कुर्याद्भर्तारमाश्रित्य तथा धर्मवमाप्नुयात् ॥
अतिसंयान्ति ताँल्लोकान्पुण्यान्परमशोभनान् ।
अवमत्य च याः पूर्वं पतिं दुष्टेन चेतसा ॥
वर्तमानास्च सततं भर्तॄणां प्रतिकूलतः ।
भर्त्रानुमरणं काले याः कुर्वन्ति तथाविधाः ॥
कामात्क्रोधाद्भयाल्लोभादपहास्या भवन्ति ताः ।
आदिप्रभृति कुस्त्रीणां तथाऽनुमरणं वृथा ॥
आदिप्रभृति या साध्वी पत्युः प्रियपरायणा ।
ऊर्ध्वं गच्छति सा पूता भर्त्राऽनुमरणं गता ॥
एवं मृताया वै लोकानहं पश्यामि चक्षुषा ।
स्पृहणीयान्सुरगणैर्यान्गच्छन्ति पतिव्रताः ॥
अथवा भर्तरि मृते वैधव्यं धर्ममाश्रिताः । तूष्णीं भौमं जले नित्यमञ्जलिस्नानमुत्तमम् ।
व्रतं च पतिमुद्दिश्य कुर्यश्चैव विधिं ततः ॥
एवं गच्छति सा नारी पतिलोकमनुत्तमम् ।
रमणीयमनिर्देश्यं दुष्प्रापं देवमानुषैः ॥
प्राप्नुयात्तादृशं लोकं केवलं या पतिव्रता ।
इति ते कथितं देव स्त्रीणां धर्मिमनुत्तमम् ॥
भवतः प्रियकामिन्या यन्मयोक्तं तवाग्रतः ।
चापल्यान्मम देवेश तद्भवान्क्षन्तुमर्हति ॥
नारद उवाच ।
एवं वदन्तीं रुद्राणीं लज्जाभावसमन्विताम् ।
प्रशशंस च देवेशो वाचा सञ्जनयन्प्रियम् ॥
ऋषयो देवगन्धर्वाः प्रमदाश्च सहस्रशः ।
प्रणम्य शिरसा देवीं स्तुतिभिश्चाभितुष्टुवुः ॥
पूजयामासुरपरे देवदेव मुदा युताः ।
संवादं चिन्तयन्त्यन्ते श्रद्दधानाः सुचेतसः ॥
ततस्तु देवदेवेशो देवीं वचनमब्रवीत् । शृणु कल्याणि मद्वाक्यं संवादोऽयं मया तव ।
पुण्यं पवित्रं ख्यातं च भविता नात्र संशयः ॥
य इमं श्रावयेद्विद्वान्संवादं चावयोः प्रिये ।
शुचिर्भूत्वा नरान्युक्तान्स तैः स्वर्गं व्रजेत्सुखम् ॥
यस्त्वेनं शृणुयान्नित्यं संवादं चावयोः शुभम् ।
कीर्तिमायुष्यमारोग्यं लभते स गतिं पराम् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चाशदधिकद्विशततमोऽध्यायः ॥ 250 ॥

7-250-59 सर्वाः पूता भवन्ति ता इति थ.पाठः ॥

श्रीः