अध्यायः 021

अथ दानधर्मपर्व ॥ 1 ॥

वर्षसहस्रान्ते परिणतादण्डाद्विनिर्गतेन गरुडेन मातृपार्श्वं विहाय चिराद्देशान्तरेष्वेव सञ्चरणम् ॥ 1 ॥ कदाचनं कद्रूविनताक्ष्यां समुद्रान्ते उच्चैरश्रवसो हयस्य दर्शनम् ॥ 2 ॥ कद्र्वा हयस्य वर्णं पृष्टया विनतया सर्वाङ्गश्वेतत्वकथनम् । `कद्र्वा तु नीलवालत्वकथनम् ॥ 3 ॥' तथा विवदमानाभ्यां ताभ्यां स्वोक्तव्यत्यासे अन्यतरयाऽन्यतरस्या दास्यवहनरूपपणबन्धनम् ॥ 4 ॥

`भीष्म उवाच ।

विनता पुत्रशोकार्ता शापाद्भीता च भारत ।
प्रतीक्षते स्म तं कालं यः पुत्रोक्तस्तदाऽभवत् ॥
ततोऽप्यतीते पञ्चशते वर्षाणां कालसंयुगे ।
गरुडोऽथ महावीर्यो जज्ञे भुजगभुग्बली ॥
बन्धुरास्यः शिखी पत्रकोशः कूर्मनखो महान् ।
रक्ताक्षः संहतग्रीवो ह्रस्वपादो महाशिराः ॥
यस्त्वण्डात्स विनिर्भिन्नो निष्क्रान्तो भरतर्षभ ।
विनतापूर्वजः पुत्रः सोऽरुणो दृश्यते दिवि ॥
पूर्वां दिशामभिप्रेत्य सूर्यस्योदयनं प्रति ।
अरुणोऽरुणसंकाशो नाम्ना चैवारुणः स्मृतः ॥
जातमात्रस्तु विहगो गरुडः पन्नगाशनः ।
विहाय मातरं क्षिप्रमगमत्सर्वतो दिशः ॥
स तदा ववृधेऽतीव सर्वकामैः कदाऽर्चितः ।
पितामहविसृष्टेन भोजनेन विशांपते ॥
तस्मिंश्च विहगे तत्र यथाकामं विवर्धति ।
कद्रूश्च विनता चैवागच्छतां सागरं प्रति ॥
ददृशाते तु ते यान्तमुच्चैश्श्रवसमन्तिकात् ।
स्नात्वोपवृत्तं त्वरितं पीतवन्तं च वाजिनम् ॥
ततः कद्रूर्हसन्त्येव विनतामिदमब्रवीत् ।
हयस्य वर्णः को न्वत्र ब्रूहि यस्ते मतः शुभे ॥
विनतोवाच ।
एकवर्णो हयो राज्ञि सर्वश्वेतो मतो मम ।
वर्णं वा कीदृशं तस्य मन्यते त्वं मनस्विनि ॥
कद्रूरुवाच ।
सर्वश्वेतो मतस्तुभ्यं य एष हयसत्तमः ।
ब्रूहि कल्याणि दीव्यावो वर्णान्यत्वेन भामिनि ॥
विनतोवाच ।
यद्यार्ये दीव्यसि त्वं मे कः पणो नो भविष्यति ।
सा तज्ज्ञात्वा पणेयं वै ज्ञात्वा तु विपणे त्वया ॥
कद्रूरुवाच ।
जिता दासी भवेर्मे त्वमहं चाप्यसितेक्षणे ।
नैकवर्णैकवर्णत्वे विनते रोचते च ते ॥
रोचते मे पणे राज्ञि दासीत्वेन न संशयः ।
सत्यमातिष्ठ भद्रं ते सत्ये स्थास्यामि चाप्यहम्' ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकविंशोऽध्यायः ॥ 21 ॥

श्रीः