अध्यायः 257

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति ब्राह्मणमहिमप्रकाशनाय कार्तवीर्यार्जुनकथाकथनारम्भः ॥ 1 ॥ दत्तात्रेयाद्वरलाभगर्वितेन तेन दिग्जययात्रायां क्वापि पुरुषे स्वसाम्याभावकथने अशरीरवाण्या ब्राह्मणानामुत्कर्षकथनम् ॥ 2 ॥ तेन दर्पात्तदवज्ञाने वायुनापि ब्राह्मणानामेवोत्कर्षे कथते तेन वायुंप्रति तत्प्रकाशनप्रार्थना ॥

युधिष्ठिर उवाच ।

कां तु ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा जनाधिप ।
कं वा धर्मोदयं मत्वा तानर्चसि महामते ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
पवनस्य च संवादमर्जुनस्य च भारत ॥
सहस्रभुजभृच्छ्रीमान्कार्तवीर्योऽभवत्प्रभुः ।
अस्य लोकस्य सर्वस्य माहिष्मत्यां महाबलः ॥
स तु रत्नाकरवतीं सप्तद्वीपां ससागराम् ।
शशास पृथिवीं सर्वां हैहयः सत्यविक्रमः ॥
स्ववित्तं तेन दत्तं तु दत्तात्रेयाय कर्मणे ।
क्षत्रधर्मं पुरस्कृत्य विनयं श्रुतमेव च ॥
आराधयामास च तं कृतवीर्यात्मजो मुनिम् ।
न्यमन्त्रयत संतुष्टो द्विजश्चैनं वरैस्त्रिभिः ॥
स वरैश्छन्दितस्तेन नृपो वचनमब्रवीत् ।
सहस्रबाहुता मेऽस्तु यूपमध्ये ग्रहो यथा ॥
मम बाहुसहस्रं तु पश्यन्तां सैनिका रणे ।
विक्रमेणि महीं कृत्स्नां जयेयं संशितव्रत ॥
तां च धर्मेण सम्प्राप्य पालयेयमतन्द्रितः ।
चतुर्थं तु वरं याचे त्वामहं द्विजसत्तम ॥
तं ममानुग्रहकृते दातुमर्हस्यनिन्दित ।
अनुशाशन्तु मां सन्तो मिथ्यावृत्तं त्वदाश्रयम् ॥
इत्युक्तः स द्विजः प्राह तथास्त्विति नराधिपम् ।
एवं समभवंस्तस्य वरास्ते दीप्ततेजसः ॥
गतः स रथमास्थाय ज्वलनार्कसमद्युतिम् ।
अब्रवीद्वीर्यसंमोहात्को वाऽस्ति सदृशो मम ॥
धैर्यैर्वीर्यैर्यशःशौर्यौर्विक्रमेणौजसाऽपि वा ।
तद्वाक्यान्ते चान्तरिक्षे वागुवाचाशरीरिणी ॥
न त्वं मूढ विजानीषे ब्राह्मणं क्षत्रियाद्वरम् ।
सहितो ब्राह्मणेनेह क्षत्रियः शास्ति वै प्रजाः ॥
अर्जुन उवाच ।
कुर्यां भूतानि तुष्टोऽहं क्रुद्धो नाशं तथा नये ।
कर्म्णा मनसा वाचा न मत्तोस्ति वरो द्विजः ॥
पूर्वो ब्रह्मोत्तरो वादो द्वितीयः क्षत्रियोत्तरः ।
त्वयोक्तौ हेतुयुक्तौ तौ विशेषस्तत्र दृश्यते ॥
ब्राह्मणाः संश्रिताः क्षत्रं न क्षत्रं ब्राह्मणाश्रितम् ।
श्रिता ब्रह्मोपधा विप्राः खादन्ति क्षत्रियान्भुवि ॥
क्षत्रियेष्वाश्रितो धर्मः प्रजानां परिपालनम् ।
क्षत्राद्वृत्तिर्ब्राह्मणानां तैः कथं ब्राह्मणो वरः ॥
सर्वभूतप्रधानांस्तान्भैक्षवृत्तीनहं सदा ।
आत्मसम्भावितान्विप्रान्स्थापयाम्यात्मनो वशे ॥
कथितं त्वनयाऽसत्यं गायन्त्या कन्यया दिवि ।
विजेष्याम्यवशान्सर्वान्ब्राह्मणांश्चर्मवाससः ॥
न च मां च्यावयेद्राष्ट्रात्त्रिषु लोकेषु कश्चन ।
देवो वा मानुषो वाऽपि तस्माज्ज्येष्ये द्विजानहम् ॥
अद्य ब्रह्मोत्तरं लोकं करिष्ये क्षत्रियोत्तरम् ।
नहि मे संयुगे कश्चित्सोढुमुत्सहते बलम् ॥
अर्जुनस्य वचः श्रुत्वा वित्रस्ताऽभून्निशाचरी ।
अथैनमन्तरिक्षस्थस्ततो वायुरभाषत ॥
त्यजैनं कलुषं भावं ब्राह्मणेभ्यो नमस्कुरु ।
एतेषां कुर्वतः पापं राष्ट्रक्षोभो भविष्यति ॥
अथ च त्वां महीपाल शमयिष्यन्ति वै द्विजाः ।
निरसिष्यन्ति ते राष्ट्राद्धतोत्साहा महाबलाः ॥
तं राजा कस्त्वमित्याह ततस्तं प्राह मारुतः ।
वायुर्वै देवदूतोस्मि हितं त्वां प्रब्रवीम्यहम् ॥
अर्जुन उवाच ।
अहो त्वयाऽयं विप्रेषु भक्तिरागः प्रदर्शितः ।
यादृशं पृथिवीभूतं तादृशं ब्रूहि मे द्विजम् ॥
वायोर्वा सदृशं किञ्चिद्ब्रूहि त्वं ब्राह्मणोत्तमम् ।
अपां वै सदृशं वह्नेः सूर्यस्य नभसोऽपि वा ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तपञ्चाशदधिकद्विशततमोऽध्यायः ॥

7-257-1 व्युष्टिं समृद्धिं फलं वा । कं वा कर्मोदयं मत्वा इति ङ.झ. पाठः ॥ 7-257-4 स च रक्षार्थमवनिं सप्तद्वीपां इति क.पाठः ॥ 7-257-5 दत्तात्रेयाय कारणे इति ङ.झ.पाठः ॥ 7-257-7 सहस्रबाहुर्भूयां वै चमूमध्ये गृहेऽन्यथा इति ङ.झ.पाठः ॥ 7-257-16 पूर्वो वादो ब्रह्मोत्तरः ब्राह्मणाधिक्यवचनं पूर्वपक्षः क्षत्रियाधिक्यं सिद्धान्त इत्यर्थः । हेतुयुक्तौ प्रजापालनेन हेतुना युक्तौ सहितौ तौ ब्राह्मणक्षत्रियौ पूर्वं ब्रह्मोत्तरो वादः क्षत्रियः क्षत्रियोत्तरः मयोक्तो हेतुयुक्तौ चेति क.पाठः ॥ 7-257-17 ब्रह्मा वेदो यज्ञश्च अध्यापनयाजनार्थ एव उपधा च्छलं येषां ते तथा क्षत्रियान्खादन्ति उपजीवन्ति ॥ 7-257-20 चर्मवाससः अजिनवस्त्रान् । गायत्र्या कन्यया दिवीति झ.पाठः ॥ 7-257-22 ब्रह्मोत्तरं सन्तम् ॥ 7-257-23 निशाचरी अन्तर्हिता सरस्वती ॥ 7-257-27 पृथिवीभूतं पृथिव्यात्मकं भूतम् ॥

श्रीः