अध्यायः 259

अथ दानधर्मपर्व ॥ 1 ॥

वायुना हैहयंप्रति कश्यपचरित्रकथनम् ॥ 1 ॥ तथा उचथ्योपाख्यानकथनारम्भः ॥ 2 ॥ सोमेन भद्राभिधायाः स्वकन्याया उचथ्याय भार्यात्वेन प्रदानम् ॥ 3 ॥ पूर्वमेव तां कामितवता वरुणेन विजने तस्या अपहरणम् ॥ 4 ॥ नारदात्तच्छ्रुतवतोचथ्येन कोपात्समुद्रे शोषिते भयाद्वरुणेनोचथ्याय पुनर्भद्राप्रत्यर्पणम् ॥ 5 ॥

वायुरुवाच ।

इमां भूमिं द्विजातिभ्यो दित्सुर्वै दक्षिणां पुरा ।
अङ्गो नाम नृपो राजंस्ततश्चिन्तां मही ययौ ॥
धारिणीं सर्वभूतानामयं प्राप्य वरो नृपः ।
कथमिच्छति मां दातुं द्विजेभ्यो ब्रह्मणः सुताम् ॥
साहं त्यक्त्वा गमिष्यामि भूमित्वं ब्रह्मणः पदम् ।
अयं सराष्ट्रो नृपतिर्मार्भूदिति ततोऽगमत् ॥
ततस्तां कश्यपो दृष्ट्वा व्रजन्तीं पृथिवीं तदा ।
प्रविवेश महीं सद्यो युक्तात्मा सुसमाहितः ॥
ऋद्धा सा सर्वतो जज्ञे तृणौषधिसमन्विता ।
धर्मोत्तरा नष्टभया भूमिरासीत्तमतो नृप ॥
एवं वर्षसहस्राणि दिव्यानि विपुलव्रतः ।
त्रिंशतं कश्यपो राजन्भूमिरासीदतन्द्रितः ॥
अथागम्य महाराजन्नमस्कृत्यि च कश्यपम् ।
पृथवी काश्यपी जज्ञे सुता तस्य महात्मनः ॥
एष राजन्नीदृशो वै ब्राह्मणः कश्यपोऽभवत् ।
अन्यं प्रब्रूहि वा त्वं च कश्यपात्क्षत्रियं वरम् ॥
तूष्णीं बभूव नृपतिः पवनस्त्वब्रवीद्वचः ।
शृणु राजन्नुचक्ष्यस्य जातस्याङ्गिरसे कुले ॥
भद्रा सोमस्य दुहिता रूपेण परमा मता ।
तस्यास्तुल्यं पतिं सोम उचथ्यं समपश्यत ॥
सा च तीव्रं तपस्तेपे महाभागा यशस्विनी ।
उचथ्यं तु महाभागं तत्कृते वरयत्तदा ॥
तत आहूय चोचथ्यं ददामीति यशस्विनीम् ।
भार्यार्थे स च जग्राह विधिवद्भूरिदक्षिणः ॥
तां त्वकामयत श्रीमान्वरुणः पूर्वमेव ह ।
स चागम्य वनप्रस्थं यमुनायां जहार ताम् ॥
जलेश्वरस्तु हृत्वा तामनयस्त्वं पुरं प्रति ।
परमाद्भुतसङ्काशं षट्सहस्रशतह्रदम् ॥
न हि रम्यतरं किञ्चित्तस्मादन्यत्पुरोत्तमम् ।
वासादैरप्सरोभिश्च दिव्यैः कामैश्च शोभितम् ॥
तत्र देवस्तया सार्धं रेमे राजञ्जलेश्वरः ।
तदाख्यातमुचथ्याय ततः पत्न्यवमर्दनम् ॥
तच्छ्रुत्वा नारदात्सर्वमुचथ्यो नारदं तदा ।
प्रोवाच गच्छ ब्रूहि त्वं वरुणं परुषं वचः ॥
मद्वाक्यान्मुञ्च मे भार्यां कस्मात्तां हृतवानसि ।
लोकपालोसि लोकानां न लोकस्य विलोपकः ॥
सोमेन दत्ता भार्या मे त्वया चापहृताऽद्य वै ।
इत्युक्तो वचनात्तस्य नारदेन जलेश्वरः ॥
मुञ्च भार्यामुचथ्यस्य कस्मात्त्वं हृतवानसि ।
इति श्रुत्वा वचस्तस्य सोऽथ तं वरुणोऽब्रवीत् ॥
ममैषा सुप्रिया भार्या नैनामुत्स्रष्टुमुत्सहे । इत्युक्तो वरुणेनाथ नारदः प्राप्य तं मुनिम् ।
उचथ्यमब्रवीद्वाक्यं नातिहृष्टमना इव ॥
गले गृहीत्वा क्षिप्तोस्मि वरुणेन महामुने ।
न प्रयच्छति ते भार्यां यत्ते कार्यं कुरुष्व तत् ॥
नारदस्य वचः श्रुत्वा क्रुद्धः प्राज्वलदङ्गिराः ।
अपिबत्तेजसा वारि विष्टभ्य सुमहातपाः ॥
पीयमाने तु सर्वस्मिंस्तोयेऽपि सलिलेश्वरः ।
सुहृद्भिर्भिक्षमाणोऽपि नैवामुञ्चत तां तदा ॥
ततः क्रुद्धोऽब्रवीद्भूमिमुचथ्यो ब्राह्मणोत्तमः ।
दर्शय स्वस्थलं भद्रे षट्सहस्रशतह्रदम् ॥
ततस्तदीरणं जातं समुद्रस्यावसर्पतः ।
तस्माद्देशान्नदीं चैव प्रोवाचासौ द्विजोत्तमः ॥
अदृश्या गच्छ भीरु त्वं सरस्वति मरून्प्रति ।
अणुण्यभूषो भवतु देशस्त्यक्तस्तया शुभे ॥
ततश्चूर्णीकृते देशेक भद्रामादाय वारिपः ।
अददाच्छरणं गत्वा भार्यामाङ्गिरसाय वै ॥
प्रतिगृह्य तु तां भार्यामुचथ्यः सुमनाऽभवत् ।
मुमोच च जगद्दुःखान्मरुतश्चैव निर्मलाः ॥
ततः स लब्ध्वा तां भार्यां वरुणं प्राह धर्मवित् ।
उचथ्यः सुमहातेजा यत्तुच्छृणु नराधिप ॥
मयैषा तपसा प्राप्ता क्रोशतस्ते जलाधिप ।
इत्युक्त्वा तामुपादाय स्वमेव भवनं ययौ ॥
एष राजन्नीदृशो वै उचथ्यो ब्राह्मणर्षभः ।
ब्रवीमि हान्यं ब्रूहि त्वमुचथ्यात्क्षत्रियं वरम् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनषष्ट्यधिकद्विशततमोऽध्यायः ॥ 259 ॥

7-259-3 भूमित्वं त्यक्त्वा ब्रह्मणः पदं गमिष्यामीति सम्बन्धः ॥ 7-259-11 उचथ्यार्थे तु चार्वङ्गी परं नियममास्थिता । इति झ.पाठः ॥ 7-259-12 सोमः ददामीत्युक्त्वा ददावित्यध्याहारेण योजना । ददावत्रिर्यशस्विनीमिति झ.पाठः । अत्रिः सोमपिता ॥ 7-259-16 देवो वरुणः । तया भद्रकया ॥ 7-259-25 दर्शयस्व बिलं भद्रे इति क.पाठः ॥ 7-259-26 ईरिणं ऊषरप्रवेशः । समुद्रश्चापसर्पतेति क.पाठः ॥ 7-259-27 अपुण्य एष भवित्विति झ.पाठः ॥ 7-259-29 दुःखाद्वरुणं चैव हैहयेति झ.पाठः । जगद्वरुणं च दुःखान्मुमोच मोचयामास ॥

श्रीः