अध्यायः 261

अथ दानधर्मपर्व ॥ 1 ॥

वायुना हैहयार्जुनंप्रति देवासुरयुद्धे राहुणा चन्द्रसूर्यपराभवेनान्धकारप्राप्तौ देवानां प्रार्थनया चन्द्रीभूय तमोनिरसनरूपात्रिमहिमोक्तिः ॥ 1 ॥ तथा सवज्रेन्द्रहस्तस्तम्भनेनाश्विनोः सोमपानदापनरूपच्यवनमहिमोक्तिः ॥ 2 ॥

भीष्म उवाच ।

इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्तमब्रवीत् ।
शृणु मे हैहयश्रेष्ठ कर्मात्रेः सुमहात्मनः ॥
घोरे तमस्ययुध्यन्त सहिता देवदानवाः ।
अविद्यत शरैस्तत्र स्वर्भानुः सोमभास्करौ ॥
अथ ते तमसा ग्रस्ता निहन्यन्ते स्म दानवैः ।
देवा नृपतिशार्दूल सहैव बलिभिस्तदा ॥
असुरेर्वध्यमानास्ते क्षीणप्राणा दिवौकसः ।
अपश्यन्त तपस्यन्तमत्रिं विप्रं तपोधनम् ॥
अथैनमब्रुवन्देवाः शान्तक्रोधं जितेन्द्रियम् ।
असुरेरिषुभिर्विद्धौ चन्द्रादित्याविमावुभौ ॥
वयं वध्यामहे चापि शत्रुभिस्तमसा वृते ।
नाधिगच्छाम शान्तिं च भयात्त्रायस्व नः प्रभो ॥
अत्रिरुवाच ।
कथं रक्षामि भवतस्तेऽब्रुवंश्चन्द्रमा भव ।
तिमिरघ्नश्च सविता दस्युहन्ता च नो भव ॥
एवमुक्तस्तदात्रिर्वै तमोनुदभवच्छशी ।
अपश्यत्सौम्यभावाच्च सोमवत्प्रियदर्शनः ॥
दृष्ट्वा नातिप्रभं सोमं तथा सूर्यं च पार्थिव ।
प्रकाशमकरोदत्रिस्तपसा स्वेन संयुगे ॥
जगद्वितिमिरं चापि प्रदीप्तमकरोत्तदा ।
व्यजयच्छत्रुसङ्घांश्च देवानां स्वेन तेजसा ॥
अत्रिणा दह्यमानांस्तान्दृष्ट्वा देवा महासुरान् । पराक्रमैस्तेऽपिं तदा व्यघ्नन्नत्रिसुरक्षिताः ।
उद्भासितश्च सविता देवास्त्राता हतासुराः ॥
अत्रिणा त्वथ सोमत्वं कृतमुत्तमतेजसा ।
द्विजेनाग्निद्वितीयेनि जपता चर्मवाससा ॥
फलभक्षेण राजर्षे पश्य कर्मात्रिणा कृतम् । तस्यापि विस्तरेणोक्तं कर्मात्रेः सुमहात्मनः ।
ब्रवीम्यन्यं ब्रूहि वा त्वमत्रितः क्षत्रियं वरम् ॥
इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्ततोऽब्रवीत् ।
शृणु राजन्महत्कर्म च्यवनस्य महात्मनः ॥
अश्विनोः प्रतिसंश्रुत्य च्यवनः पाकशासनम् ।
प्रोवाच सहितो देवैः सोमपावश्विनौ कुरु ॥
इन्द्र उवाच ।
अस्माभिर्निन्दितावेतौ भवेतां सोमपौ कथम् ।
देवैर्न सम्मितावेतौ तस्मान्मैवं वदस्व नः ॥
अश्विभ्यां सह नेच्छामः सोमं पातुं महाव्रत ।
यदन्यद्वक्ष्यसे विप्र तत्करिष्याम ते वचः ॥
च्यवन उवाच ।
पिबेतामश्विनौ सोमं भवद्भिः सहिताविमौ ।
उभावेतावपि सुरौ सूर्यपुत्रौ सुरेश्वर ॥
क्रियतां मद्वचो देवा यथा वै समुदाहृतम् ।
एतद्वः कुर्वतां श्रेयो भवेन्नैतदकुर्वताम् ॥
इन्द्र उवाच ।
अश्विभ्यां सह सोमं वै न पास्यामि द्विजोत्तम ।
पिबन्त्वन्ये यथाकामं नाहं पातुमिहोत्सहे ॥
च्यवन उवाच ।
न चेत्करिष्यसि वचो मयोक्तं बलसूदन ।
मया प्रमथितः सद्यः सोमं पास्यसि वै मखे ॥
वायुरुवाच ।
ततः कर्म समारब्धं हिताय सहसाऽश्विनोः ।
च्यवनेनि ततो मन्त्रैरभिभूताः सुराऽभवन् ॥
तत्तु कर्म समारब्धं दृष्ट्वेन्द्रः क्रोधमूर्च्छितः ।
उद्यम्य विपुलं शैलं च्यवनं समुपाद्रवत् ॥
तथा वज्रेम भगवानमर्षाकुललोचनः ।
तमापतन्तं दृष्ट्वैव च्यवनस्तपसाऽन्वितः ॥
अद्भिः सिक्त्वाऽस्तम्ययतं सवज्रं सहपर्वतम् ।
अथेन्द्रस्य महाघोरं सोऽसृजच्छत्रुमेव हि ॥
मदं नामाहुतिमयं व्यादितास्यं महामुनिः ।
तस्य दन्तसहस्रं तु बभूव शतयोजनम् ॥
द्वियोजनशतास्तस्य दंष्ट्राः परमदारुणाः ।
हनुस्तस्याभवद्भूमावास्यं चास्यास्पृशद्दिवम् ॥
जिह्वामूले स्थितास्तस्य सर्वे देवाः सवासवाः ।
तिमेरास्यमनुप्राप्ता यथा मत्स्या महार्णवे ॥
ते सम्मन्त्र्य ततो देवा मदस्यास्य समीपगाः ।
अब्रुवन्सहिताः शक्रं प्रणमास्मै द्विजातये ॥
अश्विभ्यां सह सोमं च पिबाम विगतज्वराः ।
ततः स प्रणतः शक्रश्चकार च्यवनस्य तत् ॥
च्यवनः कृतवानेतावश्विनौ सोमपायिनौ ।
ततः प्रत्याहरत्कर्म मदं च व्यभजन्मुनिः ॥
अक्षेषु मृगयायां च पाने स्त्रीषु च वीर्यवान् ।
एतैर्दोषैर्नरा राजन्क्षयं यान्ति न संशयः ॥
तस्मादेतान्नरो नित्यं दूरतः परिवर्जयेतद् ॥
एतत्ते च्यवनस्यापि कर्मि राजन्प्रकीर्तितम् ।
ब्रवीम्यन्यं ब्रूहि वा त्वं क्षत्रियं ब्राह्मणाद्वरम् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकषष्ट्यधिकद्विशततमोऽध्यायः ॥ 261 ॥

श्रीः