अध्यायः 263
अथ दानधर्मपर्व ॥ 1 ॥
युधिष्ठिरेण ब्राह्मणमहिमानं पृष्टेन भीष्मेण तंप्रति स्वस्य
कुष्ठितेन्द्रियादिशक्तिकतया मुमूर्षानिवेदनपूर्वकं कृष्णात्तदवगमनचोदना ॥ 1 ॥
तथा कृष्णस्य श्रीनारायणात्मकत्वनिवेदनेन तन्महिमानुवर्णनम् ॥ 2 ॥
युधिष्ठिर उवाच ।
ब्राह्मणानर्चसे राजन्सततं संशितव्रतान् ।
कं तु धर्मोदयं दृष्ट्वा तानर्चसि जनाधिप ॥
कां वा ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा महाव्रत ।
तानर्चसि महाबाहो सर्वमेतद्वदस्व मे ॥
भीष्म उवाच ।
एष ते केशवः सर्वमाख्यास्यति महामतिः ।
व्युष्टिं ब्राह्मणपूजायां दृष्ट्वा व्युष्टिं महाव्रत ॥
बलं श्रोत्रे वाङ्मनश्चक्षुषी च
ज्ञानं तथा नविशुद्धं ममाद्य ।
देहन्यासो नातिचिरान्मतो मे
न चातितूर्णं सविताऽद्य याति ॥
उक्ता धर्मा ये पुराणे महान्तो
राजन्विप्राणां क्षत्रियाणां विशां च ।
येये शूद्राणां धर्ममुपासते ते
तानेव कृष्णदुपशिक्षस्व पार्थः ॥
अहं ह्येनं वेद्मि तत्त्वेन कृष्णं
योऽयं हि यच्चास्य बलं पुराणम् ।
अमेयात्मा केशवः कौरवेन्द्र
सोयं धर्मं वक्ष्यति सर्वमेतत् ॥
कृष्णः पृथ्वीमसृजत्स्वं दिवं च
कृष्णस्यि देहान्मेदिनी सम्बभूव ।
वराहोऽयं भीमबलः पुराणः
स पर्वतान्व्यसृजद्वै दिशश्च ॥
अस्माद्वायुश्चान्तरिक्षं दिवं च
दिशश्चतस्रो विदिशश्चतस्रः ।
सृष्टिस्तथैवेयमनुप्रसूता
स निर्ममे विश्वमिदं पुराणः ॥
अस्य नाभ्यां पुष्करं सम्प्रसूतं
यत्रोत्पन्नः स्वयमेवामितौजाः ।
येनाच्छिन्नं तत्तमः पार्थ घोरं
यत्र तिष्ठन्त्यर्णवास्तच्छयानाः ॥
कृते युगे धर्म आसीत्समग्र-
स्त्रेताकाले यज्ञमनुप्रपन्नः ।
बलं त्वासीद्द्वापरे पार्थ कृष्णः
कलौ त्वधर्मः क्षितिमेवाजगाम ॥
स एव पूर्वं निजघान दैत्या-
न्स एव देवश्च बभूव सम्राट् ।
स भूतानां भावनो भूतभव्यः
स विश्वस्यास्य जगतश्चाभिगोप्ताः ॥
यदा धर्मो ग्लाति वंशे सुराणां
तदा कृष्णो जायते मानुषेषु ।
धर्मे स्थित्वा स तु वै भावितात्मा
परांश्च लोकानपराश्च पाति ॥
त्याज्यांस्त्यक्त्वा चासुराणां वधेन
कार्याकार्ये कारणं चैव पाति ।
कृतं करिष्यत्क्रियते च देवो
राहुं सोमं विद्धि च शक्रमेनम् ॥
स विश्वकर्मा स हि विश्वरूपः
स विश्वबुग्विश्वसृग्विश्वजिच्च ।
स शूलभृच्छोणितभृत्कराल-
स्तं कर्मभिर्विदितं वै स्तुवन्ति ॥
तं गन्धर्वाणामप्सरसां च नित्य-
मुपतिष्ठन्ते विबुधानां शतानि ।
तं राक्षसाश्च परिसंवदन्ति
राजन्यानां स विजिगीषुरेकः ॥
तमध्वरे शंसितारः स्तुवन्ति
रथन्तरे सामगाश्च स्तुवन्ति ।
तं ब्राह्मणा ब्रह्ममन्त्रैः स्तुवन्ति
तस्मै हविरध्वर्यवः कल्पयन्ति ॥
स पौराणीं ब्रह्मगुहां प्रविष्टो
महीसत्रं भारताग्रे ददर्श ।
स चैव गामुद्दधाराग्र्यकर्मा
विक्षोभ्य दैत्यानुरगान्दानवांश्च ॥
तं घोषार्थे गीर्भिरिन्द्राः स्तुवन्ति
स चापीशो भारतैकः पशूनाम् ।
तस्य भक्षान्विविधान्वेदयन्ति
तमेवाजौ वाहनं वेदयन्ति ॥
तस्यान्तरिक्षं पृथिवी दिवं च
सर्वं वशे तिष्ठति शाश्वतस्य ।
स कुम्भे रेतः ससृजे सुराणां
यत्रोत्पन्नमृषिमाहुर्वसिष्ठम् ॥
स मातरिश्वा विभुरश्ववाजी
स रश्मिवान्सविता चादिदेवः ।
तेनासुरा विजिताः सर्व एव
तद्विक्रान्तैर्विजितानीह त्रीणि ॥
स देवानां मानुषाणां पितॄणां
तमेवाहुर्यज्ञविदां वितानम् ।
स एव कालं विभजन्नुदेति
तस्योत्तरं दक्षिणं चायने द्वे ॥
तस्यैवोर्ध्वं तिर्यगधश्चरन्ति
गभस्तयो मेदिनीं भासयन्तः ।
तं ब्राह्मणा वेदविदो जुषन्ति
तस्यादित्यो गामुपयुज्य भाति ॥
स मासिमास्यध्वरकृद्विधत्ते
तमध्वरे वेदविदः पठन्ति ।
स एवोक्तश्चक्रमिदं त्रिनाभि
सप्ताश्वयुक्तं वहते वै त्रिधामा ॥
`हिरण्मयः सप्तगूढः ससंवि-
च्चतुर्बाहुः पन्नगः पद्मनाभः ।'
महातेजाः सर्वगः सर्वसिंहः
कृष्णो लोकान्धारयते यथैकः ।
हंसं तमोघ्नं च तमेव वीर
कृष्णं सदा पार्थ कर्तारमेहि ॥
स एकदा कक्षगतो महात्मा
तुष्टो विभुः खाण्डवे धूमकेतुः ।
स राक्षसानुरगांश्चावजित्य
सर्वत्रगः सर्वमग्नौ जुहोति ॥
स एव पार्थाय श्वेतमश्वं प्रायच्छ-
त्स एवाश्वानथ सर्वांश्चकार ।
सबन्धुरस्तस्य रथस्त्रिचक्र-
स्त्रिवृच्छिराश्चतुरश्वस्त्रिनाभिः ॥
स विहायो व्यदधात्पञ्चनाभिः
स निर्ममे गां दिवमन्तरिक्षम् ।
सोऽरण्यानि व्यसृजत्पर्वतांश्च
हृषीकेशोऽमितदीप्ताग्नितेजाः ॥
अलङ्घयद्वै सरितो जिघांस-
ञ्शक्रं वज्रं प्रहरन्तं निरास ।
स महेन्द्रः स्तूयते वै महाध्वरे
विप्रैरेको ऋक्सहस्रैः पुराणैः ॥
दुर्वासा वै तेन नान्येन शक्यो
गृहे राजन्वासयितुं महौजाः ।
तमेवाहुर्ऋषिमेकं पुराणं
स विश्वकृद्विदधात्यात्मभावान् ॥
वेदांश्च यो वेदयतेऽधिदेवो
विधींश्च यश्चाश्रयते पुराणान् ।
कामे वेदे लौकिके यत्फलं च
विष्वक्सेनः सर्वमेतत्प्रतीहि ॥
ज्योतींषि शुक्लानि हि सर्वलोके
त्रयो लोका लोकपालास्त्रयश्च ।
त्रयोऽग्रयो व्याहृतयश्च तिस्रः
सर्वे देवा देवकीपुत्र एव ॥
स क्त्सरः स ऋतुः सोऽर्धमासः
सोऽहोरात्रः स कला वै स काष्ठाः ।
मात्रा मुहूर्ताश्च लवाः क्षणाश्च
विष्वक्सेनः सर्वमेतत्प्रतीहि ॥
चन्द्रादित्यौ ग्रहनक्षत्रताराः
सर्वाणि दर्शान्यथ पौर्णमासम् ।
चन्द्रादित्यौ ग्रहनक्षत्रताराः
सर्वाणि दर्शान्यथ पौर्णमासम् ।
नक्षत्रयोगा ऋतवश्च पार्थ
विष्वक्सेनात्सर्वमेतत्प्रसूतम् ॥
रुद्रादित्या वसवोऽथाश्विनौ च
साध्याश्च विश्वे मरुतां गणाश्च ।
प्रजापतिर्देवमाताऽदितिश्च
सर्व कृष्णादृषयश्चैव सप्त ॥
वायुर्भूत्वा विक्षिपते च विश्व-
मग्निर्भूत्वा दहते विश्वरूपः ।
आपो भूत्वा मज्जयते च सर्वं
ब्रह्म भूत्वा सृजते विश्वसङ्घान् ॥
वेद्यं च यद्वेदयते च वेद्यं
विधिश्च यश्च श्रयते विधेयम् ।
धर्मे च वेदे च बले च सर्वं
चराचरं केशवं त्वं प्रतीहि ॥
ज्योतिर्भूतः परमोसौ पुरस्ता-
त्प्रकाशते यत्प्रभया विश्वरूपः ।
अपः सृष्ट्वा सर्वभूतात्मयोनिः
पुराऽकरोत्सर्वमेवाथ विश्वम् ॥
ऋतूनुत्पातान्विविधान्यद्भुतानि
मेघान्विद्युत्सर्वमैरावतं च ।
सर्वं कृष्णात्स्थावरं जङ्गं च
विश्वात्मानं विष्णुमेनं प्रतीहि ॥
विश्वावासं निर्गुणं वासुदेवं
सङ्कर्षणं जीवभूतं वदन्ति ।
ततः प्रद्युम्नमनिरुद्धं चतुर्थ-
माज्ञापयत्यात्मयोनिर्महात्मा ॥
स पञ्चधा पञ्चगुणोपपन्नं
सञ्चोदयन्विश्वमिदं सिसृक्षुः ।
ततश्चकारावनिमारुतौ च
खं ज्योतिरम्भश्चि तथैव पार्थ ॥
स स्थावरं जङ्गमं चैवमेत-
च्चतुर्विधं लोकमिमं च कृत्वा ।
ततो भूमिं व्यदधात्पञ्चबीजां
द्यावापृथिव्यग्निरथाम्बुवायू ॥
तेन विश्वं कृतमेतद्धि राज-
न्स जीवयत्यात्मनैवात्मयोनिः ।
ततो देवानसुरान्मानवांश्च
लोकानृषींश्चापि पितॄन्प्रजाश्च ।
समासेनि विविधान्पाति लोका-
न्सर्वान्सदा भूतपतिः सिसृक्षुः ॥
शुभाशुभं स्थावरं जङ्गमं च
विष्वक्सेनात्सर्वमेतत्प्रतीहि ।
यद्वर्तते यच्च भविष्यतीह
सर्वं ह्येतत्केशवं त्वं प्रतीहि ॥
मृत्युश्चैव प्राणिनामन्तकाले
साक्षात्कृष्णः केशवो देहभाजाम् ।
भूतं च यच्चेह न विद्म किञ्चि-
द्विष्वक्सेनात्सर्वमेतत्प्रतीहि ॥
यत्प्रशस्तं च लोकेषु पुण्यं यच्च शुभाशुभम् ।
तत्सर्वं केशवोऽचिन्त्यो विपरीतमतः परम् ॥
एतादृशः केशवोऽतश्च भूयो
नारायणः परमश्चाव्ययश्च ।
मध्याद्यन्तस्य जगतस्तस्तुषश्च
बुभूषतां प्रभवश्चाव्ययश्च ॥ ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि
त्रिषष्ट्यधिकद्विशततमोऽध्यायः ॥ 263 ॥
7-263-2 व्युष्टिं फलम् ॥ 7-263-3 दृष्टव्युष्टिरिति झ.पाठः ॥ 7-263-4 न चेति दुःखितस्य दिनं महद्भवतीत्यर्थः ॥ 7-263-10 कलौ त्वधर्म एव
बलवानिति भावः ॥ 7-263-12 ग्लाति ग्लायति ॥ 7-263-13 एनं राहुं सोमं शक्रं च
विद्धि ॥ 7-263-14 शोणितभृच्छरीरि ॥ 7-263-17 महीसत्रं पृथिव्याश्छादनं
मज्जनमिति यावत् ॥ 7-263-18 घोषार्थे गोवर्द्धनोद्धरणकाले । पशूनां गवां जीवानां
च । वाहनं जयप्रापकम् ॥ 7-263-19 सुराणां मित्रावरुणयो रेतः कुम्भे ससृजे ॥ 7-263-20 विक्रान्तैः पादविक्षेपैः । त्रीणि भुवनानि ॥ 7-263-21 देवानां आत्मेति
शेषः । तमेवाहुर्यज्ञविदः पुराणमिति क.थ.पाठः ॥ 7-263-22 जुषन्ति सेवन्ते ॥ 7-263-23 विधत्तेऽध्वरमित्यर्थात् । त्रिनाभि शीतोष्णवृष्टिकालगर्भम् । चक्रं
संवत्सरम् । त्रिधामेति वर्षवातोष्णप्रकारम् ॥ 7-263-24 हंसं सूर्यम् ।
प्राश्नन्ननश्नंश्च स एव धीरः कृष्णं सदा पार्थेति क.थ.पाठः ॥ 7-263-26
त्रिबन्धुरस्तास्येति क.ध.पाठः ॥ 7-263-27 पञ्चनाभिः पञ्चभूतानां नाभिराश्रय
इत्यर्थः ॥ 7-263-28 निरास पराभूतवान् ॥ 7-263-30 विधिनग्निहोत्रादीन् ॥ 7-263-36 वेद्यं वेदप्रतिद्यं । वेद्यं ज्ञेयम् ॥ 7-263-38 नक्षत्रमासान्विविधं
कार्यजातं विद्युत्संघैरापतन्तश्च मेघाः । सर्वं कृष्णादिति क.थ.पाठः ॥ 7-263-40
पञ्चधा पञ्चप्रकारं देवासुरमनुष्यश्वापदतिर्यग्रूपेण विश्वं
सिसृक्षुराज्ञापयतीति पूर्वेणान्वयः । पञ्चजनोपपन्नमिति झ.पाठः ॥ 7-263-41
चतुर्विधं जरायुजादि । पञ्चबीजां चतुर्विधभूतग्रामः कर्म च तेषां बीजभूताम् ॥ 7-263-45 अतः केशवात् यत्परं कल्प्यते तद्विपरीतम् । असन्मार्ग इत्यर्थः ॥ 7-263-46 तादृशः केशवो देवो भूयो नारायणः परः । आदिरन्तश्च मध्यं च देशतः कालते
हरिः । जगतां तस्थुषां चैव भूतानां प्रभवाप्यय इति क.थ.पाठः ॥
श्रीः