अध्यायः 267

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति धर्मप्रमाणनिरूपणम् ॥ 1 ॥

वैशम्पायन उवाच ।

इत्युक्तवति तद्वाक्यं कृष्णे देवकिनन्दने ।
भीष्मं शान्तनवं भूयः पर्यपृच्छद्युधिष्ठिरः ॥
निर्णये वा महाबुद्धे सर्वधर्मविदांवर ।
प्रत्यक्षमागमो वेति किं तयोः कारणं भवेत् ॥
भीष्म उवाच ।
नास्त्यत्रि संशयः कश्चिदिति मे वर्तते मतिः ।
शृणु वक्ष्यामि ते प्राज्ञ सम्यक्त्वं मेऽनुपृच्छसि ॥
संशयः सुगमस्तत्र दुर्गमस्तस्य निर्णयः ।
दृष्टं श्रुतमनन्तं हि यत्र संशयदर्शन् ॥
प्रत्यक्षं कारणं दृष्टं हैतुकं प्राज्ञमानिनः ।
नास्तीत्येवं व्यवस्यन्ति सत्यमागममेव वा ॥
तदयुक्तं व्यवस्यन्ति बालाः पण्डितमानिनः ।
अथ सञ्चिन्त्यमेवैकं कारणं किं भवेदिति ॥
शक्यं दीर्घेण कालेन युक्तेनामन्त्रितेन च ।
प्राणयात्रामनेकां च कल्पयानेन भारत ॥
तत्परेणैव नान्येन शक्यते तत्तु कारणम् ।
हेतूनामन्तमासाद्य विपुलं ज्ञानमुत्तमम् ॥
ज्योतिः सर्वस्य लोकस्य विपुलं प्रतिपद्यते । न त्वेव गमनं राजन्हेतुतो गमनं तथा ।
अग्राह्यमनिबद्धं च वाचा सम्परिवर्जयेत् ॥
युधिष्ठिर उवाच ।
प्रत्यिक्षं लोकतः सिद्धिर्लोकश्चागमपूर्वकः ।
शिष्टाचारो बहुविधस्तन्मे ब्रूहि पितामहः ॥
भीष्म उवाच ।
धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः ।
संस्था यत्नैरपि कृता कालेन प्रतिभिद्यते ॥
अधर्मो धर्मरूपेण तृणैः कूप इवावृतः ।
ततस्तैर्भिद्यते वृत्तं शृणु चैव युधिष्ठिर ॥
अवृत्त्या ये तु निन्दनि श्रुतत्यागपरायणाः ।
धर्मविद्वेषिणो मन्दा इत्युक्तस्तेषु संशयः ॥
अतृप्यन्तस्तु साधूनां यावदागमबुद्धयः ।
परमित्येव सन्तुष्टास्तानुपास्स्व च पृच्छ च ॥
कामार्थौ पृष्ठतः कृत्वा लोभमोहानुसारिणौ ।
धर्म इत्येव सम्बुद्धस्तानुपास्स्व च पृच्छ च ॥
न तेषां भिद्यते वृत्तं यज्ञाः स्वाध्यायकर्म च ।
आचारः कारणं चैव धर्मश्चैकस्त्रयं पुनः ॥
युधिष्ठिर उवाच ।
पुनरेव हि मे बुद्धि संशये परिमुह्यति ।
अपरो मज्जमानस्य परं तीरमपश्यतः ॥
वेदः प्रत्यक्षमाचारः प्रमाणं तत्त्रयं यदि ।
पृथक्त्वं लभ्यते चैषां धर्मश्चैतत्त्रयं कथम् ॥
भीष्म उवाच ।
धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः ।
यद्येवं मन्यसे राजंस्त्रिधा धर्मविचारणा ॥
एक एवेति जानीहि त्रिधा धर्मस्य दर्शनम् ।
पृथक्त्वे च न मे बुद्धिस्त्रयाणामपि वै तथा ॥
[उक्तो मार्गस्त्रयाणां च तत्तथैव समाचर ।
जिज्ञासा न तु कर्तव्या धर्मस्य परितर्कणात् ॥
सदैव भरतश्रेष्ठ मा ते भूदत्र संशयः ।
अन्धो जड इवाशङ्की यद्ब्रवीमि तदाचर ॥
अहिंसा सत्यमक्रोधो दानमेतच्चतुष्टयम् । अजातशत्रो सेवस्य धर्म एष सनातनः ॥]
ब्राह्मणेषु च वृत्तिर्या पितृपैतामहोचिता ।
तामन्वेहि महाबाहो धर्मस्यैते हि देशिकाः ॥
प्रमाणमप्रमाणं वै यः कुर्यादबुधो जनः ।
न स प्रमाणतामर्हो विषादजननो हि सः ॥
ब्राह्मणानेव सेवस्व सत्कृत्य बहुमान्य च ।
एतेष्वेव त्विमे लोकाः कृत्स्ना इति निबोध तान् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तषष्ट्यधिकद्विशततमोऽध्यायः ॥ 267 ॥

7-267-2 श्रुतिप्रत्यक्षयोः किं बलवदिति प्रश्नः ॥ 7-267-4 श्रुत्यपेक्षया प्रत्यक्षं प्रबलं क्वचित्प्रत्यक्षापेक्षया श्रुतिरित्यर्थः ॥ 7-267-6 यदि त्वमपि एकमसंहतं ब्रह्म कारणं कथं भवेदिति संशयवानसि तर्हि दीर्घकालसेवनादिनाऽयमर्थो युक्तेन योगेन वेदितुं शक्यः ॥ 7-267-8 हेतूनामन्त्रिते वापि धर्मशास्त्रेण चोत्तमम् इति क.ट.थ.पाठः ॥ 7-267-9 लोकस्य प्रकाशं प्रतिपद्यत इति । तत्वागमसमे राजन्हेत्वन्तगमने तथेति च क.ट.थ.पाठः ॥ 7-267-10 लोकतः सिद्धिरनुमानं आगमपूर्वः शिष्टचारश्चेति प्रमाणानि एतेषां मध्ये किं प्रबलमिति प्रश्नार्थः ॥ 7-267-11 धर्मस्य प्रीयमाणस्य बलवद्भिर्महात्मभिः इति, काले विपरिविद्यत इति च क.ट.थ.पाठः ॥ 7-267-12 वृत्तं शिष्टाचारः ॥ 7-267-13 निन्दन्ति वृत्तम् । तेषु प्रत्यक्षानुमानाचारेषु ॥ 7-267-14 अतृप्यन्तो नित्यं सोत्कण्ठाः । आगमजन्या बुद्धयो येषां ते । परं श्रेष्ठं प्रमाणमित्यन्वयः ॥ 7-267-16 वृत्तं शीलम् । आचारः शौचादिः । कारणं वेदः । त्रयं मिलित्वा एको धर्मः । स धर्मः साधानीय इत्यर्थः । येनैषां भिद्यते वृत्तं यज्ञस्वाध्यायकर्मभिः । मूलावारस्तु साधूनां यज्ञस्वाध्यायवृत्तत इति क.ट.थ.पाठः ॥ 7-267-19 हे राजन्, यद्येवं धर्मत्रयं मन्यसे तन्नेति शेषः । किन्तु ह्रियमाणस्यैकस्यैव धर्मस्य त्रिधा त्रिप्रकारा विचारणा । एकएव प्रमाणत्रयुसंवादेन परीक्षणीय इत्यर्थः ॥ 7-267-20 त्रिधेत्यस्य व्याख्यानं एकएवेति । त्रयाणां प्रमाणानां पृथक्त्वे प्रत्येकं स्वातन्त्र्येण धर्मप्रतिपादकत्वे मम बुद्धिर्न च । एवमेव विजानीहि इति क.ट.थ.पाठः ॥ 7-267-22 अशङ्की शङ्काशून्यः ॥

श्रीः