अध्यायः 268

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति धार्मिकाधार्मिकाणां स्वर्गनरकप्राप्तिप्रतिपादनम् ॥ 1 ॥ तता साध्वसाधुजनकक्षणाभिधानपूर्वकं सामान्यतो नानाधर्मप्रतिपादनम् ॥ 3 ॥

युधिष्ठिर उवाच ।

ये च धर्ममसूयन्ते ये चैनं पर्युपासते ।
ब्रवीतु मे भवानेतत्क्व ते गच्छन्ति तादृशाः ॥
भीष्म उवाच ।
रजसा तमसा चैव समवस्तीर्णचेतसः ।
नरकं प्रतिपद्यन्ते धर्मविद्वेषिमो जनाः ॥
ये तु धर्मं महाराज सततं पर्युपासते ।
सत्यार्जवपराः सन्तस्ते वै स्वर्गभूजो नराः ॥
धर्म एव रतिस्तेषामाचार्योपासनाद्भवेत् ।
देवलोकं प्रपद्यन्ते ये धर्मं पर्युपासते ॥
मनुष्या यदि वा देवाः शरीरमुपताप्य वै ।
धर्मिणः सुखमेधन्ते लोभद्वेषविवर्जिताः ॥
प्रथमं ब्रह्म्णः पुत्रं धर्ममाहुर्मनीषिणः ।
धर्मिणः पर्युपासन्ते फलं पक्वमिवाशिनः ॥
युधिष्ठिर उवाच ।
असाधोः कीदृशं शीलं साधोश्चैव तु कीदृशम् ।
ब्रवीतु मे भवानेतत्सन्तोऽसन्तश्च कीदृशाः ॥
भीष्म उवाच ।
दुराधाराश्च दुर्धर्षा दुर्मुखाश्चाप्यसाधवः ।
साधवः शीलसम्पन्नाः शिष्टाचारस्य लक्षणम् ॥
राजमार्गे गवां मध्ये जनमध्ये च धर्मिणः ।
नोपसेचन्ति राजेन्द्र सर्गं मूत्रपुरीषयोः ॥
पञ्चानां यजनं कृत्वा शेषमश्नन्ति साधवः ।
न जल्पन्ति च भुञ्जाना न निद्रान्त्यार्द्रपाणयः ॥
चित्रभानुमपां देवं गोष्ठं चैव चतुष्पथम् ।
ब्राह्मणं धार्मिकं वृद्धं ये कुर्वन्ति प्रदक्षिणम् ॥
वृद्धानां भारतप्रानां स्त्रीणां बालातुरस्य च ।
ब्राह्मणानां गवां राज्ञां पन्थानं ददते च ये ॥
अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च ।
`सामान्यं भोजनं कुर्यात्स्वयं नाग्र्यशनं व्रजेत् ॥
न सत्यार्जवधर्मस्य तुल्यमन्यच्च विद्यते ।
बहुला नाम गौस्तेन गतिमग्र्यां गता किल ॥
मुनिशापाद्द्विजः कश्चिद्व्याघ्रतां समुपागतः ।
बहुलां भक्षणरुचिरास्वाद्य शपथेन तु ॥
विमुच्य पीतवत्सां तां दृष्ट्वा स्मृत्वा पुरातनम् ।
जगाम लोकानमलान्सा स्वराष्ट्रं तथा पुनः ॥
तस्मात्सत्यार्जवरतो राजन्राष्ट्रं समानवम् ।
तारयित्वा सुखं स्वर्गं गन्तासि भरतर्षभ ॥
तथा शरणकामानां गोप्ता स्यात्स्वागतप्रदः ॥ सायं प्रातर्मनुष्याणामशनं देवनिर्मितम् ।
नान्तरा भोजनं दृष्टमुपवासविधिर्हि सः ॥ होमकाले यथा वह्निः काले होमं प्रतीक्षते ।
ऋतुकाले तथाऽऽधानं पितरश्च प्रतीक्षते ।
नान्यदा गच्छते यस्तु ब्रह्मचर्यं च तत्स्मृतम् ॥
अमृतं ब्राह्मणा गाव इत्येतत्त्रयमेकतः ।
तस्मादोब्राह्मणान्नित्यमर्चयेत यथाविधि ॥
यजुषां संस्कृतं मांसमुपभुञ्जत दुष्यति ।
पृष्ठमांसं वृथामांसं पुत्रमांसं च तत्समम् ॥
स्वदेशे परदेशे वाऽप्यतिथिं नोपवासयेत् ।
कर्म वै सफलं कृत्वा गुरुणां प्रतिपादयेत् ॥
गुरुभ्यस्त्वासनं देयमभिवाद्याभिपूज्य च ।
गुरुमभ्यर्च्य वर्धन्ते आयुषा यशसा श्रिया ॥
वृद्धान्नाभिभवेज्जातु न चैतान्प्रेषयेदिति ।
नासीनः स्यात्स्थितेष्वेवमायुरस्य न रिष्यते ॥
न नग्रामीक्षते नारीं न नग्रान्पुरुषानपि ।
मैथुनं सततं गुप्तं तपश्चैव समाचरेत् ॥
तीर्थानां गुरवस्तीर्थं शुचीनां हृदयं शुचि ।
दर्शनानां परं ज्ञानं सन्तोषः परमं सुखम् ॥
सायं प्रातश्च वृद्धानां शृणुयात्पुष्कला गिरः ।
श्रुतमाप्नोति हि नरः सततं वृद्धसेवया ॥
स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् ।
यच्छेद्वाङ्मनसी नित्यमिन्द्रियाणि तथैव च ॥
संस्कृतं पायसं नित्यं यावकं कृसरं हविः ।
अष्टकाः पितृदैवत्या ग्रहाणामभिपूजनम् ॥
श्मश्रुकर्मणि मङ्गल्यं क्षुतानामभिनन्दनम् ।
व्याधितानां च सर्वेषामायुषामभिनन्दनम् ॥
न जातु त्वमिति ब्रूयादापन्नोपि महृत्तरम् । त्वंकारो वा वधो वेति विद्वत्सु न विशिष्यते ।
अवराणां समानानां शिष्याणां च समाचरेत् ॥
पापमाचरते नित्यं हृदयं पापकर्मणाम् ।
ज्ञानपूर्वकृतं कर्म च्छादयन्ते ह्यसाधवः ॥
ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने ।
न मां मनुष्याः पश्यन्ति न मां पश्यन्ति देवताः ॥
पापेनाभिहितः पापः पापमेवाभिजायते ॥
यथा वार्धुषिको वृद्धिं दिनभेदे प्रतीक्षते ।
धर्मेण पिहितं पापं धर्ममेवाभिवर्धयेत् ॥
यथा लवणमम्भोभिराप्लुतं प्रविलीयते ।
प्रायश्चित्तहतं पापं तथा सद्यः प्रणश्यति ॥
तस्मात्पापं न गूहेत गूहमानं विवर्धते ।
कृत्वा तु सादुष्वाख्यायाधर्मं प्रशमयन्त्युत ॥
आशया सञ्चितं द्रव्यं स्वकाले नोपभुज्यते ।
अन्ये चैतत्प्रद्यन्ते वियोगे तस्य देहिनः ॥
`तद्धर्मसाधनं नित्यं सङ्कल्पाद्धनमार्जयेत् ।' मननं सर्वभूतानां धर्ममाहुर्मनीषिणः ।
तस्मात्सर्वाणि भूतानि धर्ममेव समासते ॥ एक एव चरेद्धर्मं न धर्मध्वजिको भवेत् ।
धर्मवाणिजका ह्येते ये धर्ममुपभुञ्जते ॥ अर्चेद्देवानदम्भेन सेवेताऽमायया गुरून् ।
धनं निदध्यात्पात्रेषु परत्रार्थं समावृतम् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टषष्ट्यधिकद्विशततमोऽध्यायः ॥ 268 ॥

7-268-7 कीदृशाः किलक्षणाः ॥ 7-268-9 सर्गं उत्सर्गम् ॥ 7-268-10 पञ्चनां देवपितृभूतातिथिकुटुम्बानाम् ॥ 7-268-20 ऋतुकाले तथा नारी ऋतुमेव प्रतीक्षते इति झ.पाठः । नचान्यां गच्छते यस्तु ब्रह्मचर्यं च तस्य तत् इति क.ट.थ. पाठः ॥ 7-268-23 कर्म अध्ययनम् । प्रतिपादयेत् दक्षिणामिति शेषः ॥ 7-268-25 वृद्धान्नातिवदेज्वात्विति क.ट.थ.पाठः ॥ 7-268-29 दक्षिणं पाणिं उद्धरेत् यज्ञोपवीती भवेत् ॥ 7-268-31 मङ्गत्यं मङ्गलवचनम् । अभिनन्दनं शतं जीवेति वचनेन सुखोत्पादनं च । कुर्यादिति शेषः ॥ 7-268-32 त्वंकारो वा वदस्वेतीति क.ट.थ.पाठः ॥ 7-268-41 धर्मध्वजिकस्तत्प्रकाशकः ॥

श्रीः