अध्यायः 024
अथ दानधर्मपर्व ॥ 1 ॥
नारदेन गरुडंप्रति विनतायाः कद्रूदास्यनिवेदनम् ॥ 1 ॥ तच्छ्रवणखिन्नेन तेन कद्रूंप्रति स्वमातुर्दास्यान्मोचनयाचना ॥ 2 ॥ कद्र्वा गरुडंप्रत्यमृतानयने मातुर्दास्यान्मोचनोक्तिः ॥ 3 ॥
`भीष्म उवाच ।
ततः कद्रूर्हसन्ती च विनतां धर्मचारिणीम् ।
दासीवत्प्रेषयामास सा च सर्वं चकार तत् ॥
न विवर्णा न संक्षुब्धा न च क्रुद्धा न दुःखिता ।
प्रेष्यकर्म चकारास्या विनता कमलेक्षणा ॥
इमा दिशश्चतस्रोऽस्याः प्रेष्यभावेन वर्तिताः ।
अथ स्म वैनतेयं वै बलदर्पौ समीयतुः ॥
तं दर्पवशमापन्नं परिधावन्तमन्तिकात् ।
ददर्श नारदो राजन्देवर्षिर्दर्पसंयुतम् ॥
तमब्रवीच्च देवर्षिर्नारदः प्रहसन्निव ।
किं दर्पवशमापन्नो न वै पश्यसि मातरम् ॥
बलेन दृप्तः सततमहंमानकृतः सदा ।
दासीं पन्नगराजस्य मातुरन्तर्गृहे सतीम् ॥
तमब्रवीद्वैनतेयः कर्म किं तन्महामते ।
जनयित्री मयि सुते जाता दासी तपस्विनी ॥
अथाब्रवीदृषिर्वाक्यं दीव्यती विजिता खग ।
निकृत्या पन्नगेन्द्रस्य मात्रा पुत्रैः पुरा सह ॥
गरुड उवाच ।
कथं जिता निकृत्या सा भगवञ्जननी मम ।
ब्रूहि तन्मे यथावृत्तं श्रुत्वा वेत्स्ये ततः परम् ॥
ततस्तस्य यथावृत्तं सर्वं तन्नारदस्तदा ।
आचख्यौ भरतश्रेष्ठ यथावृत्तं पतत्रिणः ॥
तच्छ्रुत्वा वैनतेयस्य कोपो हृदि समाविशत् ।
जगर्हे पन्नगान्सर्वान्मात्रा सह परंतपः ॥
ततस्तु रोषाद्दुःखाच्च तूर्णमुत्पत्यक पक्षिराट् ।
जगाम यत्र माताऽस्य कृच्छ्रे महति वर्तते ॥
तत्रापश्यत्ततो दीनां जटिलां मलिनां कृशाम् ।
तोयदेन प्रतिच्छन्नां सूर्याभामिव मातरम् ॥
तस्य दुःखाच्च रोषाच्च नेत्राभ्यामश्रु चास्रवत् ।
प्रवृत्तिं च निवृत्तिं च पौरुषे प्रतितस्थुषः ॥
अनुक्त्वा मातरं किञ्चित्पतत्रिवरपुङ्गवः ।
कद्रूमेव स धर्मात्मा वचनं प्रत्यभाषत ॥
यदि धर्मेण मे माता जिता यद्यप्यधर्मतः ।
ज्येष्ठा त्वमसि मे माता धर्मः सर्वः स मे मतः ॥
इयं तु मे स्यात्कृपणा मयि पुत्रेऽम्ब दुःखिता ।
अनुजानीहि तां साधु मत्कृते धर्मदर्शिनि ॥
कद्रूः श्रुत्वास्य तद्वाक्यं वैनतेयस्य धीमतः ।
उवाच वाक्यं दुष्प्रज्ञा परीता दुःखमूर्च्छिता ॥
नाहं तव न ते मातुर्वैनतेय कथञ्चन ।
कुर्यां प्रियमनिष्टात्मा मां ब्रवीषि खग द्विजा ॥
तां तदा ब्रुवतीं वाक्यमनिष्टं क्रूरभाषिणीम् ।
दारुणां सूनृताभिस्तामनुनेतुं प्रचक्रमे ॥
गरुड रुवाच ।
ज्येष्ठा त्वमसि कल्याणि मातुर्मे भामिनि प्रिया ।
सोदर्यी मम चासि त्वं ज्येष्ठा माता न संशयः ॥ 7--24-22x
कद्रूरुवाच ।
विहङ्गम यथाकामं गच्छ कामगम द्विज ।
सूनृताभिस्त्वया माता नादासी शक्यमण्डज ॥
अमृतं यद्याहरेस्त्वं विहङ्गं जननीं तव ।
अदासीं मम पश्येमां वैनतेय न संशयः ॥ ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुर्विंशोऽध्यायः ॥ 24 ॥
श्रीः