अध्यायः 025

अथ दानधर्मपर्व ॥ 1 ॥

कद्र्वाऽमृताहरणं चोदितेन गरुडेन स्वपितरि कश्यपे तन्निवेदनम् ॥ 1 ॥ तेन तस्य दुष्करत्वकथने गरुडेन स्वेन तस्य सुकरत्वोक्तिः ॥ 2 ॥ कश्यपेन गरुडंप्रति गजकच्छपवृत्तान्तकथनपूर्वकं तयोर्भक्षणाद्बलाप्यायनसम्पादनेनामृताहरणचोदना ॥ 3 ॥

`भीष्म उवाच ।

तथेत्युक्त्वा तु विहगः प्रतिज्ञाय महाद्युतिः ।
अमृताहरणे वाचं ततः पितरमब्रवीत् ॥
कामं वै सूनृता वाचो विसृज्य च मुहुर्मुहुः ।
यच्चाप्यनुज्ञां मातुर्वै न च सा ह्यनुमन्यते ॥
सा मा बहुविधा वाचो वज्रकल्पा विसृज्य वै ।
भगवन्विनता दासी मम माता महाद्युते ॥
कद्रूः प्रेषयते चैव दासीयमिति चाब्रवीत् ।
आहरामृतमित्येव मोक्ष्यते विनता ततः ॥
सोहं मातृविमोक्षार्थमाहरिष्य इति ब्रुवन् ।
अमृतं प्रार्थितस्तूर्णमाहर्तुं प्रतिनन्द्य वै ॥
पितोवाच ।
अमृतं तात दुष्प्रापं देवैरपि कुतस्त्वया ।
रक्ष्यते हि भृशं पुत्र रक्षिभिस्तन्निबोध मे ॥
गुप्तमद्भिर्भृशं साधु सर्वतः परिवारितम् ।
अनन्तरमथो गुप्तं ज्वलता जातवेदसा ॥
ततः शतसहस्राणि अयुतान्यर्बुदानि च ।
रक्षन्त्यमृतमत्यन्तं किङ्करा नाम राक्षसाः ॥
तेषां शक्त्यृष्टिशूलांश्च शतघ्न्यः पट्टसास्तथा ।
आयुधा रक्षिणां तात वज्रकल्पाः शिलास्तथा ॥
ततो जालेन महता अवनद्धं समन्ततः ।
अयस्मयेन वै तात वृत्रहन्तुः स्म शासनात् ॥
तत्त्वमेवंविधं तात कथं प्रार्थयसेऽमृतम् । सुरक्षितं वज्रभृतां वैनतेय विहङ्गम ।
इन्द्रेण देवैर्नागैश्च खड्गैर्गिरिजलादिभिः ॥
गरुड उवाच ।
पुत्रगृद्ध्या ब्रवीष्येतच्छृणु तात विनिश्चयम् ।
बलवानुपायवानस्मि भूयः किं करवाणि ते ॥
तमब्रवीत्पिता हृष्टः प्रहसन्वै पुनः पुनः ।
यदि तौ भक्षयेस्तात क्रूरौ कच्छपवारणौ ॥
तथा बलममेयं ते भविता तन्न संशयः ।
अमृतस्यैव चाहर्ता भविष्यसि न संशयः ॥
गरुड उवाच ।
क्व तौ क्रूरौ महाभाग वर्तेते हस्तिकच्छपौ ।
भक्षयिष्याम्यहं तात बलस्याप्यायनं प्रति ॥
कश्यप उवाच ।
पर्वतो वै समुद्रान्ते नभः स्तब्ध्वेव तिष्ठति ।
उरगो नाम दुष्प्रापः पुरा देवगणैरपि ॥
गोरुतानि स विस्तीर्णः पुष्पितद्रुमसानुमान् ।
तत्र पन्थाः कृतस्तात कुञ्जरेण बलीयसा ॥
गोरुतान्युच्छ्रयस्तस्य नव सप्त च पुत्रक ।
गच्छताऽगच्छता चैव क्षपितः स महागिरिः ॥
तावान्भूमिसमस्तात कृतः पन्थाः समुत्थितः ।
तेन गत्वा स मातङ्गः पिपासुर्युद्धमिच्छति ॥
तमतीत्य तु शैलेन्द्रं ह्रदः कोकनदायुतः ।
कनकेति च विख्यातस्तत्र कूर्मो महाबलः ॥
गोरुतानि स विस्तीर्णः कच्छपः कुञ्जरश्च सः ।
आयामतश्चापि समौ तेजोबलसमन्वितौ ॥
पुनरावृत्तिमापन्नौ तावेतौ मधुकैटभौ ।
जन्मान्तरे विप्रमूढौ परस्परवधैषिणौ ॥
यदा स नागो व्रजति पिपासुस्तं जलाशयम् ।
तदैनं कच्छपो रोषात्प्रतियाति महाबलः ॥
नखैश्च दशनैश्चापि निमज्योन्मज्य वाऽसकृत् ।
विददाराग्रहस्तेन कुञ्जरं तं जलेचरः ॥
नागराडपि तोयार्थी पिपासुश्चरणैरपि ।
अग्रहस्तेन दन्ताभ्यां निवारयति वारिजम् ॥
स तु तोयादनुत्तिष्ठन्वारिजो गजयूथपम् ।
नखैश्च दशनैश्चैव द्विरदं प्रतिषेधति ॥
निवारितो गजश्रेष्ठः पुनर्गच्छति स्वं वनम् ।
पिपासुः क्लिन्नहस्ताग्रो रुधिरेण समुक्षितः ॥
तौ गच्छ सहितौ पुत्र यदि शक्नोषि भक्षय ।
न तौ पृथक्तया शक्यावप्रमत्तौ बले स्थितौ' ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चविंशोऽध्यायः ॥ 25 ॥

7-25-17 गोरुतानि गव्यूतीः ॥

श्रीः