अध्यायः 027

अथ दानधर्मपर्व ॥ 1 ॥

गरुडेन शैलाग्रे उपविश्य गजकच्छपयोर्भक्षणम् ॥ 1 ॥ ततः स्वर्गेऽमृतसमीपं गतेन तेन तत्र परितो ज्वलदग्निदर्शनभया********* प्रति तच्छमनोपायप्रश्नः ॥ 2 ॥ ब्रह्मणा तम्प्रति नवनीतप्रक्षेपेणाग्निसंशामनचेदना ॥ 3 ॥

`भीष्म उवाच ।

हत्वा तं पक्षिशार्दूलः कुविन्दानां जनं व्रती । उपोपविश्य शैलाग्रे भक्षयामास तावुभौ ।
वारणं कच्छर्प चैव संहृष्टः स पतत्रिराट् ॥
तयोः स रुधिरं पीत्वा मेदसी च परन्तप । संहृष्टः यततांश्रेष्ठो लब्ध्वा बलमनुत्तमम् ।
जंगाम देवराजस्य भवनं पन्नगाशनः ॥
तं प्रणम्य महात्मानं पावकं विस्फुलिङ्गिनम् ।
रात्रिदिवं प्रज्वलितं रक्षार्थममृतस्य ह ॥
तं दृष्ट्वा विहगेन्द्रस्य भयं तीव्रमुपाविशत् ।
नतु तोयान्न रक्षिभ्यो भयमस्योपपद्यते ॥
पक्षित्वमात्मनो दृष्ट्वा ज्वलन्तं च हुताशनम् ।
पितामहमथो गत्वा ददर्श भुजगाशनः ॥
तं प्रणम्य महात्मानं गरुडः प्रयताञ्जलिः ।
प्रोवाच तदसन्दिग्धं वचनं पन्नगेश्वरः ॥
उद्यतं गुरुकृत्ये मां भगवन्धर्मनिश्चितम् ।
विमोक्षणार्थं मातुर्हि दासभावादनिन्दितम् ॥
कद्रूसकाशममृतं मयाहर्तव्यमीश्वर ।
तदा मे जननी देव दासभावात्प्रमोक्ष्यते ॥
तत्रामृतं प्रज्वलितो नित्यमीश्वर रक्षति ।
हिरण्यरेता भगवान्पाकशासनशासनात् ॥
तत्र मे देवदेवेश भयं तीव्रमथाविशत् ।
ज्वलन्तं पावकं दृष्ट्वा पक्षित्वं चात्मनः प्रभो ॥
समतिक्रमितुं शक्यः कथं स्यात्पावको मया ।
तस्याभ्युपायं वरद वक्तुमीशोऽसि मे प्रभो ॥
तमब्रवीन्महाभाग तप्यमानं विहङ्गमम् ।
अग्नेः संशमनोपायमुत्सयन्त पुनःपुनः ॥
पयसा शाम्यते वत्स सर्पिषा च हुताशनः ।
शरीरस्थोपि भूतानां किं पुनः प्रज्वलन्भुवि ॥
नवनीतं पयो वाऽपि पावके त्वं समादधेः । ततो गच्छ यथाकामं न त्वा धक्ष्यति पावकः ॥' ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तविंशोऽध्यायः ॥ 27 ॥

7-27-7 जानीहीति शेषः ॥

श्रीः