अध्यायः 029

अथ दानधर्मपर्व ॥ 1 ॥

गरुडेन कद्रूंप्रत्यमृतानयनकथनम् ॥ 1 ॥ कद्र्वा विनताया दास्यान्मोचनम् ॥ 2 ॥ गरुडेन पुनरिन्द्रायामृतप्रत्यर्पणम् ॥ 3 ॥

`भीष्म उवाच ।

ततो व्रज्रं सहस्राक्षो दृष्ट्वा सक्तं वरायुधम् ।
ऋषींश्च दृष्ट्वा सहसा सुपर्णमिदमब्रवीत् ॥
न ते सुपर्ण पश्यामि प्रभावं तेन योधये । इत्युक्ते न मया रक्षा शक्या कर्तुमतोऽन्यथा ।
इदं वज्रं मया सार्धं निवृत्तं हि यथागतम् ॥
ततः सहस्रनयने निवृत्ते गरुडस्तथा ।
कद्रूमभ्यगमत्तूर्णममृतं गृह्य भारतः ॥
गरुड उवाच ।
तदाहृतं मया शीघ्रममृतं जननीकृते ।
अदासी सा भवत्वद्य विनता धर्मिचारिणी ॥
कद्रूरुवाच ।
स्वागतं स्वाहृतं चेदममृतं विनतात्मज । अदासी जननी तेऽद्य पुत्र कामवशा शुभा ।
एवमुक्ते तदा सा च सम्प्राप्ता विनता गृहम् ॥ उपनीय यथान्यायं विहगो बलिनांवरः ।
स्मृत्वा निकृत्या विजयं मातुः सम्प्रतिपद्य च ॥ वधं च भुजगेन्द्राणां ये वालास्तस्य वाजिनः ।
बभूवुरसितप्रख्या निकृत्या वै जितं त्वया ॥ तामुवाच ततो न्याय्यं विहगो बलिनांवरः ।
उञ्जहारामृतं तूर्णमुत्पपात च रंहसा ॥ तद्गृहीत्वाऽमृतं तूर्णं प्रयान्तमपराजितम् ।
किमर्थं वैनतेय त्वमाहृत्यामृतमुत्तमम् ।
पुनर्हरति दुर्बुद्धे मा जातु वृजितं कृथाः ॥
सुपर्णि उवाच ।
अमृताहरणं मेऽद्य यत्कृतं जननीकृते ।
भवत्या वचनादेतदाहरामृतमित्युत ॥
आहृतं तदिदं शीघ्रं मुक्ता च जननी मम ।
हराम्येष पुनस्तत्र यत एतन्मयाऽऽहृतम् ॥
यदि मां भवती ब्रूयादमृतं मे च दीयताम् । तथा कुर्यां न वा कुर्यां न हि त्वममृतक्षमा ।
मया धर्मेण सत्येन विनता च समुद्धृता ॥
भीष्म उवाच ।
ततो गत्वाऽथ गरुडः पुरन्दरमुवाच ह । इदं मया वृत्रहन्तर्हृतं तेऽमृतमुत्तमम् ।
मात्रर्थे हि तथैवेदं गृहाणामृतमाहृतम् ॥
माता च मम देवेश दासीत्वमुपजग्मुषी ।
भुजङ्गमानां मातुर्वै सा मुक्ताऽमृतदर्शनात् ॥
एतच्छ्रुत्वा सहस्राक्षः सुपर्णमनुमन्यते ।
उवाच च मुदा युक्तो दिष्ट्यादिष्ट्येति वासवः ॥
क्रषयो ये सहस्राक्षमुपासन्ति सुरैः सह ।
ते सर्वे च मुदा युक्ता विश्वेदेवास्तथैव च ॥
ततस्तमृषयः सर्वे देवाश्च भरतर्षभ ।
ऊचुः पुरन्दरं दृष्टा गरुडो लभतां वरम् ॥
ततः शचीपतिर्वाक्यमुवाच प्रहसन्निव ।
जनिष्यति हृषीकेशः स्वयमेवैष पक्षिराट् ॥
केशवः पुण्डरीकाक्षः शूरपुत्रस्य वेश्मनि ।
स्वयं धर्मस्य रक्षार्थं विभज्य भुजगाशनः ॥
एष ते पाण्डवश्रेष्ठ गरुडोऽथ पतत्रिराट् ।
सुपर्णो वैनतेयश्च कीर्तितो भद्रमस्तु ते ॥
तदेतद्भरतश्रेष्ठ मयाऽऽख्यानं प्रकीर्तितम् । सुपर्णस्य महाबाहो किं भूयः कथयामि ते ॥' ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनविंशोऽध्यायः ॥ 29 ॥

7-29-1 जितं त्वयेति तां कद्रूमुवाचेत्युत्तरेण सम्बन्धः ॥

श्रीः