अध्यायः 035

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति मनोवाक्कायरूपकरणैर्दुष्कर्मपरित्पागपूर्वकं शुभकर्मकरणस्य भगवत्प्रसादनहेतुत्वोक्तिः ॥ 1 ॥

युधिष्ठिर उवाच ।

किं कर्तव्यं मनुष्येण लोकयात्राहितार्थिना ।
कथं वै लोकयात्रां तु किंशीलश्च समाचरेत् ॥
भीष्म उवाच ।
`देवे नारायणे भक्तिः शंकरे साधुपूजया । ध्यानेनाथ जपः कार्यः स्वधर्मैः शुचिचेतसा ॥'
कायेन त्रिविधं कर्म वाचा चापि चतुर्विधम् ।
मनसा त्रिविधं चैव दश कर्मपथांस्त्यजेत् ॥
प्राणातिपातः स्तैन्यं च परदाराभिमर्शनम् ।
त्रीणि पापानि कायेन सर्वतः परिवर्जयेत् ॥
असत्प्रलापं पारुष्यं पैशुन्यमनृतं तथा ।
चत्वारि वाचा राजेन्द्र न जल्पेन्नानुचिन्तयेत् ॥
अनभिध्या परखेषु सर्वसत्वेषु सौहृदम् ।
कर्मणां फलमस्तीति त्रिविधं मनसा चरेत् ॥
तस्माद्वाक्वायमनसा नाचरेदशुभं नरः । शुभान्येवाचरँल्लोके भक्तो नारायणस्य हि ।
तस्यैव तु पदं सूक्ष्मं प्रसादादश्नुयात्परम् ॥' ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चत्रिंशोऽध्यायः ॥ 35 ॥

7-35-1 लोकयात्रां लोकद्वयश्रेयःसाधनम् ॥ 7-35-3 सुभं कर्मफलं चरेदिति ध.पाठः ॥ 7-35-4 प्राणातिपातो हिंसा ॥ 7-35-5 पारुष्यं निष्ठुरभाषणम् । पैशुन्यं राजद्वारादौ परदोषसूचनम् । अनतं मिथ्यावादः मनसाप्येवं वदिष्यामिति नानुचिन्तयेत् ॥ 7-35-6 अनभिध्येति श्लोकेन परद्रव्येष्वभिध्यानं परस्यानिष्टचिन्तनं वेदबादेषु नास्तिक्यमिति त्रीणि त्याज्यानि लक्षयेत् । त्यजेदित्युपक्रमात् ॥

श्रीः