अध्यायः 036
अथ दानधर्मपर्व ॥ 1 ॥
युधिष्ठिरेण भीष्मांप्रति श्रुतधर्माननूद्य प्राणिनां सांसारिकदुःखानुवर्णनपूर्वकं स्वस्य संसारनिर्वेदनिवेदनेन पुनर्विस्तरेण वैष्णवधर्मकथनप्रार्थना ॥ 1 ॥
`युधिष्ठिर उवाच ।
चित्तं मे दूयते तात लोके परमविन्दतः ॥
						
					अशाश्वतमिदं सर्वं जगत्स्थावरजङ्गमम् ।
						क्रते नारायणं पुण्यं प्रतिभाति पितामह ॥
					नारायणो हि विश्वात्मा पुरुषः पुष्करेक्षणः ।
						तस्यास्य देवकीसूनोः श्रुतं कृत्स्नं त्वयाऽनघ ॥
						भीष्म उवाच । 
					युधिष्ठिर महाप्राज्ञ मया दृष्टं च सङ्गरे ॥
						
						युधिष्ठिर उवाच । 
					त्वत्त एव तु राजेन्द्र राजधर्माश्च पुष्कलाः ।
							श्रुतं पुराणमखिलं नारदेन निवेदितम् ।
						
						गुह्यं नारायणाख्यानं त्रिविधक्लेशनाशनम् ॥
						
					एकान्तिधर्मनियमाः समासव्यासकल्पिताः ।
						कथिता वै महाभाग त्वया वै मदनुग्रहात् ॥
					लोकरक्षणकर्तृत्वं तस्यैव हरिमेधसः ।
						आतिथेयविधिश्चैव तपांसि नियमाश्च ये ॥
					वेदवादप्रसिद्धाश्च वाजपेयादयो मखाः ।
						यज्ञा द्रविणनिष्पाद्या अग्निहोत्रानुपालिताः ॥
					जपयज्ञाश्च विविधा ब्राह्मणानां तपस्विनाम् ।
						एकादशविधाः प्रोक्ता हविर्यज्ञा द्विजातिनाम् ॥
					तेषां फलविशेषाश्च उञ्छधर्मास्तथैव च ।
						अहन्यहनि ये प्रोक्ता महायज्ञा द्विजातिनाम् ॥
					वेदश्रवणधर्माश्च ब्रह्मयज्ञफलं तथा ।
						वेदव्रतविधानं च नियमाश्चैव वैदिकाः ॥
					स्वाहा स्वधा प्रणीते च इष्टापूर्तफलं तथा ।
						उत्तरोत्तरसेवायामाश्रमाणां च यत्फलम् ॥
					प्रत्येकशश्च निष्ठायामाश्रमाणां महामते ।
						मासपक्षोपवासानां सम्यगुक्तफलं च यत् ॥
					अनाशितानां ये लोका ये च पञ्चतपा नराः ।
						वीराध्वानं प्रपन्नानां या गतिश्चाग्निहोत्रिणाम् ॥
					ग्रीष्मे पञ्चतपानां च शिशिरे जलचारिणाम् ।
						वर्षे स्थण्डिलशायीनां फलं यत्परिकीर्तितम् ॥
					लोके चक्रचराणां च द्विजानां यत्फलं स्मृतम् ।
						अन्नादीनां च दानानां यत्फलं परिकीर्तितम् ॥
					सर्वतीर्थाभिषिक्तानां नराणां च फलोदयः ।
						राज्ञां धर्माश्च ये लोके सम्यक्पालयतां प्रजाः ॥
					ये च सत्यव्रता लोके ये तीर्थे कृतश्रमाः ।
						मातापितृपरा ये च गुरुवृत्तीश्च संश्रिताः ॥
					गोब्राह्मणपरित्राणे राष्ट्रातिक्रमणे तथा ।
						त्यजन्त्यभिमुखाः प्राणान्निर्भयाः सत्वमाश्रिताः ॥
					सहस्रदक्षिणानां च या गतिर्वदनां वर ।
						ये च संध्यामुपासन्ते सम्यगुक्ता महाव्रताः ॥
					तथा योगविधानं च यद्ग्रन्थेष्वभिशब्दितम् ।
						वेदाद्याः श्रुतयश्चापि श्रुता मे गुरुसत्तम ॥
					सिद्धान्तनिर्णयाश्चापि द्वैपायनमुखोद्गताः ।
						श्रुताः पञ्च महायज्ञा येषु सर्वं प्रतिष्ठितम् ॥
					तत्प्रभेदेषु ये धर्मास्तेऽपि वै कृत्स्नशः श्रुताः ।
						न च दूषयितुं शक्याः सद्भिरुक्ता हि ते तथा ॥
					एतेषां किल धर्माणामुत्तमो वैष्णवो विधिः ।
						रक्षते भगवान्विष्णुर्भक्तमात्मशरीरवत् ॥
					कर्मणो हि कृतेस्येह कामितस्य द्विजोत्तम ।
						फलं ह्यवश्यं भोक्तव्यमृषिर्द्वैपायनोऽब्रवीत् ॥
					भोगान्ते चापि पतनं गतिः पूर्वं प्रभाषिता ।
						न मे प्रीतिकरास्त्वेते विषोदर्का हि मे मताः ॥
					वधात्कृष्टतरं मन्ये गर्भवासं महाद्युते ।
							दिष्टान्ते यानि दुःखानि पुरुषो विन्दते विभो ।
						
						ततः कष्टतराणीह गर्भवासे हि विन्दति ॥
						
					ततश्चाभ्याधिकां तीव्रां वेदनां लभते नरः ।
						गर्भापक्रमणे तात कर्मणासुपसर्पणे ॥
					तस्मान्मे निश्चयो जातो धर्मेष्वेतेषु भारत ।
							तदिच्छामि कुरुश्रेष्ठ त्वत्प्रसादान्महामते ।
						
						तं धर्मं चेह वेत्तुं वै यो जराजन्ममृत्युहा ॥
						
					येनोष्णदा वैतरणी असिपत्रवनं च तत् ।
							कुण्डानि चाग्नितप्तानि क्षुरधारापथस्तथा ।
						
						शाल्मलीं च महाघोरामायसीं घोरकण्टकाम् ॥
						
					मातापितृकते चापि सुहृन्मित्रार्थकारणात् ।
							आत्महेतोश्च पापानि कृतानीह नरैश्च यैः ।
						
						तेषां फलोदयं कष्टमृषिर्द्वैपायनोऽब्रवीत् ॥
						
					कुम्भीपाकप्रदीप्तानां शूलार्तानां च क्रन्दताम् ।
						रौरवे क्षिप्यमाणानां प्रहारैर्मथितात्मनाम् ॥
					स्तनतामपकृत्तानां पिबतामात्मशोणितम् ।
						तेषामेव प्रवदतां कारुण्यं नास्ति यन्त्रतः ॥
					तृष्णाशुष्कोष्ठकण्ठानां विह्वलानामचेतसाम् ।
						सर्वदुःखाभिभूतानां रुजार्तानां च क्रोशताम् ॥
					वेदनार्ता हि क्रन्दन्ति पूरयन्तो दिशो दश ॥
						
					एकः करोति पापानि सहभोज्यानि बान्धवैः ।
						तेषामेकः फलं भुङ्क्ते कष्टं वैवस्वते गृहे ॥
					येन नैतां गतिं गच्छेन्न विण्मूत्रास्थिपिच्छिले ।
						विष्ठामूत्रकृमीमध्ये बहुजन्तुनिषेविते ॥
					को गर्भवासात्परतो नरकोऽन्यो विधीयते ।
						यत्र वासकृतो योगः कुक्षौ वासो विधीयते ॥
					जातो विस्तीर्णशोकः स्याद्भवेत विगतज्वरः ।
							न चैष लभ्यते कामो जातमात्रं हि मानवम् ।
						
						आविशन्तीह दुःखानि मनोवाक्कायिकानि तु ॥
						
					तैरस्वतन्त्रो भवति पीड्यमानो भयानकैः ।
						तैर्गर्भवासं गच्छति अवशो जायते तथा ॥
					अवशश्चेहते जन्तुर्व्रजत्यवश एव हि ।
						जरसा रूपविध्वंसं प्राप्नोत्यवश एव तु ॥
					शरीरभेदमाप्नोति जीर्यतेऽवश एव तु ।
						एवं ह्यनियतो मृत्युर्भवत्येव सदा नृषु ॥
					गर्भेषु म्रियते कश्चिज्जायमानस्तथाऽपरः ।
							जाता म्रियन्ते बहवो यौवनस्थास्तथाऽपरे ।
						
						मध्यभावे तु नश्यन्ति स्थविरो मृत एव तु ॥
						
					को जन्मनो नोद्विजते स्वयम्भूरपि यो भवेत् ।
						कुतस्त्वस्मद्विधस्तात मरणस्य वशानुगः ॥
					नित्याविष्टो भयेनाहं मनसा कुरुसत्तम ।
						मुहूर्तमप्यहं शर्म न विन्दामि महामते ॥
					कालात्मनि तिरोभूतो नित्यं तद्गुणवर्जितः ।
						अन्नैर्बहुविधैः पुष्टं वस्त्रैर्नानाविधैर्वृतम् ॥
					चन्दनागरुदिग्धाङ्गं मणिमुक्ताविभूषितम् ।
						यानैर्बहुविधैर्यातमेकान्तेनैव लालितम् ॥
					यौवनोद्धतरूपाभिर्मन्दविह्वलगामिभिः ।
						इष्टिभिरभिरामाभिर्वरस्त्रीभिरयन्त्रितम् ॥
					रमितं सुचिरं कालं शरीरममितप्रभम् ।
						अवितृप्ता गमिष्यन्ति हित्वा प्राणांस्तथाऽपरे ॥
					स्वर्गेऽप्यनियता भूतिस्तथैवाकाशसंश्रये ।
						देवाऽप्यधिष्ठानवशास्तस्माद्देवं न कामये ॥
					कामानां नास्त्यधिष्ठानमकामस्तु निवर्तते ।
						लोकसङ्ग्रहधर्मास्तु सर्व एव न संशयः ॥
					डोलासधर्मा धर्मज्ञ ऋषिर्द्वैपायनोऽब्रवीत् ।
						अस्मात्को विषमं दुःखमारोहेत विचक्षणः ॥
					विद्यमाने समे मार्गे डोलाधर्मविवर्जिते ।
						को ह्यात्मानं प्रियं लोके डोलासाधर्म्यतांनयेत् ॥
					चराचरैः सर्वभूतैर्गन्तव्यमविशङ्कया ।
							अस्माल्लोकात्परं लोकमपाथेयमदैशिकम् ।
						
						घोरं तमः प्रवेष्टव्यमत्रातारमबान्धवम् ॥
						
					ये तु तं किल धर्मज्ञा धर्मं नारायणेरितम् ।
						अनन्यमनसो दान्ताः स्मरन्ति नियतव्रताः ॥
					ततस्तेनैव पश्यन्ति प्राप्नुव्ति परं पदम् ।
						रक्षते भगवान्विष्णुर्भक्तानात्मशरीरवत् ॥
					कुलालचक्रप्रतिमे भ्राम्यमाणेषु जन्तुषु ।
						मातापितृसहस्राणि सम्प्राप्तानि मया गुरो ॥
					स्नेहापन्नेन पीतास्तु मातॄणां विविधाः स्तलाः ॥
						
					पुत्रदारसहस्राणि इष्टानिष्टशतानि च ।
							प्राप्तान्यधिष्ठानवशादतीतानि तथैव च ।
						
						न क्वचिन्न सुखं प्राप्तं न क्वचिच्छाश्वती स्थितिः ॥
						
					स्थानैर्महद्भिर्विभ्रंशो दुःखलब्धैः पुनः पुनः ।
							धननाशश्च सम्प्राप्तो लब्ध्वा दुःखेन तद्धनम् ।
						
						अध्वगानामिव पथि च्छायामाश्रित्य सङ्गमः ॥
						
					एवं कर्मवशो लोको ज्ञातीनां हितसङ्गमः ।
						विश्रम्य च पुनर्याति कर्मभिर्दर्शितां गतिम् ॥
					एतदीदृशकं दृष्ट्वा ज्ञात्वा चैव समागमम् ।
						को न बिभ्येत्कुरुश्रेष्ठ विष्ठान्नस्येव भोजनात् ॥
					बुद्धिश्च मे समुत्पन्ना वैष्णवे धर्मविस्तरे ।
							तदेष शिरसा पादौ गतोऽस्मि भगवंस्तव ।
						
						शरणं च प्रपन्नोऽस्मि गन्तव्ये शरणे ध्रुवे ॥
						
					जन्ममृत्युजराखिन्नस्त्रिभिर्दुःखैर्निपीडितः ।
							इच्छामि भवता त्रातुमेभ्यस्त्वत्तो महामते ।
						
						तस्याद्य युगधर्मस्य श्रवणात्कुरुपुङ्गव ॥
						
					एतदाद्ययुगोद्भूतं त्रेतायां तत्तिरोहितम् ।
							स एव धर्ममखिलमृषिर्द्वैपायनोऽब्रवीत् ॥' ॥
					इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्त्रिंशोऽध्यायःठ ॥ 36 ॥
7-36-3 पुरुषः पुष्करो विभुरिति ट.थ.ध. पाठः ॥
श्रीः