अध्यायः 039

अथ दानधर्मपर्व ॥ 1 ॥

सनत्कुमारेण नारदम्प्रति प्रलयप्रकारादिकथनम् ॥ 1 ॥ तथा भूतादिनिरूपणम् ॥ 2 ॥

`सनत्कुमार उवाच ।

अधःस्रोतसि सर्गे च तिर्यक्स्रोतसि चैव हि ।
एताभ्यामीश्वरं विन्द्यादूर्ध्वस्रोतस्तथैव च ॥
कर्मेन्द्रियाणां पञ्चानामीश्वरो बुद्धिगोचरः ।
बुद्धीन्द्रियाणामपि तु ईश्वरो मन उच्यते ॥
मनसः पञ्चभूतानि सगुणान्याहुरीश्वरम् ।
भूतानामीश्वरं विद्याद्ब्रह्माणं परमेष्ठिनम् ॥
भवान्हि कुशलश्चैव धर्मेष्वेषु परेषु वै ।
कालाग्निरह्नः कल्पान्ते जगद्दहति चांशुभिः ॥
ततः सर्वाणि भूतानि स्थावराणि चराणि च ।
महाभूतानि दग्धानि स्वां योनिं गमितानि वै ॥
कूर्मपृष्ठनिभा भूमिर्निर्दग्धकुशकण्टका ।
निर्वृक्षा निस्तृणा चैव दग्धा कालाग्निना तदा ॥
जगत्प्रलीनं जगति जगच्चापि प्रलीयते ।
नष्टिगन्धा तदा सूक्ष्मा जलमेवाभवत्तदा ॥
ततो मयूखजालेन सूर्यस्त्वापीयते जलम् ।
रसात्मा लीयते चार्के तथा ब्राह्मणसत्तम ॥
अन्तरिक्षगतान्भूतान्प्रदहत्यनलस्तदा ।
अग्निभूतं तदा व्योम भवतीत्यभिचक्षते ॥
तं तथा विस्फुरद्वह्निं वायुर्जरयते महान् ।
महता बलवेगेन आदत्ते तं हि भानुमान् ॥
वायोरपि गुणं स्पर्शमाकाशं ग्रसते यदा ।
प्रशाम्यति तदा वायुः खं तु तिष्ठति नानदत् ॥
तस्य तं निनदं शब्दमादत्ते वै मनस्तदा ।
स शब्दगुणहीनात्मा तिष्ठते मूर्तिमांस्तु वै ॥
भुङ्क्ते च स तदा व्योम मनस्तात दिगात्मकम् ।
व्योमात्मनि विनष्टे तु सङ्कल्पात्मा विवर्धते ॥
सङ्कल्पात्मानमादत्ते चित्तं वै स्वेन तेजसा ।
चित्तं ग्रसत्यहङ्कारस्तदा वै मुनिसत्तम ॥
विनष्टे च तदा चित्ते अहङ्कारोऽभवन्महान् ।
अहङ्कारं तदादत्ते महान्ब्रह्मा प्रजापतिः ॥
अभिमाने विनष्टे तु महान्ब्रह्मा विराजते ।
तं तदा त्रिषु लोकेषु मूर्तिष्वेवाग्रमूर्तिजम् ॥
येन विश्वमिदं कृत्स्नं निर्मितं वै गुणार्थिना । मूर्तं जलेचरमपि व्यवसायगुणात्मकम् ।
ग्रसिष्णुर्भगवान्ब्रह्मा व्यक्ताव्यक्तमसंशयम् ॥
एषोऽव्ययस्य प्रलयो मया ते परिकीर्तितः ।
अध्यात्ममधिभूतं च अधिदैवं च श्रूयताम् ॥
आकाशं प्रथमं भूतं श्रोत्रमध्यात्मं शब्दोधिभूतं दिशोधिदैवतं ॥
वायुर्द्वितीयं भूतं त्वगध्यात्मं स्पर्शोधिभूतं विद्युदधिदैवतं स्यात् ॥
ज्योतिस्तृतीयं भूतं चक्षुरध्यात्मं रूपमधिभूतं सूर्योधिदैवतं स्यात् ॥
आपश्चतुर्थं भूतं जिह्वाध्यात्मं रसोधिभूतं वरुणोधिदैवतं स्यात् ॥
पृथिवी पञ्चमं भूतं ध्राणमध्यात्मं गन्धोधिभूतं वायुरधिदैवतं स्यात् ॥
पाञ्चभौतिकमेतच्चतुष्टयं वर्णितम् । अत ऊर्ध्वमिन्द्रियमनुवर्णयिष्यामः ॥
पादावध्यात्मं गन्तव्यमधिभूतं विष्णुरधिदैवतं स्यात् ॥
हस्तावध्यात्मं कर्तव्यमधिभूतमिन्द्रोऽधिदैवतं स्यात् ॥
पायुरध्यात्मं विसर्गोऽधिभूतं मित्रोऽधिदैवतं स्यात् ॥
उपस्थोऽध्यात्ममानन्दोऽधिभूतं प्रजापतिरवधिदैवतं स्यात् ।
वागध्यात्मं वक्तव्यमधिभूतमग्निरधिदैवतं स्यात् ॥
मनोऽध्यात्मं मन्तव्यमधिभूतं चन्द्रमा अधिदैवतं स्यात् ॥
अहङ्कारोऽध्यात्ममभिमानोऽधिभूतं विरिञ्चोऽधिदैवतं स्यात् ।
बुद्धिरध्यात्मं व्यवसायोऽधिभूतं ब्रह्माधिदैवतं स्यात् ॥
एवमव्यक्तो भगवान्सकृत्कृत्स्नान्कुरुते सम्हरते च । कस्मात्क्रीडार्थम् ॥
यथाऽऽदित्योंऽशुजालं क्षिपति सम्हरते च एवमव्यक्तो गुणान्सृजति सम्हरते च ॥
यथाऽर्णवादूर्मिमालानिच यश्चोर्ध्वमुत्तिष्ठते सम्हरते च । यथा चान्तरिक्षादभ्रमाकाशमुत्तिष्ठति स्तनितगर्जितोन्मिश्रं तद्वत्तत्रैव प्राणशत् ।
एवमव्यक्तो गुणान्सृजति सम्हरति च ॥
यथा कूर्मोऽङ्गानि कामात्प्रसारयते पुनश्च प्रवेशयति एवमव्यक्तो भगवान्लोकान्प्रकाशयति प्रवेशयते च ॥
एवं चेतनश्च भगवान्पञ्चविंशः शुचिस्तेनाधिष्ठिता प्रकृतिश्चेतयति नित्यं सहधर्मा च । भगवतोऽव्यक्तस्य क्रियावतोक्रियावतश्च प्रकृतिः क्रियावानजरामरः क्षेत्रज्ञो नारायणाख्यः पुरुषः ॥
भीष्म उवाच ।
इत्येतन्नारदायोक्तं कुमारेण च धीमता । एतच्छ्रुत्वा द्विजो राजन्सर्वयज्ञफलं लभेत् ॥' ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनचत्वारिंशोऽध्यायः ॥ 39 ॥

श्रीः