अध्यायः 048

अथानुगीतापर्व-2

ब्रह्मणा महर्षीन्प्रति योगिनां चातुर्विध्यादिकथनपूर्वकं मुमुक्षुवेद्यनानार्थकथनम् ॥ 1 ॥

ब्रह्मोवाच ।

केचिद्ब्रह्ममयं वृक्षं केचिद्ब्रह्ममयं वनम् । केचित्परममव्यक्तं केचित्परमनामयम् ।
मन्यन्ते सर्वमप्येतदव्यक्तप्रभवाव्ययम् ॥
उच्छ्वासमात्रमपि चेद्योऽन्तकाले समो भवेत् ।
आत्मानमुपसङ्म्य सोमृतत्वाय कल्पते ॥
निमेषमात्रमपि चेत्संयम्यात्मानमात्मनि ।
गच्छत्यात्मप्रसादेन विदुषां प्राप्तिमव्ययाम् ॥
प्राणायामैरथ प्राणान्संयम्य स पुनःपुनः ।
दशद्वादशभिर्वापि चतुर्विंशात्समन्ततः ॥
एवं पूर्वं प्रसन्नात्मा लभते यद्यदिच्छति ।
अव्यक्तात्सत्वमुद्रिक्तममृतत्वाय कल्पते ॥
सत्वात्परतरं नान्यत्प्रशंसन्तीह तद्विदः । अनुमानाद्विजानीमः पुरुषं सत्वसंश्रयम् ।
न शक्यमन्यथा गन्तुं पुरुषं द्विजसत्तमाः ॥
क्षमा धृतिरहिंसा च समता सत्यमार्जवम् ।
ज्ञानं त्यागोथ संन्यासः सात्विकं वृत्तमिष्यते ॥
एतेनैवानुमानेन मन्यन्ते वै मनीषिणः ।
सत्वं च पुरुषश्चैव तत्र नास्ति विचारणा ॥
आहुरेके च विद्वांसो ये ज्ञाने सुप्रतिष्ठिताः ।
क्षेत्रज्ञसत्वयोरैक्यमित्येतन्नोपपद्यते ॥
पृथग्भूतस्तथा नित्यमित्येतदविचारितम् ।
पृथग्भावश्च विज्ञेयः सहजश्चापि तत्त्वतः ॥
तथैवैकत्वनानात्वमिष्यते विदुषां नयः ।
मशकोदुम्बरे चैक्यं पृथक्त्वमपि दृश्यते ॥
मत्स्यो यथाऽन्यः स्यादप्सु सम्प्रयोगस्तथा तयोः ।
सम्बन्धस्तोयबिन्दूनां पर्णैः कोकनदस्य च ॥
गुरुरुवाच ।
इत्युक्तवन्तस्ते विप्रास्तदा लोकपितामहम् ।
पुनः संशयमापन्नाः पप्रच्छुर्मुनिसत्तमाः ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अष्टचत्वारिंशोऽध्यायः ॥ 48 ॥

7-48-2 भोक्तुः कालेन वै भवेदिति ट.पाठः ॥ 7-48-13 उक्तं विद्यते येषु ते उक्तवन्तः उक्तमर्थं सम्यगवधृतवन्त इत्यर्थः ॥

श्रीः