अध्यायः 049

अथानुगीतापर्व-2

महर्षिभिर्ब्रह्मणंप्रति धर्मविषये नानाविधवादिविप्रतिपत्तिप्रदर्शनपूर्वकं तत्प्रयुक्तस्वीयसंशयनिवर्तनप्रार्थना ॥ 1 ॥

ऋषय ऊचुः ।

को वा स्विदिह धर्माणामनुष्ठेयतमो मतः ।
व्याहतामिव पश्यामो धर्मस्य विविधां गतिम् ॥
ऊर्द्ध्वं देहाद्वदन्त्येके नैतदस्तीति चापरे ।
केचित्संशयितं सर्वं निःसंशयमथापरे ॥
अनित्यं नित्यमित्येके नास्त्यस्तीत्यपि चापरे ।
त्रिधेत्येके द्विधेत्येके व्याकीर्णमिति चापरे ॥
मन्यन्ते ब्राह्मणा एव ब्रह्मज्ञास्तत्त्वदर्शिनः ।
एकमेके पृथक्चान्ये बहुत्वमिति चापरे ॥
देशकालावुभौ केचिन्नैतदस्तीति चापरे ।
जटाजिनधराश्चान्ये मुण्डाः केचिदसंवृताः ॥
अश्नानं केचिदिच्छन्ति स्नानमप्यपरे जनाः ।
मन्यन्ते ब्राह्मणा देवा ब्रह्मज्ञास्तत्त्वदर्शिनः ॥
आहारं केचिदिच्छन्ति केचिच्चानशने रताः ।
कर्म केचित्प्रशंसन्ति प्रशान्ति चापरे जनाः ॥
केचिन्मोक्षं प्रशंसन्ति केचिद्भोगान्पृथग्विधान् । धनानि केचिदिच्छन्ति निर्धनत्वमथापरे ।
उपास्य साधनं त्वेके नैतदस्तीति चापरे ॥
अहिंसानिरताश्चान्ये केचिद्धिंसापरायणाः ।
पुण्येन यशसा चान्ये नैतदस्तीति चापरे ॥
सद्भावनिरताश्चान्ये केचित्संशयिते स्थिताः ।
दुःखादन्ये सुखादन्ये ध्यानमित्यपरे जनाः ॥
यज्ञ इत्यपरे विप्राः प्रदानमिति चापरे ।
तपस्त्वन्ये प्रशंसन्ति स्वाध्यायमपरे जनाः ॥
ज्ञानं संन्यासमित्येके स्वभावं भूतचिन्तकाः ।
सर्वमेके प्रशंसन्ति न सर्वमिति चापरे ॥
एवं व्युत्थापिते धर्मे बहुधा विप्रबोधिते ।
निश्चयं नाधिगच्छामः श्रेयः किमिति सत्तम ॥
इदं श्रेय इदं श्रेय इत्येवं व्युस्थितो जनः ।
यो हि यस्मिन्रतो धर्म स तं पूजयते सदा ॥
तेन नोऽविहिता प्रज्ञा मनश्च बहुलीकृतम् ।
एतदाख्यातमिच्छामः श्रेयः किमिति सत्तम ॥
अतः परं तु यद्गुह्यं तद्भवान्वक्तुमर्हति ।
सत्वक्षेत्रज्ञयोश्चापि सम्बन्धः केन हेतुना ॥
एवमुक्तः स तैर्विप्रैर्भगवाँल्लोकभावनः ।
तेभ्यः शशंस धर्मात्मा याथातथ्येन बुद्धिमान् ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकोनपञ्चशोऽध्यायः ॥ 49 ॥

7-49-1 न कर्मणेति कुर्वन्नेवेह कर्माणीत्युभयविधश्रुतिदर्शनान्मुह्यामहे इति भावः ॥ 7-49-2 ऊर्ध्वं देहात् देहनाशादूर्ध्वमपि आत्मास्तीत्येके वदन्तीति सम्बन्धः । नैतदिति लोकायताः । सर्वं संशयितमिति स्याद्वादिनः सप्तभङ्गीनयज्ञाः । निःसंशयमिति प्रातिस्विकं सर्वं तैर्तिकाः ॥ 7-49-3 अनित्यं सर्वं सृष्टिप्रलययुक्तमिति तार्किकादयः । नित्यं प्रवाहनित्यमिति मीमांसकाः । नास्तीति शून्यवादिनः । अस्ति परंतु क्षणिकमिति सौगताः ॥ 7-49-6 अस्नानं नैष्ठिकब्रह्मचर्यम् । स्नानं गार्हस्थ्यम् ॥ 7-49-8 साधनं ध्यानादिकमुपास्य कृत्वापि नैतदस्तीति पश्चात्सर्वमपवदन्ति ॥ 7-49-9 पुण्येन पुण्यार्थमेव यतेतेत्यन्ये । एतत्पुण्यं नास्त्येवेत्यन्ये लोकायताः ॥ 7-49-10 संशयिते कृतमस्ति नवेति संदिग्धे पथि । दुःखात् दुःखनिवृत्त्यर्थं सुखात्सुखप्राप्त्यर्थं ध्यानं कर्तव्यम् । निष्काममेवेत्यपरे ॥ 7-49-11 सत्यमेके प्रशंसन्ति असत्यमिति चापरे इति थ.पाठः ॥ 7-49-12 ज्ञानं संन्यासं संन्यासैकप्राप्यम् । भूतचिन्तकाः वस्तुतत्त्वविचारकाः । स्वभावं साधनपौष्कल्यम् । साधनपौष्कल्यस्वाभाव्यादेव ज्ञानमुत्पद्यते आश्रमान्तरेपि न संन्यासमात्रेणेत्याहुः ॥ 7-49-15 अविहिता अशिक्षिता । आख्यातं त्वयेति शेषः ॥

श्रीः