अध्यायः 052

अनुगीतोपदेशानन्तरं कृष्णार्जुनाभ्यां हास्तिनपुरंप्रति प्रस्थानम् ॥ 1 ॥ तत्र मध्येमार्गमर्जुनेन कृष्णंप्रति स्तुतिपूर्वकं व्यासनारदादिभ्यः स्वस्य कृष्णयाथात्म्यावगतिनिवेदनम् ॥ 2 ॥ ततः कृष्णेन सहार्जुनेन हास्तिनपुरमेत्य धृतराष्ट्रादिभ्यः पादाभिवादनम् ॥ 3 ॥ ततो युधिष्ठिराद्यनुमत्या सुभद्रामानीय सहसात्यकिना द्वारकांप्रति प्रस्थानम् ॥ 4 ॥

वैशम्पायन उवाच ।

ततोऽभ्यनोदयत्कृष्णो युज्यतामिति दारुकम् ।
मुहूर्तादिव चाचष्ट युक्तमित्येव दारुकः ॥
तथैव चानुयात्राणि चोदयामास पाण्डवः ।
सन्नह्यध्वं प्रयास्यामो नगर गजसाह्वयम् ॥
इत्युक्ताः सैनिकास्ते तु सज्जीभूता विशाम्पते ।
आचख्युः सज्जमित्येवं पार्थायामिततेजसे ॥
ततस्तौ रथमास्थाय प्रयातौ कृष्णपाण्डवौ ।
विकुर्वाणौ कताश्चित्राः प्रीयमाणौ विशाम्पते ॥
रथस्थं तु महातेजा वासुदेवं धनञ्जयः ।
पुनरेवाब्रवीद्वाक्यमिदं भरतसत्तम ॥
त्वत्प्रसादाज्ज्यः प्राप्तो राज्ञा वृष्णिकुलोद्वह ।
निहताः शत्रवश्चापि प्राप्तं राज्यमकण्टकम् ॥
नाथवन्तश्च भवता पाण्डवा मधुसूदन । भवन्तं प्लवमासाद्य तीर्णाः स्म कुरुसागरम् ।
`भक्तांस्त्वमाश्रितानस्मान्पालयामुत्र चेह च ।'
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वसत्तम ।
तथा त्वामभिजानामि तथा चाहं भवान्मतः ॥
त्वत्तेजःसम्भवो नित्यं हुताशो मधुसूदन ।
रतिः क्रीडामयी तुभ्यं माया ते रोदसी विभो ॥
त्वयि सर्वमिदं विश्वं यदिदं स्थाणु जङ्गमम् ।
त्वं हि सर्वं विकुरुषे भूतग्रामं चतुर्विधम् ॥
पृथिवीं चान्तरिक्षं च तथा स्थावरजङ्गमम् ।
हसिंतं तेऽमला ज्योत्स्ना ऋतवश्चेन्द्रियाणि ते ॥
प्राणो वायुः सततगः क्रोधो मृत्युः सनातनः ।
प्रसादे चापि पद्मा श्रीर्नित्यं त्वयि महामते ॥
रतिस्तुष्टिर्धृतिः क्षान्तिर्मतिः कान्तिश्चराचरम् ।
त्वमेवेह युगान्तेषु निधनं प्रोच्यसेऽनध ॥
सुदीर्घेणापि कालेन न ते शक्या गुणा मया ।
आत्मा च परमो वक्तुं नमस्ते नलिनेक्षण ॥
विदितो मे सुदुर्धर्ष नारदाद्देवलात्तथा ।
कृष्णद्वैपायनाच्चेव तथा कुरुपितामहात् ॥
त्वयि सर्वं समासक्तं त्वमेवैको जनेश्वरः ।
यच्चानुग्रहसंयुक्तमेतदुक्तं त्वयाऽनघ ॥
एतत्सर्वमहं सम्यगाचरिष्ये जनार्दन ।
इदं चाद्भुतमत्यन्तं कृतमस्मत्प्रियेप्सया ॥
यत्पापो निहतः सङ्ख्ये कौरव्यो धृतराष्ट्रजः ।
त्वया दग्धं हि तत्सैन्यं मया विजितमाहवे ॥
भवता तत्कृतं कर्म येनावाप्तो जयो मया ।
दुर्योधनस्य सङ्ग्रामे तव बुद्धिपराक्रमैः ॥
कर्णस्य च वधोपायो यथावत्सम्प्रदर्शितः ।
सैन्धवस्य च पापस्य भूरिश्रवस एव च ॥
`तस्मात्त्वमेव सञ्चिन्त्य हितं कुरु यथा तथा ।' अहं च प्रीयमाणेन त्वया देवकिनन्दन ।
यदुक्तस्तत्करिष्यामि न हि मेऽत्र विचारणा ॥
राजानं च समासाद्य धर्मात्मानं युधिष्ठिरम् ।
चोदयिष्यामि धर्मज्ञ गमनार्थं तवानघ ॥
आहृतं हि ममैतत्ते द्वारकागमनं प्रभो । अचिरादेव द्रष्टा त्वं मातुलं मे जनार्दन ।
बलदेवं च दुर्धर्षं तथाऽन्यान्वृष्णिपुङ्गवान् ॥
एवं सम्भाषमाणौ तौ प्राप्तौ वारणसाह्वयम् ।
तथा विविशतुश्चोभौ सम्प्रहृष्टनराकुलम् ॥
तौ गत्वा धृतराष्ट्रस्य गृहं शक्रगृहोपमम् ।
ददृशाते महाराज धृतराष्ट्रं जनेश्वरम् ॥
विदुरं च महाबुद्धिं राजानं च युधिष्ठिरम् ।
भीमसेनं च दुर्धर्षं माद्रीपुत्रौ च पाण्डवौ ॥
धृतराष्ट्रमुपासीनं युयुत्सुं चापराजितम् ।
गान्धारीं च महाप्रज्ञां पृथा कृष्णां च भामिनीम् ॥
सुभद्राद्याश्च ताः सर्वा भरतानां स्त्रियस्तथा ।
ददृशाते स्त्रियः सर्वा गान्धारीपरिचारिकाः ॥
ततः समेत्य राजानं धृतराष्ट्रमरिंदमौ ।
निवेद्य नामधेये स्वे तस्य पादावगृह्णताम् ॥
गान्धार्याश्च पृथायाश्च धर्मराजस्य चैव हि ।
भीमस्य च महात्मानौ तथा पादावगृह्णताम् ॥
क्षत्तारं चापि सङ्गृह्य पृष्ट्वा कुशलमव्ययम् । `परिष्वज्य महात्मानं वेश्यापुत्रं महारथम् ।'
तैः सार्धं नृपतिं वृद्धं ततस्तौ पर्युपासताम् ॥
ततो निशि महाराजो धृतराष्ट्रः कुरूद्वहान् ।
जनार्दनं च मेधावी व्यसर्जयत वै गृहान् ॥
तेऽनुज्ञाता नृपतिना ययुः स्वं स्वं निवेशनम् ।
धनंजयगृहानेव ययौ कृष्णस्तु वीर्यवान् ॥
तत्रार्चितो यथान्यायं सर्वकामैरुपस्थितः ।
कृष्णः सुष्वाप मेधावी धनंजयसहायवान् ॥
प्रभातायां तु शर्वर्यां कृत्वा पौर्वाह्णिकीं क्रियाम् । धर्मराजस्य भनं जग्मतुः परमार्चितौ ।
यत्रास्ते स सहामात्यो धर्मराजो महाबलः ॥
तौ प्रविश्य महात्मानौ तद्गृहं परमार्चितम् ।
धर्मराजं ददृशतुर्देवराजमिवाश्विनौ ॥
समासाद्य तु राजानं वार्ष्णेयकुरुपुङ्गवौ ।
निषीदतुरनुज्ञातौ प्रीयमाणेन तेन तौ ॥
ततः स राजा मेधावी विवक्षू प्रेक्ष्य तावुभौ ।
प्रोवाच वदतां श्रेष्ठो वचनं राजसत्तमः ॥
विवक्षू हि युवां मन्ये वीरौ यदुकुरूद्वहौ ।
ब्रूतं कर्तास्मि सर्वं वां नचिरान्मा विचार्यताम् ॥
इत्युक्तः फल्गुनस्तत्र धर्मराजानमब्रवीत् ।
विनीतवदुपागम्य वाक्यं वाक्यविशारदः ॥
अयं चिरोषितो राजन्वासुदेवः प्रतापवान् ।
भवन्तं समनुज्ञाप्य पितरं द्रष्टुमिच्छति ॥
स गच्छेदभ्यनुज्ञातो भवता यदि मन्यसे ।
आनर्तनगरीं वीरस्तदनुज्ञातुमर्हसि ॥
युधिष्ठिर उवाच ।
पुण्डरीकाक्ष भद्रं ते गच्छ त्वं मदुसूदन ।
पुरीं द्वारवतीमद्य द्रष्टुं शूरसुतं प्रभो ॥
रोचते मे महाबाहो गमनं तव केशव ।
मातुलश्चिरदृष्टो मे त्वया देवी च देवकी ॥
समेत्यि मातुलं गत्वा बलदेवं च मानद ।
पूजयेथा महाप्राज्ञ मद्वाक्येन यथाऽर्हतः ॥
स्मरेथाश्चापि मां नित्यं भीमं च बलिनां वरम् ।
फाल्गुनं सहदेवं च नकुलं चैव मानद ॥
आनर्तानवलोक्य त्वं पितरं च महाभुजः ।
वृष्णींश्च पुनरागच्छेर्हयमेधे ममानघ ॥
स गच्छ रत्नान्यादाय विविधानि वसूनि च ।
यच्चप्यन्यन्मनोज्ञं ते तदप्यादत्स्व सात्वत ॥
इयं च वसुधा कृत्स्ना प्रसादात्तव केशव ।
अस्मानुपागता वीर निहताश्चापि शत्रवः ॥
स्वर्गापवर्गविषयं त्वद्भक्तानां न दुर्लभम् । संसारगहने चेद्धपापाग्निप्रशमाम्बुद ॥'
एवं ब्रुवति कौरव्ये धर्मराजे युधिष्ठिरे ।
वासुदेवो वरः पुंसामिदं वचनमब्रवीत् ॥
तवैव रत्नानि धनं च केवलं धरा तु कृत्स्ना तु महाभुजाद्य वै ।
यदस्ति चान्यद्द्रविणं गृहे मम त्वमेव तस्येश्वर नित्यमीश्वरः ॥
तथेत्यथोक्तः प्रतिपूजितस्तदा गदाग्रजो धर्मसुतेन वीर्यवान् ।
पितृष्वसारं त्ववदद्यथाविधि सम्पूजितश्चाप्यगमत्प्रदक्षिणम् ॥
तया स सम्यक् प्रतिनन्दितस्तत- स्तथैव सर्वैर्विदुरादिभिस्तथा ।
विनिर्ययौ नागपुराद्गदाग्रजो रथेन दिव्येन चतुर्भुजः स्वयम् ॥
रथे सुभद्रामधिरोप्य भामिनीं युधिष्ठिरस्यानुमते जनार्दनः ।
पितृष्वसुश्चापि तथा महाभुजो विनिर्ययौ पौरजनाभिसंवृतः ॥
तमन्वयाद्वानरवर्यकेतनः ससात्यकिर्माद्रवतीसुतावपि ।
अगाधबुद्धिर्विदुरश्च माधवं स्वयं च भीमो गजराजविक्रमः ॥
निवर्तयित्वा कुरुराष्ट्रवर्धनां- स्ततः स सर्वान्विदुरं च वीर्यवान् ।
जनार्दनो दारुकमाह सत्वरः प्रचोदयाश्वानिति सात्यकिं तथा ॥
ततो ययौ शत्रुगणप्रमर्दनः शिनिप्रवीरानुगतो जनार्दनः ।
यथा निहत्यारिगणं शतकतु- र्दिवं तथाऽऽनर्तपुरीं प्रतापवान् ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि द्विपञ्चसोऽध्यायः ॥ 52 ॥

श्रीः