अध्यायः 056

अश्वमेधपर्व ॥ 1 ॥

वैशंपायनेन जनमेजयंप्रत्युदङ्कोपाख्यानकथनारम्भः ॥ 1 ॥ उदङ्ककृतपरिचर्याविशेषतुष्टेन गौतमेन तस्मै प्रीत्यतिशयेन चिरादपि गृहगमनायाभ्यननुज्ञानम् ॥ 2 ॥ कदाचन गुरुशासनेन काष्ठमारमाहृतवतोदङ्केन काष्ठलग्नजरापलितनिजकेशावलोकनेन परिदेवनम् ॥ 3 ॥ ततस्तदबोधितनिजरोदनहेतुना गुरुणा तस्मै निजतनयाप्रतिपादनम् ॥ 4 ॥ ततस्तेन गुरुपत्नीनिदेशेन कुण्डलयाचनाय सौदासंप्रति गमनम् ॥ 5 ॥

जनमेजय उवाच ।

उदङ्कः केन तपसा संयुक्तो वै महामनाः ।
यः शापं दातुकामोऽभूद्विष्णवे प्रभविष्ववे ॥
वैशम्पायन उवाच ।
उदङ्को महता युक्तस्तपसा जनमेजय ।
गुरभक्तः स तेजस्वी नान्यत्किञ्चिदपूजयत् ॥
सर्वेषामृषिपुत्राणामेष आसीन्मनोरथः ।
औदङ्कीं गुरुवृत्तिं वै प्राप्नुयामेति भारत ॥
गौतमस्य तु शिष्याणां बहूनां जनमेजय ।
उदङ्केऽभ्यधिका प्रीतिः स्नेहश्चैवाभवत्तदा ॥
स तस्य दमशौचाभ्यां विक्रान्तेन च कर्मणा ।
सम्यक्चैवोपचारेण गौतमः प्रीतिमानभूत् ॥
अथ शिष्यसहस्राणि समनुज्ञाय गौतमः ।
उदङ्कं परया प्रीत्या नाभ्यनुज्ञातुमैच्छत ॥
तं क्रमेण जरा तात प्रतिपेदे महामुनिम् ।
न चान्वबुध्यत तदा स मुनिर्गुरुवत्सलः ॥
ततः कदाचिद्राजेन्द्र काष्ठान्यानयितुं ययौ ।
उदङ्कः काष्ठभारं च महान्तं समुपानयत् ॥
स तद्भाराभिभूतात्मा काष्ठभारमरिंदम ।
निचिक्षेप क्षितौ राजन्परिश्रान्तो बुभुक्षितः ॥
तस्य काष्ठे विलग्नाऽभूज्जटा रूप्यसमप्रभा ।
ततः काष्ठैः सह तदा पपात धरणीतलम् ॥
ततः स भारनिष्पिष्टः क्षुधाविष्टश्च भारत ।
दृष्ट्वा तां वयसोऽवस्थां रुरोदार्तस्वरं तदा ॥
ततो गुरुसुता तस्य पद्मपत्रनिभानना । जग्राहाश्रूणि सुश्रोणी करेण पृथुलोचना ।
पितुर्नियोगाद्भावज्ञा शिरसाऽवनता तदा ॥
तस्या निपेततुर्दग्धौ करौ तैरश्रुबिन्दुभिः । न हि तानश्रुपातांस्तु शक्ता धारयितुं मही ।
गौतमस्त्वब्रवीद्विप्रमुदङ्कं प्रीतमानसः ॥
कस्मात्तात तवाद्येह शोकोत्तरमिदं मनः ।
स स्वैरं ब्रूहि विप्रर्षे श्रोतुमिच्छामि तत्त्वतः ॥
उदङ्क उवाच ।
भवद्गतेन मनसा भवत्प्रियचिकीर्षया ।
भवद्भक्तिगतेनेह भवद्भावानुगेन च ॥
जरेयं नाघबुद्धा मे नाभिज्ञातं सुखं च मे ।
शतवर्षोषितं मां हि न त्वमन्यनुजानिथाः ॥
भवता त्वभ्यनुज्ञाताः शिष्याः प्रत्यवरा मम ।
उपपन्ना द्विजश्रेष्ठ शतशोऽथ सहस्रशः ॥
गौतम उवाच ।
त्वत्प्रीतियुक्तेन मया गुरुशुश्रूषया तव ।
व्यतिक्रामन्महाकालो नावबुद्धो द्विजर्षभ ॥
किं त्वद्य यदि ते श्रद्धा गमनं प्रति भार्गव ।
अनुज्ञां प्रतिगृह्य त्वं स्वगृहान्गच्छ माचिरम् ॥
उदङ्क उवाच ।
गुर्वर्तं कं प्रयच्छामि ब्रूहि त्वं द्विजसत्तम ।
तमुपाहृत्य गच्छेयमनुज्ञातस्त्वया विभो ॥
गौतम उवाच ।
दक्षिणापरितोषो वै गुरूणां सद्भिरुच्यते । तवि ह्याचरतो धर्मं तुष्टोऽहं वै न संशयः ।
इत्थं च परितुष्टं मां विजानीहि भृगूद्वह ॥
युवा षोडशवर्षो हि यद्यद्य भविता भवान् । ददानि पत्नीं कन्यां च स्वां ते दुहितरं द्विज ।
एतामृतेऽङ्गना नान्या त्वत्तेजोऽर्हति सेवितुम् ॥
ततस्तां प्रतिजग्राह युवा भूत्वा यशस्विनीम् ।
गुरुणा चाभ्यनुज्ञातो गुरुपत्नीमथाब्रवीत् ॥
किं भवत्यै प्रयच्छामि गुर्वर्थं विनियुङ्क्ष माम् ।
प्रियं हितं च काङ्क्षामि प्राणैरपि धनैरपि ॥
यद्दुर्लभं हि लोकेऽस्मिन्रत्नमत्यद्भुतं महत् ।
तदानयेयं तपसा न हि मेऽत्रास्ति संशयः ॥
अहल्योवाच ।
परितुष्टाऽस्मि ते विप्र नित्यं भक्त्या तवानघ ।
पर्याप्तमेतद्भद्रं ते गच्छ तात यथेप्सितम् ॥
वैशम्पायन उवाच ।
उदङ्कस्तु महाराज पुनरेवाब्रवीद्वचः ।
आज्ञापयस्व मां मातः कर्तव्यं च तव प्रियम् ॥
अहल्योवाच ।
सौदासपत्न्या विधृते दिव्ये ये मणिकुण्डले ।
ते समानय भद्रं ते गुर्वर्थः सुकृतो भवेत् ॥
वैशम्पायन उवाच ।
स तथेति प्रतिश्रुत्य जगाम जनमेजय ।
गुरुपत्नीप्रियार्थं वै ते समानयितुं तदा ॥
स जगाम ततः शीघ्रमुदङ्को ब्राह्मणर्षभः ।
सौदासं पुरुषादं वै भिक्षितुं मणिकुण्डले ॥
गौतमस्त्वब्रवीत्पत्नीमुदङ्को नात्र दृश्यते ।
इति पृष्टा तमाचष्ट कुण्डलार्थे गतं च सा ॥
ततः प्रोवाच पत्नीं स न ते सम्यगिदं कृतम् ।
शप्तः स पार्थिवो नूनं ब्राह्मणं तं वधिष्यति ॥
अहल्योवाच ।
अजानन्त्या नियुक्तः स भगवन्ब्राह्मणो मया ।
भवत्प्रसादान्न भयं किञ्चित्तस्य भविष्यति ॥
इत्युक्तः प्राह तां पत्नीमेवमस्त्विति गौतमः ।
उदङ्कोऽपि वने शून्ये राजानं तं ददर्श ह ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि षट्पञ्चाशोऽध्यायः ॥ 56 ॥

7-56-11 निष्पिष्टः चूर्णीभूत इव । कवेरार्तस्य धीमत इति क.ट.थ.पाठः ॥ 7-56-16 अभ्यनुजानिथाः अभ्यन्वजानीथा अभ्यनुज्ञातवानसि ॥ 7-56-26 नित्यं भगवता सहेति क.थ.पाठः ॥

श्रीः