अध्यायः 057

शापाद्राक्षसत्वं गतेन सौदासेनोदङ्कभक्षणोद्यमे उदङ्केन पुनः प्रत्यागमनप्रतिज्ञापूर्वकं तम्प्रति कुण्डलयाचनम् ॥ 1 ॥ उदङ्केन सौदासवचसा तत्पत्नींप्रति कुण्डलयाचने तया तम्प्रति मणिकुण्डलमहिमादिकथनपूर्वकं राजाभिज्ञानानयनचोदना ॥ 2 ॥

वैशम्पायन उवाच ।

स तं दृष्ट्वा तथाभूतं राजानं घोरदर्शनम् ।
दीर्घश्मश्रुधरं नॄणां शोणितेन समुक्षितम् ॥
चकार न व्यथां विप्रो राजा त्वेनमथाब्रवीत् ।
प्रत्युत्थाय महातेजा भयकर्ता यमोपमः ॥
दिष्ट्या त्वमसि कल्याण षष्ठे काले ममान्तिकम् ।
भक्ष्यं मृगयमाणस्य सम्प्राप्तो द्विजसत्तम ॥
उदङ्ग उवाच ।
राजन्गुर्वर्थिनं विद्धि चरन्तं मामिहागतम् ।
न च गुर्वर्थमुद्युक्तं हिंस्यमाहुर्मनीषिणः ॥
राजोवाच ।
षष्ठे काले ममाहारो विहितो द्विजसत्तम ।
न शक्यस्त्वं समुत्स्रष्टुं क्षुधितेन मयाऽद्य वै ॥
उदङ्क उवाच ।
एवमस्तु महाराजि समयः क्रियतां तु मे ।
गुर्वर्थमभिनिर्वर्त्य पुनरेष्यामि ते वशम् ॥
संश्रुतश्च मया योऽर्थो गुरवे राजसत्तम ।
त्वदधीनः स राजेन्द्र तं त्वां भिक्षे नरेश्वर ॥
ददासि विप्रमुख्येभ्यस्त्वं हि रत्नानि नित्यदा । दाता च त्वं नरव्याघ्र पात्रभूतः क्षिताविह ।
पात्रं प्रतिग्रहे चापि विद्धि मां नृपसत्तम ॥
उपाहृत्य गुरोरर्थं त्वदायत्तमरिंदम ।
समयेनेह राजेन्द्र पुनरेष्यामि ते वशम् ॥
सत्यं ते प्रतिजानामि नात्र मिथ्या कथञ्चन ।
अनृतं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा ॥
सौदास उवाच ।
यदि मत्तस्तवायत्तो गुर्वर्थः कृत एव सः ।
यदि चास्ति प्रतिग्राह्यं साम्प्रतं तद्वदस्व मे ॥
उदङ्क उवाच ।
प्रतिग्राह्यो मतो मे त्वं सदैव पुरुषर्षभ ।
सोहं त्वामनुसम्प्राप्तो भिक्षितुं मणिकुण्डले ॥
सौदास उवाच ।
पत्न्यास्ते मम विप्रर्षे उचिते मणिकुण्डले ।
वरयार्थं त्वमन्यं वै तं ते दास्यामि सुव्रत ॥
उदङ्ग उवाच ।
अलं ते व्यपदेशेन प्रमाणं यदि ते वयम् ।
प्रयच्छ कुण्डले मह्यं सत्यवाग्भव पार्थिव ॥
वैशम्पायन उवाच ।
इत्युक्तस्त्वब्रवीद्राजा तमुदङ्कं पुनर्वचः ।
गच्छ मद्वचनाद्देवीं ब्रूहि देहीति सत्तम ॥
सैवमुक्ता त्वया नूनं मद्वाक्येन शुचिव्रता ।
प्रदास्यति द्विजश्रेष्ठ कुण्डले ते न संशयः ॥
उदङ्क उवाच ।
क्व पत्नी भवतः शक्या मया द्रष्टुं नरेश्वर ।
स्वयं वाऽपि भवान्पत्नीं किमर्थं नोपसर्पति ॥
सौदास उवाच ।
तां द्रक्ष्यति भवानद्य कास्मिंश्चिद्वननिर्झरे ।
षष्ठे काले न हि मया सा शक्या द्रष्टुमद्य वै ॥
वैशम्पायन उवाच ।
उदङ्कस्तु तथोक्तः स जगाम भरतर्षभ ।
मदयन्तीं च दृष्ट्वा स ज्ञापयत्स्वप्रयोजनम् ॥
सौदासवचनं श्रुत्वा ततः सा पृथुलोचना ।
प्रत्युवाच महावुद्धिमुदङ्कं जनमेजय ॥
एवमेतन्महाब्रह्मन्नानृतं वदसेऽनघ ।
अभिज्ञानं तु किञ्चित्त्वं समानयितुमर्हसि ॥
इमे हि दिव्ये मणिकुण्डले मे देवाश्च यक्षाश्च महर्षयश्च ।
तैस्तैरुपायैरपहर्तुकामा- श्छिद्रेषु नित्यं परितर्कयन्ति ॥
निक्षिप्तमेतद्भुवि पन्नगास्तु रत्नं समासाद्य परामृशेयुः ।
यक्षास्तथोच्छिष्टधृतं सुराश्च निद्रावशाद्वा परिधर्षयेयुः ॥
छिद्रेष्वेतेष्विमे नित्यं ह्रियते द्विजसत्तम ।
देवराक्षसनागानामप्रमत्तेनि धार्यते ॥
एते दिवापि भासेते रात्रौ च द्विजसत्तम ।
नक्तं नक्षत्रताराणां प्रभामाक्षिप्य वर्ततः ॥
एते ह्यामुच्य भगन्क्षुत्पिपासाभयं कुतः ।
विषाग्निश्वापदेभ्यश्च भयं जातु न विद्यते ॥
ह्रस्वेन चैते आमुक्ते भवतो ह्रस्वके तदा ।
अनुरूपेण चामुक्ते जायेते तत्प्रमाणके ॥
एवंविधे ममैते वै कुण्डले परमार्चिते ।
त्रिषु लोकेषु विज्ञाते तदभिज्ञानमानय ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि सप्तपञ्चाशोऽध्यायः ॥ 57 ॥

7-57-24 छिद्रेष्वेतेष्विमे इति पूर्वान्वयि । नागानां नागैः ह्रियेत इति सम्बन्धः ॥

श्रीः