अध्यायः 058
उदङ्केनाभिज्ञाननिवेदनेनि मदयन्तीतः कुण्डलग्रहणपूर्वकं
प्रतिनिवर्तनम् ॥ 1 ॥ मध्येमार्गं क्षुधाविष्टेन तेन बिल्वतरुमारुह्य शाखायां
कुण्डलासञ्जनपूर्वकं फलपातनाय शाखाचालनम् ॥ 2 ॥ तत्र पतत्फलघट्टनेन
कुण्डलयोरधःपतने केनचिदुरगवरेण तदपहृत्य नागलोकगमनम् ॥ 3 ॥ तत
इन्द्रसाहाय्याद्भूविदारणेन नागलोकंगतेनोदङ्केन तत्राश्ववचसा तदपानदेशधमने
तन्निर्गतधूमपटलनिरुद्धैः सर्पैरुदङ्काय कुण्डलप्रत्यर्पणम् ॥ 4 ॥ तत उदङ्केन
गुरुपत्न्यै कुण्डलप्रदानम् ॥ 5 ॥
वैशम्पायन उवाच ।
स मित्रसहमासाद्य अभिज्ञानमयाचत ।
तस्मै ददावभिज्ञानं स चेक्ष्वाकुवरस्तदा ॥
सौदास उवाच ।
न चैवैषा गतिः क्षेम्या न चान्या विद्यते गतिः ।
एतन्मे तत्वमाज्ञाय प्रयच्छ मणिकुण्डले ॥
इत्युक्तस्तामुदङ्कस्तु भर्तुर्वाक्यमथाब्रवीत् ।
श्रुत्वा च सा तदा प्रादात्ततस्ते मणिकुण्डले ॥
अवाप्य कुण्डले ते तु राजानं पुनरब्रवीत् ।
किमेतद्गुह्यवचनं श्रोतुमिच्छामि पार्थिव ॥
सौदास उवाच ।
प्रजाविसर्गाद्विप्रान्वै क्षत्रियाः पूजयन्ति ह ।
विप्रेभ्यश्चापि बहवो दोषाः प्रादुर्भवन्ति नः ॥
सोहं द्विजेभ्यः प्रणतो विप्राद्दोषमवाप्तवान् ।
गतिमन्यां न पश्यामि मदयन्तीसहायवान् ॥
न चान्यामपि पश्यामि गतिं गतिमतांवर ।
स्वर्गद्वारस्य गमने स्थाने चेह द्विजोत्तम ॥
न हि राज्ञा विशेषेण विरुद्धेन द्विजातिभिः ।
शक्यं हि लोके स्थातुं वै प्रेत्य वा सुखमेधितुम् ॥
तदिष्टे ते मया दत्ते एते स्वे मणिकुण्डले ।
यः कृतस्तेऽद्य समयः सफलं तं कुरुष्य मे ॥
उदङ्क उवाच ।
राजंस्तथेह कर्तास्मि पुनरेष्यामि ते वशम् ।
प्रश्नं च कञ्चित्प्रष्टुं त्वां व्यवसिष्ये परंतप ॥
सौदास उवाच ।
ब्रूहि विप्र यथाकामं प्रतिवक्तास्मि ते वचः ।
छेत्तास्मि संशयं तेऽद्य न मेऽत्राश्ति विचारणा ॥
उदङ्क उवाच ।
प्राहुर्वाक्संयतं विप्रं धर्मनैपुणदर्शिनः ।
मित्रेषु यश्च विषमः स्तेन इत्येव तं विदुः ॥
स बवान्मित्रतामद्य सम्प्राप्तो मम पार्थिव ।
स मे बुद्धिं प्रयच्छस्व सम्मतां पुरुषर्षभ ॥
अवाप्तार्थोऽहमद्येह भवांश्च पुरुषादकः ।
भवत्सकाशमागन्तुं क्षमं मम न वेति वै ॥
सौदास उवाच ।
क्षमं चेदिह वक्तव्यं मया द्विजवरोत्तम ।
मत्समीपं द्विजश्रेष्ट नागन्तव्यं कथञ्चन ॥
एवं तव प्रपश्यामि श्रेयो भृगुकुलोद्वह ।
आगच्छतो हि ते विप्रि भवेन्मृर्त्युन संशयः ॥
वैशम्पायन उवाच ।
इत्युक्तः स तदा राजा क्षमं बुद्धिमता हितम् ।
अनुज्ञाप्य स राजानमहल्यां प्रति जग्मिवान् ॥
गृहीत्वा कुण्डले दिव्ये गुरुपत्न्याः प्रियंकरः ।
जवेन महता प्रायाद्गौतमस्याश्रमं प्रति ॥
यथा तयो रक्षणं च मदयन्त्याऽभिभाषितम् ।
तथा ते कुण्डले बध्वा तदा कृष्णाजिनेऽनयत् ॥
स कस्मिंश्चित्क्षुधाविष्टः फलभारसमन्वितम् ।
बिल्वं ददर्श विप्रर्षिरारुरोह च तं ततः ॥
शाखास्वासज्य तस्यैव कृष्णाजिनमरिंदम ।
पातयामास बिल्वानि तदा स द्विजपुङ्गवः ॥
अथ पातयमानस्य बिल्वापहृतचक्षुषः ।
न्यपतंस्तानि बिल्वानि तस्मिन्नेवाजिने विभो ॥
यस्मिंस्ते कुण्डले बद्धे तदा द्विजवरेण वै ।
बिल्वप्रहारैस्तस्याथ व्यशीर्यद्बन्धनं ततः ॥
सकुण्डलं तदजिनं पपात सहसा तरोः ।
विशीर्णबन्धने तस्मिन्गते कृष्णाजिने महीम् ॥
अपश्यद्भुजगः कश्चित्ते तत्र मणिकुण्डले ।
ऐरावतकुलोद्भूतः शीघ्रो भूत्वा तदा हि सः ॥
विदश्यास्येन वल्मीकं विवेशाथ स कुण्डले ।
ह्रियमाणे तु दृष्ट्वा स कुण्डले भुजगेन ह ॥
पपात वृक्षात्सोद्वेगो दुःखात्परमकोपनः ।
स दण्डकाष्ठमादाय वल्मीकमखनत्तदा ॥
[अहानि त्रिंशदव्यग्रः पञ्च चान्यानि भारत ।]
क्रोधामर्षाभिसंतप्तस्तदा ब्राह्मणिसत्तमः ॥
तस्य वेगमसह्यं तमसहन्ती वसुन्धरा ।
दण्डकाष्ठाभिनुन्नाङ्गी चचाल भृशमाकुला ।
ततः खनत एवाथ विप्रर्षेर्धरणीतलम्
नागलोकस्य पन्थानं कर्तुकामस्य निश्चयात् ॥
रथेन हरियुक्तेन तं देशमुपजग्मिवान् ।
वज्रपाणिर्महातेजास्तं ददर्श द्विजोत्तमम् ॥
वैशम्पायन उवाच ।
स तु तं ब्राह्मणो भूत्वा तस्य दुःखेन दुःखितः ।
उदङ्कमब्रवीद्वाक्यं नैतच्छक्यं त्वयेति वै ॥
इतो हि नागलोको वै योजनानि सहस्रशः ।
न दण्डकाष्ठसाध्यं च मन्ये कार्यमिदं तव ॥
उदङ्क उवाच ।
नागलोके यदि ब्रह्मन्न शक्ये कुण्डले मया ।
प्राप्तुं प्राणान्विमोक्ष्यामि पश्यतस्ते द्विजोत्तम ॥
वैशम्पायन उवाच ।
यदा स नाशकत्तस्य निश्चयं कर्तुमन्यथा ।
वज्रपाणिस्तदा दण्डं वज्रास्त्रेण युयोज ह ॥
ततो वज्रप्रहारैस्तैर्दार्यमाणा वसुन्धर ।
नागलोकस्य पन्थानमकरोज्जनमेजय ॥
स तेन मार्गेण तदा नागलोकं विवेश ह ।
ददर्श नागलोकं च योजनानि सहस्रशः ॥
प्रकारनिचयैर्दिव्यैर्मणिमुक्तास्वलङ्कृतैः ।
उपपन्नं महाभाग शातकुम्भमयैस्तथा ॥
वापीः स्फटिकसोपाना नदीस्च विमलोदकाः ।
ददर्श वृक्षांश्च बहून्नानाद्विजगणायुतान् ॥
तस्य लोकस्य च द्वारं स ददर्श भृगूद्वहः ।
पञ्चयोजनविस्तारमायतं शतयोजनम् ॥
नागलोकमुदङ्कस्तु प्रेक्ष्य दीनोऽभवत्तदा ।
निराशश्चाभवत्तत्र कुण्डलाहरणे पुनः ॥
तत्र प्रोवाच तुरगस्तं कृष्णश्वेतवालधिः ।
ताम्रास्यनेत्रः कौरव्यः प्रज्वलन्निव तेजसा ॥
धमस्वापानमेतन्मे ततस्त्वं विप्र लप्स्यसे ।
ऐरावतसुतेनेहि तव्रानीते हि कुण्डले ॥
मा जुगुप्सां कृथाः पुत्र त्वमत्रार्थे कथञ्चन ॥
त्वयैतद्धि समाचीर्णं गौतमस्याश्रमे तदा ॥
उदङ्ग उवाच ।
कथं भवन्तं जानीयामुपाध्यायाश्रमं प्रति ।
यन्मया चीर्णपूर्वं हि श्रोतुमिच्छामि तद्ध्यहम् ॥
अश्व उवाच ।
गुरोर्गुरु मां जानीहि ज्वलन्तं जातवेदसम् ।
त्वया ह्यहं सदा विप्र गुरोरर्थेऽभिपूजितः ॥
विधिवत्सततं विप्र शुचिना भृगुनन्दन ।
तस्माच्छ्रेयो विधास्यामि तवैवं कुरु माचिरम् ॥
इत्युक्तस्तु तथाऽकार्षीदुदङ्कश्चित्रभानुना ।
ताम्रार्चिः प्रीतिमांश्चापि प्रजज्वाल दिधक्षया ॥
ततोऽस्य रोमकूपेभ्यो ध्मायमानस्य भारत ।
घनः प्रादुरभूद्धूमो नागलोकभयावहः ॥
तेन धूमेन महता वर्धमानेन भारत ।
नागलोके महाराज न प्राज्ञायत किञ्चन ॥
हाहाकृतमभूत्सर्वमैरावतिनिवेशनम् ।
वासुकिप्रमुखानां च नागानां जनमेजय ॥
न प्राकाशन्त वेश्मानि धूमरुद्धानि भारत ।
नीहारसंवृतानीव वनानि गिरयस्तथा ॥
ते धूमरक्तनयना वह्नितेजोभितापिताः ।
आजग्मुर्निश्चयं ज्ञातुं भार्गवस्य महात्मनः ॥
श्रुत्वा च निश्चयं तस्य महर्षेरतितेजसः ।
सम्भ्रान्तनयनाः सर्वे पूजां चक्रुर्यथाविधि ॥
सर्वे प्राञ्जलयो नागा वृद्धबालपुरोगमाः ।
शिरोभिः प्रणिपत्योचुः प्रसीद भगवन्निति ॥
प्रसाद्य ब्राह्मणं ते तु पाद्यमर्घ्यं निवेद्य च ।
प्रायच्छन्कुण्डले दिव्ये पन्नगाः परमार्चिते ॥
ततः स पूजितो नागैस्तदोदङ्कः प्रतापवान् ।
अग्निं प्रदक्षिणं कृत्वा जगाम गुरुसद्म तत् ॥
स गत्वा त्वरितो राजन्गौतमस्य निवेशनम् ।
प्रायच्छत्कुण्डले दिव्ये गुरुपत्न्यास्तदाऽनघ ॥
वासुकिप्रमुकानां च नागानां जनमेजय ।
सर्वं शशंस गुरेव यथावद्द्विजसत्तमः ॥
एवं महात्मना तेन त्रींलोकाञ्जनमेजय ।
परिक्रम्याहृते दिव्ये ततस्ते मणिकुण्डले ॥
एवंप्रभावः स मुनिरुदङ्को भरतर्षभ ।
परेण तपसा युक्तो यन्मां त्वं परिपृच्छसि ॥ ।
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अष्टपञ्चासोऽध्यायः ॥ 58 ॥
7-58-1 मित्रसहः सौदासः अभिज्ञानं श्लोकरूपं ज्ञापकम् । 7-58-2
एषा रक्षोयोनिरूपा । अन्या इतो मुक्तिरूपा ॥ 7-58-10 ततोदंकाय वै प्रादात्तस्मै
ते मणिकुण्डले इति क.ट.थ.पाठः ॥ 7-58-12 निवृत्तिस्मि परं तपेति झ.पाठः ॥ 7-58-16 प्राप्तवान्सङ्गतिं मित्रं धर्मनैपुण्यदर्शनादिति क.ट.थ.पाठः ॥ 7-58-16
तत्रैव तु प्रवक्ष्यामि श्रेयो भृगुकुलोद्वहेति क.ट.थ.पाठः ॥ 7-58-26 आस्येन
कुण्डले विदश्य धृत्वा वल्मीकं विवेशेति सम्बन्धः ॥
श्रीः