अध्यायः 071

कृष्णादिभिः प्रत्युद्गम्यमानैर्युधिष्ठिरादिभिः स्वर्णभारपुरस्कारेण हास्तिनपुरप्रवेशः ॥ 1 ॥ ततस्तत्रोपागतेन व्यासेन युधिष्ठिरंप्रत्यश्वमेधप्रशंसनपूर्वकं तत्करणविधानम् ॥ 2 ॥ युधिष्ठिरेणाश्वमेधे स्वयं दीक्षास्वीकारं प्रार्थितेन कृष्णेन सहेतुकथनं तम्प्रत्येव दीक्षास्वीकारविधानम् ॥ 3 ॥

वैशम्पायन उवाच ।

तान्समीपगताञ्श्रुत्वा पाण्डवाञ्शत्रुकर्शनः । वासुदेवः सहामात्यः प्रययौ ससुहृद्गणः ।
ते समेत्य यथान्यायं प्रत्युद्याता दिदृक्षया ॥
ते समेत्य तथाधर्मं पाण्डवा वृष्णिभिः सह ।
विविशुः सहिता राजन्पुरं वारणसाह्वयम् ॥
विशतस्तस्य सैन्यस्य खुरनेमिस्वनेन ह ।
द्यावापृथिव्यौ खं चैव सर्वमासीत्समावृतम् ॥
ते कोशानग्रतः कृत्वा विविशुः स्वं पुरं तदा ।
पाण्डवाः प्रीतमनसः सामात्याः ससुहृद्गणाः ॥
ते समेत्य यथान्यायं धृतराष्ट्रं जनाधिपम् ।
कीर्तयन्तः स्वनामानि तस्य पादौ ववन्दिरे ॥
धृतराष्ट्राभ्यनुज्ञाता गान्धारीं सुबलात्मजाम् ।
कुन्तीं च राजशार्दूल तदा भरतसत्तम ॥
विदुरं यूजयित्वा च वैश्यापुत्रं समेत्य च ।
पूज्यमानाः स्म ते वीरा व्यरोचन्त विशाम्पते ॥
ततस्तत्परमाश्चर्यं विचित्रं महदद्भुतम् ।
शुश्रुवुस्ते तदा वीराः पितुस्ते जन्म भारत ॥
तदुपश्रुत्य तत्कर्म वासुदेवस्य धीमतः ।
पूजार्हं पूजयामासुः कृष्णं देवकीनन्दनम् ॥
ततः कतिपयाहस्य व्यासः सत्यवतीसुतः ।
आजगाम महातेजा नगरं नागसाह्वयम् ॥
तस्य सर्वे यथान्यायं पूजा चक्रुः कुरूद्वहाः ।
सह वृष्ण्यन्धकव्याघ्रैरुपासांचक्रिरे तदा ॥
तत्र नानाविधाकाराः कथाः समभिकीर्त्य वै ।
युधिष्ठिरो धर्मसुतो व्यासं वचनमब्रवीत् ॥
भवत्प्रसादाद्भगवन्यदिदं रत्नमाहृतम् ।
उपयोक्तुं तदिच्छामि वाजिमेधे महाक्रतौ ॥
तमनुज्ञातुमिच्छामि भवता मुनिसत्तम ।
त्वदधीना वयं सर्वे कृष्णस्य च महात्मनः ॥
व्यास उवाच ।
अनुजानामि राजंस्त्वां क्रियतां यदनन्तरम् ।
यजस्व वाजिमेधेन विधिवद्दक्षिणावता ॥
अश्वमेधो हि राजेन्द्र पावनः सर्वपाप्मनाम् ।
तेनेष्ट्वा त्वं विपात्मा वै भविता नात्र संशयः ॥
इत्युक्तः स तु धर्मात्मा कुरुराजो युधिष्ठिरः ।
अश्वमेधस्य कौरव्य चकाराहरणे मतिम् ॥
समनुज्ञाप्य तत्सर्वं कृष्मद्वैपायनं नृपः ।
वासुदेवमथाभ्येत्य वाग्मी वचनमब्रवीत् ॥
देवकी सुप्रजा देवी त्वया पुरुषसत्तम ।
यद्ब्रूयां त्वां महाबाहो तत्कृथास्त्वमिहाच्युत ॥
त्वत्प्रभावार्जितान्भोगानश्नीम यदुनन्दन ।
पराक्रमेण बुद्ध्या च त्वयेयं निर्जिता मही ॥
दीक्षयस्व त्वमात्मानं त्वं हि नः परमो गुरुः ।
त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम् ॥
त्वं हि यज्ञो गुरुश्च त्वं धर्मज्ञस्त्वं प्रजापतिः ।
त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः ॥
वासुदेव उवाच ।
त्वमेवैतन्महाबाहो कर्तुमर्हस्यरिंदम ।
त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः ॥
त्वं चाद्यि कुरुवीराणां धर्मेण हि विराजसे । गुणीभूताः स्म ते राजंस्त्वं नो राजन्गुरुर्मतः ।
यजस्व मदनुज्ञातः प्राप्य एष क्रतुस्त्वया ॥
युनक्तु नो भवान्कार्ये यत्र वाञ्छसि भारत ।
सत्यं ते प्रतिजानामि सर्वं कर्तास्मि तेऽनघ ॥
भीमसेनार्जुनौ चैव तथा माद्रवतीसुतौ ।
इष्टवन्तो भविष्यन्ति त्वयीष्टवति पार्थिवे ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकसप्ततितमोऽध्यायः ॥ 71 ॥

7-71-7 वैश्यापुत्रं युयुत्सुम् ॥ 7-71-16 पावनः नाशकः ॥

श्रीः