अध्यायः 072

व्यासेन युधिष्ठिरंप्रति पृथिवीसंचाराय मेध्याश्वोत्सर्जनचोदना ॥ 1 ॥ तथाऽश्वरक्षणेऽर्जुनस्य नियोजनम् ॥ 2 ॥

वैशम्पायन उवाच ।

एवमुक्तस्तु कृष्णेन धर्मपुत्रो युधिष्ठिरः ।
व्यासमामन्त्र्य् मेधावी ततो वाचनमब्रवीत् ॥
यदा कालं भवान्वेत्ति हयमेधस्य तत्त्वतः ।
दीक्षयस्व तदा मां त्वं त्वय्यायत्तो हि मे क्रुतुः ॥
व्यास उवाच ।
अयं पैलोथ कौन्तेय याज्ञवल्क्यस्तथैव च ।
विधानं यद्यथा कालं तत्कर्तारौ न संशयः ॥
चैत्र्यां हि पौर्णमास्यां तु तव दीक्षा भविष्यति ।
सम्भाराः सम्भ्रियन्तां च यज्ञार्थं पुरुषर्षभ ॥
अश्वविद्याविदश्चैव सूता विप्राश्च तद्विदः ।
मेध्यमश्वं परीक्षन्तां तव यज्ञार्थसिद्धये ॥
तमुत्सृज यथाशास्त्रं पृथिवीं सागराम्बराम् ।
सपर्येतु यशो नाम्ना तव पार्थिव वर्धयन् ॥
इत्युक्तः स तथेत्युक्त्वा पाण्डवः पृथिवीपतिः ।
चकार सर्वं राजेन्द्र यथोक्तं ब्रह्मवादिना ॥
सम्भारश्चैव राजेन्द्र सर्वे सङ्कल्पितास्तता ॥
स सम्भारान्समाहृत्य नृपो धर्मसुतस्तदा ।
न्यवेदयदमेयात्मा कृष्णद्वैपायनाय वै ॥
ततोऽब्रवीन्महातेजा व्यासो धर्मात्मजं नृपम् ।
यथाकालं यथायोगं सज्जाः स्म तव दीक्षणे ॥
स्फ्यश्च कूर्चश्च सौवर्णो यच्चान्यदपि कौरव ।
यत्तु योग्यं भवेत्किञ्चिद्रौक्मं तत्क्रियतामिति ॥
अश्वश्चोत्सृज्यतामद्य पृथ्व्यामथ यथाक्रमम् ।
सुगुप्तं चरतां चापि यथाशास्त्रं यथाविधि ॥
युधिष्ठिर उवाच ।
अयमश्वो यता ब्रह्मन्नुत्सृष्टः पृथिवीमिमाम् ।
चरिष्यति यथाकामं तत्र वै संविदीयताम् ॥
पृथिवीं पर्यटन्तं हि तुरगं कामचारिणम् ।
कः पालयेदिति मुने तद्भवान्वक्तुमर्हति ॥
इत्युक्तः स तु राजेन्द्र कृष्णद्वैपायनोऽब्रवीत् । भीमसेनादवरजः श्रेष्ठः सर्वधनुष्मताम् ।
जिष्णुः सहिष्णुर्धृष्णुस्च स एनं पालयिष्यति ॥
शक्तः स हि महीं जेतुं निवातकवचान्तकः । तस्मिन्ह्यस्त्राणि दिव्यानि दिव्यं संहननं तथा ।
दिव्यं धनश्चेषुधी च स एनमनुयास्यति ॥
स हि धर्मार्थकुशलः सर्वविद्याविशारदः ।
यथाशास्त्रं नृपश्रेष्ठ चारयिष्यति ते हयम् ॥
राजपुत्रो महाबाहुः श्यामो राजीवलोचनः ।
अभिमन्योः पिता वीरः स एनमनुयास्यति ॥
भीमसेनोपि तेजस्वी कौन्तेयोऽमितविक्रमः ।
समर्थो रक्षितुं राष्ट्रं नकुलश्च विशाम्पते ॥
सहदेवस्तु कौरव्य समायास्यति बुद्धिमान् ।
कुटुम्बतन्त्रं विधिवत्सर्वमेव महायशाः ॥
स तु सर्वं यथान्यायमुक्त कुरुकुलोद्वहः ।
चकार फल्गुनं चापि संदिदेश हयं प्रति ॥
युधिष्ठिर उवाच ।
एह्यर्जुन त्वया वीर हयोऽयं परिपाल्यताम् ।
त्वमर्हो रक्षितुं ह्येनं नान्यः कश्चन मानवः ॥
ये चापि त्वां महाबाहो प्रत्युद्यान्ति नराधिपाः ।
तैर्विग्रहो यथा न स्यात्तथा कार्यं त्वयाऽनघ ॥
आख्यातव्यश्च भता यज्ञोऽयं मम सर्वशः ।
पार्थिवेभ्यो महाबाहो समये गम्यतामिति ॥
वैशम्पायन उवाच ।
एवमुक्त्वा स धर्मात्मा भ्रातरं सव्यसाचिनम् ।
भीमं च नकुलं चैव पुरगुप्तौ समादधत् ॥
कुटुम्बतन्त्रे च तदा सहदेवं युधांपतिम् ।
अनुमान्य महीपालं धृतराष्ट्रं युधिष्ठिरः ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि द्विसप्ततितमोऽध्यायः ॥ 72 ॥

7-72-11 स्फ्यः काष्ठखङ्गः स चात्र सौवर्णः । कूर्च आसनार्थं कुशमुष्टिः सोऽप्यत्र सौवर्णः ॥ 7-72-12 सुगुप्तं सुरक्षितं यथा स्यात्तथा ॥

श्रीः