अध्यायः 074

अर्जुनेन त्रैगर्तानां पराजयः ॥ 1 ॥

वैशम्पायन उवाच ।

त्रिगर्तैरभवद्युद्धं कृतवैरैः किरीटिनः ।
महारथसमाज्ञातैर्हतानां पुत्रनप्तृभिः ॥
ते समाज्ञाय सम्प्राप्तं यज्ञियं तुरगोत्तम***** विषयान्तं ततो वीरा दंशिताः पर्यवारयन् ॥
रथिनो बद्धतूणीराः सदश्वैः समलङ्कृतैः ।
परिवार्य हयं राजन्ग्रहीतुं सम्प्रचक्रमुः ॥
ततः किरीटी सञ्चिन्त्य तेषां तत्र चिकीर्षितम् ।
वारयामास तान्वीरान्सान्त्वपूर्वमरिंदमः ॥
तदनादृत्य ते सर्वे शरैरभ्यहनंस्तदा ।
तमोरजोभ्यां संछन्नांस्तान्किरीटी न्यवारयत् ॥
तानव्रवीत्ततो जिष्णुः प्रहसन्निव भारत ।
निवर्तध्वमधर्मज्ञाः श्रेयो जीवितमेव च ॥
स हि वीरः प्रयास्यन्वै धर्मराजेन वारितः ।
हतबान्धवा न ते पार्त हन्तव्याः पार्थिवा इति ॥
स तदा तद्वचः श्रुत्वा धर्मराजस्य धीमतः ।
तान्निवर्तध्वमित्याह न न्यवर्तन्ति चापि ते ॥
ततस्त्रिगर्तराजानं सूर्यवर्माणमाहवे ।
विनद्य शरजालेनि प्रजहास धनंजयः ॥
ततस्ते रथघोपेण रथनेमिस्वनेन च ।
पूरयन्तो दिशः सर्वा धनंजयमुपाद्रवन् ॥
सूर्यवर्मा ततः पार्ते शराणां नतपर्वणाम् ।
शतान्यमुञ्चद्राजेन्द्र लघ्वस्त्रमभिदर्शयन् ॥
तथैवान्ये महेष्वासा ये च तस्यानुयायिनः ।
मुमुचुः शरवर्षाणि धनंजयवधैषिणः ॥
स ताञ्ज्यामुखनिर्मुक्तैर्बहुभिः सुबहूञ्शरान् ।
चिच्छेद पाण्डवो राजंस्ते भूमौ न्यपतंस्तदा ॥
केतुवर्मा तु तेजस्वी तस्यैवावरजो युवा ।
युयुधे भ्रातुरर्थाय पाण्डवेन यशस्विना ॥
तमापतन्तं सम्प्रेक्ष्य केतुवर्माणमाहवे ।
अभ्यघ्नन्निशितैर्बाणैर्बीभत्सुः परवीरहा ॥
केतुवर्मण्यभिहते धृतवर्मा महारथः ।
रथेनाशु समुत्पत्य शरैर्जिष्णुमवाकिरत् ॥
तस्य तां शीघ्रतामीक्ष्य तुतोषातीव वीर्यवान् ।
गुडाकेशो महादेजा बालस्य धृतवर्मणः ॥
न संदधानं ददृशे नाददानं च तं तदा ।
किरन्तमेवं स शरान्ददृशे पाकशासनिः ॥
स तु तं पूजयामास धृतवर्माणमाहवे ।
मनसा तु मुहूर्तं वै रणे समभिहर्षयन् ॥
`न विव्याध रणे क्रुद्धः कुन्तीपुत्रो हसन्निव ।
सौभद्रस्येव तत्कर्म दृष्ट्वा बालस्य विस्मितः ॥
तं पन्नगमिव क्रुद्धं कुरुवीरः स्मयन्निव ।
प्रीतिपूर्वं महाबाहुः प्राणैर्न व्यपरोपयत् ॥
स तथा रक्ष्यमाणो वै पार्थेनामिततेजसा ।
धृतवर्मा शरं दीप्तं मुमोच विजये तदा ॥
स तेन विजयस्तूर्णमासीद्विद्धः करे भृशम् ।
मुमोच गाण्डिवं मोहात्तत्पपाताथ भूतले ॥
धनुषः पततस्तस्य सव्यसाचिकराद्विभो ।
बभूव सदृशं रूपं शक्रचापस्य भारत ॥
तस्मिन्निपतिते दिव्ये महाधनुषि पार्थिवः ।
चकार सस्वनं हासं धृतवर्मा महाहवे ॥
ततो रोषार्दितो जिष्णुः प्रमृज्य रुधिरं करात् ।
धनुरादत्त तद्दिव्यं शरवर्षैर्ववर्ष च ॥
ततो हलहलाशब्दो दिवस्पृगभवत्तदा ।
नानाविधानां भूतानां तत्कर्माणि प्रशंसताम् ॥
ततः सम्प्रेक्ष्य संक्रुद्धं कालान्तकयमोपमम् ।
जिष्णुं त्रैगर्तका योधाः परीताः पर्यवारयन् ॥
अभिसृत्य परीप्सार्थं ततस्ते धृतवर्मणः ।
परिवव्रुर्गुडाकेशं तत्राक्रुद्ध्यद्धनंजयः ॥
ततो योधाञ्जघानाशु तेषां स दश चाष्ट च ।
महेन्द्रवज्रप्रतिमैरायसैर्बहुभिः शरैः ॥
तान्सम्प्रभग्नान्सम्प्रेक्ष्य त्वरमाणो धनंजयः ।
शरैराशीविषाकारैर्जघान स्वनवद्धसन् ॥
ते भग्नमनसः सर्वे त्रैगर्तकमहारथाः ।
दिशोऽभिदुद्रुवू राजन्धनंजयशरार्दिताः ॥
`हतावशिष्टा हि पराः पार्थं दृष्टपराक्रमाः ।' तमूचुः पुरुषव्याघ्रं संशप्तकनिषूदनम् ॥
तवास्म किंकराः सर्वे सर्वे वै वशगास्तव । आज्ञापयस्वः नः पार्थ प्रह्वान्प्रेष्यानवस्थितान् ।
करिष्यामः प्रियं सर्वं तव कौरवनन्दन ॥
एतदाज्ञाय वचनं सर्वांस्तानब्रवीत्तदा ।
जीवितं रक्षत नृपाः शासनं प्रतिगृह्यताम् ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि चतुःसप्ततितमोऽध्यायः ॥ 74 ॥

श्रीः