अध्यायः 076

अर्जुनेन भगदत्तात्मजपराजयः ॥ 1 ॥

एवं त्रिरात्रमभवत्तद्युद्धं भरतर्षभ ।
अर्जुनस्य नरेन्द्रेण वृत्रेणेव शतक्रतोः ॥
ततश्चतुर्थे दिवसे यज्ञदत्तो महाबलः ।
जहास सस्वनं हासं वाक्यं चेदमताब्रवीत् ॥
अर्जुनार्जुन तिष्ठस्व न मे जीवन्विमोक्ष्यसे ।
त्वां निहत्य करिष्यामि पितुस्तोयं यथाविधि ॥
त्वया वृद्धो मम पिता भगदत्तः पितुः सखा ।
हतो वृद्धोऽपि बाधित्वा शिशुं मामद्य योधय ॥
इत्येवमुक्त्वा संक्रुद्धो यज्ञदत्तो नराधिपः ।
प्रेषयामास कौरव्य वारणं पाण्डवं प्रति ॥
सम्प्रेष्यमाणो नागेन्द्रो यज्ञदत्तेन धीमता ।
उत्पतिष्यन्निवाकाशमभिदुद्राव पाण्डवम् ॥
अग्रहस्तसुमुक्तेन शीकरेण स नागराट् ।
समौक्षति गुडाकेशं शैलं नील इवाम्बुदः ॥
स तेन प्रेषितो राज्ञा मेघवद्विनदन्मुहुः ।
मुखाडम्बरसंह्रादैरभ्यद्रवत फल्गुनम् ॥
स नृत्यन्निव नागेन्द्रो यज्ञदत्तप्रचोदितः ।
आससाद द्रुतं राजन्कौरवाणां महारथम् ॥
तमायान्तमथालक्ष्य यज्ञदत्तस्य वारणम् ।
गाण्डीवमाश्रित्य बली न व्यकम्पत शत्रुहा ॥
चुक्रोध बलवच्चापि पाण्डवस्तस्य भूपतेः ।
कार्यविघ्नमनुस्मृत्यि पूर्ववैरं च भारत ॥
ततस्तं वारणं क्रुद्धः शरजालेन पाण्डवः ।
निवारयामास तदा वेलेव मकरालयम् ॥
स नागप्रवरः श्रीमानर्जुनेन निवारितः ।
तस्थौ शरैर्विनुन्नाङ्गः श्वाविच्छललितो यथा ॥
निवारितं गजं दृष्ट्वा भगदत्तसुतो नृपः ।
उत्ससर्ज शितान्बाणानर्जुने क्रोधमूर्छितः ॥
अर्जुनस्तु महाबाहुः शरैररिनिघातिभिः ।
वारयामास तान्बाणांस्तदद्भुतमिवाभवत् ॥
ततः पुनरभिक्रुद्धो राजा प्राग्ज्योतिषाधिपः ।
प्रेषयामास नागेन्द्रं बलवत्पर्वतोपमम् ॥
तमापतन्तं सम्प्रेक्ष्य बलवान्पाकशासनिः ।
नाराचमग्निसङ्काशं प्राहिणोद्वारणं प्रति ॥
स तेन वारणो राजन्मर्मस्वभिहतो भृशम् ।
पपात सहसा भूमौ वज्ररुग्ण इवाचलः ॥
स पतञ्शुशुभे नागो धनंजयशराहतः ।
विशन्निव महाशैलो महीं वज्रप्रपीडितः ॥
तस्मिन्निपतिते नागे यज्ञदत्तस्य पाण्डवः ।
तं न भेतव्यमित्याह ततो भूमिगतं नृपम् ॥
अब्रवीद्धि महातेजाः प्रस्थितं मां युधिष्ठिरः ।
राजानस्ते न हन्तव्या धनंजय कथञ्चन ॥
सर्वमेतन्नरव्याघ्र भवत्येतावता कृतम् ।
योधाश्चापि न हन्तव्या धनंजय रणे त्वया ॥
वक्तव्याश्चापि राजानः सर्वे सह सुहृज्जनैः ।
युधिष्ठिरस्याश्वमेधो भवद्भिरनुभूयताम् ॥
इति भ्रातृवचः श्रुत्वा न हन्मि त्वां नराधिप ।
उत्तिष्ठ न भयं तेऽस्ति स्वस्तिमान्गच्छ पार्थिव ॥
आगच्छेथा महाराज परां चैत्रीमुपस्थिताम् ।
तदाऽश्वमेधो भविता धर्मिराजस्य धीमतः ॥
एवमुक्तः स राजा तु भगदत्तात्मजस्तदा ।
तथेत्वेवाब्रवीद्वाक्यं पाण्डवेनाभिनिर्जितः ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि षट्सप्ततितमोऽध्यायः ॥ 76 ॥

7-76-13 शललितः शलाकाप्रोतः ॥

श्रीः