अध्यायः 077

अश्वानुसरणवशास्सिन्धुदेशं गतेनार्जुनेन सैन्धवैःसह महाऽऽयोधनम् ॥ 1 ॥ बाणगणावकीर्णस्यार्जुनस्य कराद्गाण्डीवस्या धःपतने देवर्ष्यादिभिर्जपादिना तस्य तेजोदीपनम् ॥ 2 ॥ ततः पुनरर्जुनेन तैः स***योधनम् ॥ 3 ॥

वैशम्पायन उवाच ।

`जित्वा प्रसाद्य राजानं भगदत्तसुतं तदा । विसृज्य याते तुरगे सैन्धवान्प्रति भारत ॥'
सैन्धवैरभवगद्युद्धं ततस्तस्य किरीटिनः ।
हतशेषैर्महाराज हतानां च सुतैरपि ॥
तेऽवतीर्णमुपश्रुत्य विषयं श्वेतवाहनम् ।
प्रत्युद्ययुरमृष्यन्ते राजानः पाण्डवर्षभम् ॥
अश्वं च तं परामृश्य विषयान्ते विषोपमात् ।
न भयं चक्रिरे पार्थाद्भीमसेनादनन्तरात् ॥
तेऽविदूराद्धनुष्पाणिं यज्ञियस्य हयस्य च ।
बीभत्सुं प्रत्यपद्यन्त् पदातिनमवस्थितम् ॥
ततस्ते तं महावीर्या राजानः पर्यवारयन् ।
जिगीषन्तो नरव्याघ्रं पूर्वं विनिकृता युधि ॥
ते नामान्यपि गोत्राणि कर्मणि विविधानि च ।
कीर्तयन्तस्तदा पार्थं शरवर्षैरवाकिरन् ॥
ते किरन्तः शरव्रातान्वारणप्रतिवारणान् ।
रणे जयमभीप्सन्तः कौन्तेयं पर्यवारयन् ॥
ते समीक्ष्य च तं कृष्णमुग्रकर्माणमाहवे ।
सर्वे युयुधिरे वीरा रथस्थास्तं पदातिनम् ॥
ते तमाजघ्निरे वीरं निवातकवचान्तकम् ।
संशप्तकनिहन्तारं हन्तारं सैन्धवस्य च ॥
ततो रथसहस्रेण गजानामयुतेन च ।
***ष्ठकीकृत्य बीभत्सुं प्रहृष्टमनसोऽभवन् ॥
** स्मरन्तो वधं वीराः सिन्धुराजस्य चाहवे ।
जयद्रथस्य कौरव्य समरे सव्यसाचिना ॥
ततः पर्जन्यवत्सर्वे शरवृष्टीरवासृजन् ।
तैः कीर्णः शुशुभे पार्थो रविर्मेघान्तरे यथा ॥
स शरैः समवच्छन्नश्चकाशे पाण्डवर्षभः ।
पञ्चरान्तरसञ्चारी शकुन्त इव भारत ॥
ततो हाहाकृतं सर्वं कौन्तेय शरपीडिते ।
त्रैलोक्यमभवद्राजन्रविरासीद्रजोरुणः ॥
ततो ववौ महाराज मारुतो रोमहर्षणः ।
राहुरग्रसदादित्यं पर्वणीव विशाम्पते ॥
उल्काश्च जघ्निरे सूर्यं विकीर्यन्त्यः समन्ततः ।
वेपथुश्चाभवद्राजन्कैलासस्य महागिरेः ॥
मुमुचुः श्वासमत्युष्णं दुःखशोकसमन्विताः ।
सप्तर्षयो जातभयास्तथा देवर्षयोपि च ॥
शशं चाशु विनिर्भिद्य मण्डलं शशिनोऽपतन् ।
विपरीता दिशश्चापि सर्वा धूमाकुलास्तथा ॥
रासभारुणसङ्काशा धनुष्मन्तः सविद्युतः ।
आवृत्य गगनं मेघा मुमुचुर्मांसशोणितम् ॥
एवमासीत्तदा वीरे शरवर्षेण संवृते ।
फल्गुने भरतश्रेष्ठ तदद्भुतमिवाभवत् ॥
तस्य तेनावकीर्णस्य शरजालेन सर्वतः ।
मोहात्पपात गाण्डीवमावापश्च करादपि ॥
तस्मिन्मोहमनुप्राप्ते शरजालं महत्तदा ।
सैन्धवा मुमुचुस्तूर्णं गतसत्वे महारथे ॥
ततो मोहं समापन्नं ज्ञात्वा पार्थं द्विवौकसः ।
सर्वे वित्रस्तमनसस्तस्य शान्तिकृतोऽभवन् ॥
ततो देवर्षयः सर्वे तथा सप्तर्षयोपि च ।
ब्रह्मर्षचस्च विजयं जेपुः पार्थस्य धीमतः ॥
ततः प्रदीपिते देवैः पार्थतेजसि पार्थिव ।
तस्थावचलवद्धीमान्सङ्ग्रामे परमास्त्रवित् ॥
विचकर्ष धनुर्दिव्यं ततः कौरवनन्दनः ।
यन्त्रस्येवेह शब्दोऽभून्महांस्तस्य पुनः पुनः ॥
ततः स शरवर्षाणि प्रत्यमित्रान्प्रति प्रभुः ।
ववर्ष धनुषा पार्थो वर्षाणीव पुरंदरः ॥
ततस्ते सैन्धवा योधाः सर्व एव सराजकाः ।
नादृश्यन्त शरैः कीर्णाः शलभैरिव पादपाः ॥
तस्य शब्देन वित्रेसुर्भयार्ताश्च विदुद्रुवुः ।
मुमुचुस्चाश्रु शोकार्ताः शुशुचुश्चापि सैन्धवाः ॥
तांस्तु सर्वान्नरव्याघ्रः सैन्धवान्व्यचरद्बली ।
अलातचक्रवद्राजञ्शरजालैः समार्पयत् ॥
तदिन्द्रजालप्रतिमं बाणजालममित्रहा ।
विसृज्य दिक्षु सर्वासु महेन्द्रि इव वज्रभृत् ॥
मेघजालनिभं सैन्यं विदार्य शरवृष्टिभिः ।
विबभौ कौरवश्रेष्ठः शरदीव दिवाकरः ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि सप्तसप्ततितमोऽध्यायः ॥ 77 ॥

7-77-19 उत्काः शशं चन्द्रस्थं विनिर्भिद्य शशिनो मण्डलं प्रति अपतन्निति अनुवृत्त्या सम्बन्धः ॥ 7-77-20 रासभारुणे वर्णविशेषः ॥ 7-77-22 आवापो हस्तावापः ॥

श्रीः