अध्यायः 078

अर्जुनसमागमनश्रवणमात्रेण जयद्रथसुते मृते दुश्शलया तत्सुतमानीयार्जुनंप्रत्यभियानम् ॥ 1 ॥ ततोऽर्जुनेन दुश्शलाप्रार्थनया तस्यां बहुमानेन च युद्धादुपरमः ॥ 2 ॥

वैशम्पायन उवाच ।

ततो गाण्डीवभृच्छूरो युद्धाय समुपस्थितः ।
विबभौ युधि दुर्धर्षो हिमवानचलो यथा ॥
ततस्ते सैन्धवा योधाः पुनरेव व्यवस्थिताः ।
व्यमुञ्चन्त सुसंरब्धाः शरवर्षाणि भारत ॥
तान्प्रहस्य महाबाहुः पुनरेव व्यवस्थितान् ।
ततः प्रोवाच कौन्तेयो मुमूर्षञ्श्लक्ष्णया गिरा ॥
युध्यध्वं परया शक्त्या यतध्वं विजये मम ।
कुरुध्वं सर्वकार्याणि महद्वो भयमागतम् ॥
एष योत्स्यामि सर्वांस्तु निवार्य शरवागुराम् ।
तिष्ठध्वं युद्धमनसो दर्पं शमयितास्मि वः ॥
एतावदुक्त्वा कौरव्यो रोषाद्गाण्डीवभृत्तदा ।
ततोऽथ वचनं स्मृत्वा भ्रातुर्ज्येष्ठस्य भारत ॥
न हन्तव्या रणे तात क्षत्रिया विजिगीषवः । जेतव्याश्चेति यत्प्रोक्तं धर्मराज्ञा महात्मना ।
चिन्तयामास स तदा फल्गुनः पुरुषर्षभः ॥
इत्युक्तोऽहं नरेन्द्रेण न हन्तव्या नृपा इति ।
कथितं न मृषेदं स्याद्धर्मराजवचः शुभम् ॥
न हन्येरंश्च राजानो राज्ञश्चाज्ञा कृता भवेत् ।
इति सञ्चिन्त्य स तदा फल्गुनः पुरुषर्षभः ॥
प्रोवाच वाक्यं धर्मज्ञः सैन्धवान्युद्धदुर्मदान् ।
बालांस्त्रियो वा युष्माकं न हनिष्ये व्यवस्थितान् ॥
यश्च वक्ष्यति सङ्ग्रामे तवास्मीति पराजितः ।
एतच्छ्रुत्वा वचो मह्यं कुरुध्वं हितमात्मनः ॥
ततोऽन्यथा कृच्छ्रगता भविष्यथ मयाऽर्दिताः ।
एवमुक्त्वा तु तान्वीरान्युयुधे कुरुपुङ्गवः ॥
अत्वरावानसम्भ्रान्तः संक्रुद्धैर्विजिगीषुभिः ।
शतं शतसहस्राणि शराणां नतपर्वणाम् ॥
मुमुचुः सैन्धवा राजंस्तदा गाण्डीवधन्वनि । शरानापततः क्रूरानाशीविषविषोपमान् ।
चिच्छेद निशितैर्बाणैरन्तरा स धनंजयः ॥
छित्त्वा तु तानाशु चैव कङ्कपत्राञ्शिलाशितान् ।
एकैकमेषां समरे बिभेद निशितैः शरैः ॥
ततः प्रास्रांश्च शक्तीस्च पुनरेव धनंजये ।
जयद्रथं हतं स्मृत्वा चिक्षिपुः सैन्धवा नृपाः ॥
तेषां किरीटी सङ्कल्पं मोघं चक्रे महाबलः ।
सर्वांस्तानन्तरा च्छित्त्वा तदा चुक्रोश पाण्डवः । तथैवापततां तेषां योधानां जयगृद्धिनाम् ।
तथैवापततां तेषां योधानां यजगृद्धिनाम् ।
शिरांसि पातयामास भल्लैः सन्नतपर्वभिः ॥
तेषां प्रद्रवतां चापि पुनरेवाभिधावताम् ।
निवर्ततां च शब्दोऽभूत्पूर्णस्येव महोदधेः ॥
ते वध्यमानास्तु तदा पार्थेनामिततेजसा ।
यथाप्राणं यथोत्साहं योधयामासुरर्जुनम् ॥
ततस्ते फल्गुनेनाजौ शरैः सन्नतपर्वभिः ।
कृता विसंज्ञा भूयिष्ठा क्लान्तवाहनसैनिकाः ॥
तांस्तु सर्वान्परिग्लानान्विदित्वा धृतराष्ट्रजा ।
दुःशला बालमादाय नप्तारं प्रययौ तदा ॥
सुरथस्य सुतं वीरं रथेनाथागमत्तदा ।
शान्त्यर्थं सर्वयोधानामभ्यगच्छत पाण्डवम् ॥
सा धनंजयमासाद्य रुरोदार्तस्वरं तदा ।
धनंजयोपि तां दृष्ट्वा धनुर्विससृजे प्रभुः ॥
समुत्सृज्य धनुः पार्थो विधिवद्भगिनी तदा ।
प्राह किं करवाणीति सा च तं प्रत्युवाच ह ॥
एष ते भरतश्रेष्ठ स्वस्त्रीयस्यात्मजः शिशुः ।
अभिवादयते पार्थ तं पश्य पुरुषर्षभ ॥
इत्युक्तस्तस्य पितरं स पप्रच्छार्जुनस्तथा ।
क्वासाविति ततो राजन्दुःशला वाक्यमब्रवीत् ॥
पितृशोकाभिसंतप्तो विषादार्तोऽस्य वै पिता ।
पञ्चत्वमगमद्वीरो यथा तन्मे निशामय ॥
स पूर्वं पितरं श्रुत्वा हतं युद्धे त्वयाऽनघ । त्वामागतं च संश्रुत्य युद्धाय हयसारिणम् ।
पितुश्च मृत्युदुःखार्तोऽजहात्प्राणान्धनंजय ॥
प्राप्तो बीभत्सुरित्येव नाम श्रुत्वैव तेऽनघ ।
विषादार्तः पपातोर्व्यां ममार च ममात्मजः ॥
तं दृष्ट्वा पतितं तत्र ततस्तस्यात्मजं प्रभो ।
गृहीत्वा समनुप्राप्ता त्वामद्य शरणैपिणी ॥
इत्युक्त्वाऽऽर्तस्वरं सा तु मुमोच धृतराष्ट्रजा ।
दीना दीनं स्थितं पार्थमब्रवीच्चाप्यधोमुखम् ॥
स्वसारं समवेक्षस्व स्वस्रीयात्मजमेव च । कर्तुमर्हसि धर्मज्ञ दयां कुरुकुलोद्वह ।
विस्मृत्य कुरुराजानं तं च मन्दं जयद्रथम् ॥
अभिमन्योर्यथा जातः परिक्षित्परवीरहा ।
तथाऽयं सुरथाज्जातो मम पौत्रो महाभुज ॥
तमादाय नरव्याघ्र सम्प्रप्तास्मि तवान्तिकम् ।
शमार्थं सर्वयोधानां शृणु चेदं वचो मम ॥
आगतोऽयं महाबाहो तस्य मन्दस्य पुत्रकः ।
प्रसादमस्य बालस्य तस्मात्त्वं कर्तुमर्हसि ॥
एष प्रसाद्य शिरसा प्रशमार्थमरिंदम ।
याचते त्वां महाबाहो शमं गच्छ धनंजय ॥
बालस्य हतबन्धोश्च पार्थ किञ्चिदजानतः ।
प्रसादं कुरु धर्मज्ञ मा मन्युवशमन्वगाः ॥
तमनार्थं नृशंसं च विस्मृत्यास्य पितामहम् ।
आगस्कारिणमत्यर्तं प्रसादं कर्तुमर्हसि ॥
एवं ब्रुवत्यां करुणं दुःशलायां धनंजयः । संस्मृत्य देवीं गान्धारीं धृतराष्ट्रं च पार्थिवम् ।
उवाच दुःखशोकार्तः क्षत्रधर्मं व्यगर्हयत् ॥
`धिक्तं दुर्योधनं क्षुद्रं राज्यलुब्धं च मानिनम् ।' यत्कृते बान्धवाः सर्वे मया नीता यमक्षयम् ॥
इत्युक्त्वा बहु सान्त्वादि प्रसादमकरोज्जयः ।
परिष्वज्य च तां प्रीतो विससर्ज गृहान्प्रति ॥
दुःशला चापि तान्योधान्निवार्य महतो रणात् ।
सम्पूज्य पार्थं प्रययौ गृहानेव शुभानना ॥
एवं निर्जित्य तान्वीरान्सैन्धवान्स धनंजयः ।
अन्वधावत धावन्तं हयं कामविचारिणम् ॥
ततो मृगमिवाकाशे यथा देवः पिनाकधृक् ।
ससार तं तथा वीरो विधिवद्यज्ञियं हयम् ॥
स च वाजी यथेष्टेन तांस्तान्देशान्यथाक्रमम् ।
विचचार यथाकामं कर्म पार्थस्य वर्धयन् ॥
क्रमेण स हयस्त्वेवं विचरन्पुरुषर्षभ ।
मणलूरपतेर्देशमुपायात्सहपाण्डवः ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अष्टसप्ततितमोऽध्यायः ॥ 78 ॥

7-78-47 भणिपूरपतेरिति झ.पाठः ॥

श्रीः