अध्यायः 079

अश्वमेधपर्व ॥ 1 ॥

अर्जुनेन मणलूरपुरं प्रति गमनम् ॥ 1 ॥ तथा पितृभक्त्या विनयेनागतं चित्राङ्गदायां जातं स्वात्मजं बभ्रुवाहनंप्रति क्षत्रधर्मपरित्यागजरोषादुपालम्भः ॥ 2 ॥ तमसहमानया उलूप्या नागलोकादेत्य बभ्रुवाहनस्यार्जुनेन सह युद्धप्रोत्साहनम् ॥ 3 ॥ बभ्रुवाहनेन स्वशरागाढाभिधातेन निपतिते पार्थे पितृमारणशोकेन मोहाधिगमः ॥ 4 ॥ ततश्चित्राङ्गदया रणाङ्गणमेत्य बहुधा विलापः ॥ 5 ॥

वैशम्पायन उवाच ।

श्रुत्वा तु नृपतिः प्राप्तं पितरं बभ्रुवाहनः ।
निर्ययौ विनयेनाथ ब्राह्मणार्यपुरःसरः ॥
मणलूरेश्वरं त्वेवमुपयातं धनंजयः ।
नाभ्यनन्दत्स मेधावी क्षत्रधर्ममनुस्मरन् ॥
उवाच च स धर्मात्मा समन्युः फल्गुनस्तदा ।
प्रक्रियेयं न ते युक्ता बहिस्त्वं क्षत्रधर्मतः ॥
संरक्ष्यमाणं तुरगं यौधिष्ठिरमुपागतम् ।
यज्ञियं विषयान्ते मां नायोत्सीः किंनु पुत्रक ॥
धिक्त्वामस्तु सुदुर्बुद्धिं क्षत्रधर्माविशारदम् ।
यो मां युद्धाय सम्प्राप्तं साम्नैव प्रत्यगृह्णथाः ॥
न त्वया पुरुषार्थो हि कश्चिदस्तीह जीवता ।
यस्त्वं स्त्रीवद्युधा प्राप्तं मां साम्ना प्रत्यगृह्णथाः ॥
यद्यहं न्यस्तशस्त्रस्त्वामागच्छेयं सुदुर्मते ।
प्रक्रियेयं भवेद्युक्ता तावतव नराधम ॥
तमेवमुक्तं भर्त्रा तु विदित्वा पन्नगात्मजा ।
अमृष्यमाणा भित्त्वोर्वीमुलूपी समुपागमत् ॥
सा ददर्श तत पुत्रं विमृशन्तमधोमुखम् ।
संतर्ज्यमानमसकृत्पित्रा युद्धार्थिना विभो ॥
ततः सा चारुसर्वाङ्गी समुपेत्योरगात्मजा ।
उलूपी प्राह वचनं क्षत्रधर्मविशारद ॥
उलूपीं मां निबोध त्वं मातरं पन्नगात्मजाम् ।
कुरुष्व वचनं पुत्र धर्मस्ते भविता परः ॥
युध्यस्वैनं कुरुश्रेष्ठं धनंजयमरिन्दमम् ॥
एवमेष हि ते प्रीतो भविष्यति न संशयः ॥
एवमुद्धार्षितो राजा स मात्रा बभ्रुवाहनः ।
मनश्चक्रे महातेजा युद्धाय भरतर्षभ ॥
सन्नह्य काञ्चनं वर्म शिरस्त्राणं च भानुमत् ।
तूणीरशतसंबाधमारुरोह रथोत्तमम् ॥
सर्वोपकरणोपेतं युक्तमश्वैर्मनोजवैः ।
सचक्रोपस्करं श्रीमान्हेमभाण्डपरिष्कृतम् ॥
परमार्चितमुच्छ्रित्य ध्वजं हंसं हिरण्मयम् ।
प्रययौ पार्थमुद्दिश्य स राजा बभ्रुवाहनः ॥
ततोऽभ्योत्य हयं वीरो यज्ञियं पार्थरक्षितम् ।
ग्राहयामास पुरुषैर्हयशिक्षाविशारदैः ॥
गृहीतं वाजिनं दृष्ट्वा प्रीतात्मा स धनंजयः ।
पुत्रं रथस्थं भूमिष्ठः संन्यवारयदाहवे ॥
स तत्र राजा तं वीरं शरसङ्घैरनेकशः ।
अर्दयामास निशितैराशीविषविषोपमैः ॥
तयोः समभवद्युद्धं पितुः पुत्रस्यक चातुलम् ।
देवासुररणप्रख्यमुभयोः प्रीयमाणयोः ॥
किरीटिनं प्रविव्याघ शरेणानतपर्वणा ।
जत्रुदेशे नरव्याघ्रं प्रहसन्बभ्रुवाहनः ॥
सोभ्यगात्सहपुङ्खेन वल्मीकमिव पन्नगः ।
विनिर्भद्य च कौन्तेयं प्रविवेशि महीतलम् ॥
स गाढवेदनो धीमानालम्ब्य धनुरुत्तमम् ।
दिव्यं तेजः समाविश्य प्रमीत इव सोभवत् ॥
स संज्ञामुपलभ्याथ प्रशस्य पुरुषर्षभः ।
पुत्रं शक्रात्मजो वाक्यमिदमाह महाद्युतिः ॥
साधुसाधु महाबाहो वत्स चित्राङ्गदात्मज ।
सदृशं कर्म ते दृष्ट्वा प्रीतिमानस्मि पुत्रक ॥
विमुञ्चाम्येष ते बाणान्पुत्र युद्धे स्थिरो भव ।
इत्येवमुक्त्वा नाराचैरभ्यवर्षदमित्रहा ॥
तान्स गाण्डीवनिर्मुक्तान्वज्राशनिसमप्रभान् ।
नाराचानच्छिनद्राज भल्लैः सर्वांस्त्रिधा द्विधा ॥
तस्य पार्थः शरैर्दिव्यैर्ध्वजं हेमपरिष्कृतम् ।
सुवर्णतालप्रतिमं क्षुरेणापाहरद्रथात् ॥
हयांश्चास्य महाकायान्महावेगानरिंदम ।
चकार राजन्निर्जावान्प्रहसन्निव पाण्डवः ॥
स रथादवतीर्याथ राजा परमकोपनः ।
पदातिः पितरं क्रुद्धो योधयामास पाण्डवम् ॥
सम्प्रीयमाणः पार्थानामृषभः पुत्रविक्रमात् ।
नात्यर्थं पीडयामास पुत्रं वज्रधरात्मजः ॥
स हन्यमानोऽभिमुखं पितरं बभ्रुवाहनः ।
शरैराशीविषाकारैः पुनरेवार्दयद्बली ॥
ततः स बाल्यात्पितरं विव्याध हृदि पत्रिणा ।
निशेतेन सुपुङ्खेन बलवद्बभ्रुवाहनः ॥
स बाणस्तेजसा दीप्तो ज्वलन्निव हुताशनः ।
विवेश पाण्डवं राजन्मर्म भित्त्वाऽतिदुःखकृत् ॥
स तेनातिभृशं विद्धः पुत्रेण कुरुनन्दनः ।
महीं जगाम मोहार्तस्ततो राजन्धनंजयः ॥
तस्मिन्निपतिते वीरे कौरवाणां धुरंधरे । सोपि मोहं जगामाथ ततश्चित्राङ्गदासुतः ।ष
व्यायम्य संयुगे राजा दृष्ट्वा च पितरं हतम् । पूर्वमेव स बाणौर्घर्गाढविद्धोऽर्जुनेन ह ।
पपात सोपि धरणीमालिङ्ग्य रणमूर्धनि ॥
भर्तारं निहतं दृष्ट्वा पुत्रं च पतितं भुवि ।
चित्राङ्गदा परित्रस्ता प्रविवेश रणाजिरे ॥
शोकसंतप्तहृदया रुदती वेपती भृशम् ।
मणलूरपतेर्माता ददर्श निहतं पतिम् ॥ ॥

इति श्रीमन्महाभारते आश्वमेधकपर्वणि अनुगीतापर्वणि एकोनाशीतितमोऽध्यायः ॥ 79 ॥

7-79-23 प्रमीतइव मृतइव ॥ 7-79-25 पुत्रं प्रशस्येति संबन्धः ॥ 7-79-39 पतिमर्जुनम् ॥

श्रीः