अध्यायः 083

अश्वमेधपर्व ॥ 1 ॥

अर्जुनेनास्वानुसरणवशान्मगधदेशगमनम् ॥ 1 ॥ तत्र जरासंधपौत्रस्य मेघसंधेः पराजयपूर्वकं तत्रतत्र म्लेच्छादिपराजयः ॥ 2 ॥

वैशम्पायन उवाच ।

स तु वाजी समुद्रान्तां पर्येत्य वसुधामिमाम् ।
निवृत्तोऽभिमुखो राजन्येन वारणसाह्वयम् ॥
अनुगच्छंश्च तुरगं निवृत्तोऽथ किरीटभृत् ।
यदृच्छया समापेदे पुरं राजगृहं तदा ॥
तमभ्याशगतं दृष्ट्वा सहदेवात्मजः प्रभो ।
क्षत्रधर्मे स्थितो वीरः समरायाजुहाव ह ॥
ततः पुरात्स निष्क्रम्य रथी धन्वी शरी तली ।
मेघसन्धिः पदातिं तं धनंजयमुपाद्रवत् ॥
आसाद्य च महातेजा मेघसन्धिर्धनंजयम् ।
बालभावान्महाराज प्रोवाचेदं न कौशलात् ॥
किमयं चार्यते वाजी स्इत्रीमध्य इव भारत ।
हयमेनं हरिष्यामि प्रयतस्व विमोक्षणे ॥
अदत्तानुनयो युद्धे यदि त्वं पितृभिर्मम ।
करिष्यामि तवातिथ्यं प्रहर प्रहरामि च ॥
इत्युक्तः प्रत्युवाचैनं प्रहसन्निव पाण्डवः ।
विघ्नकर्ता मया वार्य इति मे व्रतमाहितम् ॥
भ्रात्रा ज्येष्ठेन नृपते तवापि विदितं ध्रुवम् ।
प्रहरस्व यथाशक्ति न मन्युर्विद्यते मम ॥
इत्युक्तः प्राहरत्पूर्वं पाण्डवं मगधेस्वरः ।
किरञ्शरसहस्राणि वर्षाणीव सहस्रदृक् ॥
ततो गाण्डीवभृच्छूरो गाण्डीवप्रहितैः शरैः ।
चकार मोघांस्तान्बाणान्सयत्नान्भरतर्षभ ॥
स मोघं तस्य बाणौघं कृत्वा वानरकेतनः ।
शरात्मुमोच ज्वलितान्दीप्तास्यानिव पन्नगान् ॥
ध्वजे पताकादण्डेषु रथे यन्त्रे हयेषु च ।
अन्येषु च रथाङ्गेषु न शरीरे न सारथौ ॥
संरक्ष्यमाणः पार्थेन शरीरे सव्यसाचिना ।
मन्यमानः स्ववीर्यं तन्मागधः प्राहिणोच्छरान् ॥
ततो गाण्डीवधन्वा तु मागधेन भृशाहतः ।
बभौ वसन्तसमये पलासः पुष्पितो यथा ॥
अवध्यमानः सोऽभ्यघ्नन्मागधः पाण्डवर्षभम् ।
तेन तस्थौ स कौरव्य लोकवीरस्य दर्शने ॥
सव्यसाची तु संक्रुद्धो विकृष्य बलवद्धनुः ।
हयांश्चकार निर्जीवान्सारथेश्च शिरोऽहरत् ॥
धनुश्चास्य महच्चित्रं क्षुरेण प्रचकर्त ह ।
हस्तावापं पताकां च ध्वजं चास्यन्यपातयत् ॥
स राजा व्यथितो व्यश्वो विधनुर्हतसारथिः ।
गदामादाय कौन्तेयमभिद्रद्राव वेगवान् ॥
तस्यापतत एवाशु गदां हेमपरिष्कृताम् ।
शरैश्चकर्त बहुधा बहुभिर्गृध्रवाजितैः ॥
सा गदा शकलीभूता विशीर्णिमणिबन्धना ।
व्याली विमुच्यमानेन पपात धरणीतले ॥
विरथं विधनुष्कं च गदया परिवर्जितम् ।
`नैच्छत्ताडयितुं धीमानर्जुनः समराग्रणीः ॥
तत एनं विमनसं क्षत्रधर्मे व्यवस्थितम् ॥' सान्त्वपूर्वमिदं वाक्यमब्रवीत्कपिकेतनः ॥
पर्याप्तः क्षत्रधर्मोऽयं दर्शितः पुत्र गम्यताम् ।
बह्वेतत्समरे कर्म तव बालस्य पार्थिव ॥
युधिष्ठिरस्य संदेशो न हन्तव्या नृपा इति ।
तेन जीवसि राजंस्त्वमपराद्धोऽपि मे रणे ॥
इति मत्वा तदाऽऽत्मानं प्रत्यादिष्टं स्म मागधः ।
तथ्यमित्यभिगम्यैनं प्राञ्जलिः प्रत्यपूजयत् ॥
परिजितोस्मि भद्रं ते नाहं योद्धुमिहोत्सहे ।
यद्यत्कृत्यं मया तेऽद्य तद्ब्रूहि कृतमेव तु ॥
तमर्जुनः समाश्वास्य पुनरेवेदमब्रवीत् ।
आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः ॥
इत्युक्तः स तथेत्युक्त्वा पूजयमास तं हयम् ।
फल्गुनं च युधिश्रेष्ठं विदिवत्सहदेवजः ॥
ततो यथेष्टमगमत्पुनरेव स कौरवः ।
ततः समुद्रतीरेण वङ्गान्पुण्ड्रान्सकेरलान् ॥
तत्रतत्र च भूरीणि म्लेच्छसैन्यान्यनेकशः ।
विजिग्ये धनुषा राजन्गाण्डीवेन धनंजयः ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्र्यशीतितमोऽध्यायः ॥ 83 ॥

7-83-7 अदत्तानुनयः अशिक्षितः ॥ 7-83-20 गृध्रवाजितैः गृध्रपक्षयुतैः ॥

श्रीः