अध्यायः 004

अश्वमेधपर्व ॥ 1 ॥

व्यासेन युधिष्ठिरंप्रति संवर्तमरुत्तीयोपाख्यानकथनारम्भः ॥ 1 ॥ मरुत्तेन राज्ञा हिमवदुत्तरपार्श्वे सौवणैंरेव कुण्डभाडाद्युपकरणैर्यज्ञारम्भः ॥ 1 ॥

युधिष्ठिर उवाच ।

शुश्रूषे तस्य धर्मज्ञ राजर्षेः परिकीर्तनम् ।
द्वैपायन मरुत्तस्य कथां प्रब्रूहि मेऽनघ ॥
व्यास उवाच ।
आसीत्कृतयुगे तात मनुर्दण्डिधरः प्रभुः ।
तस्य पुत्रो महोष्वासः प्रजातिरभवन्नृपः ॥
प्रजातेरभवत्पुत्रः क्षुत इत्यभिविश्रुतः ।
क्षुतस्य पुत्र इक्ष्वाकुर्महीपालोऽभवत्प्रभुः ॥
तस्य पुत्रशतं राजन्नासीत्परमधार्मिकम् ।
तांस्तु सर्वान्महीपालानिक्ष्वाकुरकरोत्प्रभुः ॥
तेषां ज्येष्ठस्तु विंशोऽभूत्प्रतिमानं धनुष्मताम् ।
विंशस्य पुत्रः कल्याणो विविंशो नाम भारत ॥
विविंशस्य सुता राजन्बभूवुर्दश पञ्च च ।
सर्वे धनुषि विक्रान्ता ब्रह्मण्याः सत्यवादिनः ॥
दानधर्मरताः शान्ताः सततं प्रियवादिनः ।
तेषां ज्येष्ठः खनीनेत्रः स तान्सर्वानपीडयत् ॥
खनीनेत्रस्तु विक्रान्तो जित्वा राज्यमकण्टकम् ।
नाशकद्रक्षितुं राज्यं नान्वरज्यन्त तं प्रजाः ॥
तमपास्य च तद्राज्ये तस्य पुत्रं सुवर्चसम् ।
अभ्यषिञ्चन्त राजेन्द्र मुदिता ह्यभवंस्तदा ॥
स पितुर्विक्रियां दृष्ट्वा राज्यान्निरसनं च तत् ।
नियतो वर्तयामास प्रजाहितचिकीर्षया ॥
ब्रह्मण्यः सत्यवादी च शुचिः शमदमान्वितः ।
प्रजास्तं चान्वरज्यन्त धर्मनित्यं मनस्विनम् ॥
तस्य धर्मप्रवृत्तस्य व्यशीर्यत्कोशवाहनम् ।
तं क्षीणकोशं सामन्ताः समन्तात्पर्यपीडयन् ॥
स पीड्यमानो बहुभिः क्षीणकोशाश्ववाहनः ।
आर्तिमार्च्छत्परां राजा सह भृत्यैः पुरेण च ॥
न चैनमभिहन्तुं ते शक्नुवन्ति बलक्षये ।
सम्यग्वृत्तो हि राजा स धर्मनित्यो युधिष्ठिर ॥
यदा तु परमामार्तिं गतोऽसौ सपुरो नृपः ।
ततः प्रदध्मौ स करं प्रादुरासीत्ततो बलम् ॥
ततस्तानजयत्सर्वान्प्रातिसीमान्नराधिपान् ।
एतस्मात्कारणाद्राजन्विश्रुतः स करंधमः ॥
आवीक्षित्तस्य पुत्रोऽभूत्त्रेतायुगमुखे पुरा ।
इन्द्रादनवरः श्रीमान्देवैरपि सुदुर्जयः ॥
`कारंधम इति ख्यातो बभूव जगतीपतिः ।' तस्य सर्वे महीपाला वर्तन्ते स्म वशे तदा ।
स हि सम्राडभूत्तेषां वृत्तेन च बलेन च ॥
अविक्षिन्नाम धर्मात्मा शौर्येणेन्द्रसमोऽभवत् ।
यज्ञशीलो धर्मरतिर्धृतिमान्संयतेन्द्रियः ॥
तेजसाऽऽदित्यसदृशः क्षमया पृथिवीसमः ।
बृहस्पतिसमो बुद्ध्या हिमवानिव सुस्थिरः ॥
कर्मणा मनसा वाचा दमेन प्रशमेन च ।
मनांस्याराधयामास प्रजानां स महीपतिः ॥
य ईजे हयमेधानां शतेन विधिवत्प्रभुः ।
याजयामास यं विद्वान्स्वयमेवाङ्गिराः प्रभुः ॥
तस्य पुत्रोऽतिचक्राम पितरं गुणवत्तया । मरुत्तो नाम धर्मज्ञश्चक्रवर्ती महायशाः ।
नागायुतसमप्राणः साक्षाद्विष्णुरिवापरः ॥
स यक्ष्यमाणो धर्मात्मा शातकुम्भमयान्युत ।
कारयामास शुभ्राणि भाजनानि सहस्रशः ॥
मेरुं पर्वतमासाद्य हिमवत्पार्श्व उत्तरे ।
काञ्चनः सुमहान्पादस्तत्र कर्म चकार सः ॥
ततः कुण्डानि पात्रीश्च पिठराण्यासंनानि च ।
चक्रुः सुवर्णकर्तारो येषां सङ्ख्या न विद्यते ॥
तस्यैव च समीपे तु यज्ञवाटो बभूव ह । ईजे तत्र स धर्मात्मा विदिवत्पृथिवीपतिः ।
मरुत्तः सहितैः सर्वैः प्रजापालैर्नराधिपः ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि चतुर्थाऽध्यायः ॥ 4 ॥

7-4-1 शुश्रूषे श्रोतुमिच्छामि ॥ 7-4-21 पूर्वजानां महीपतिरिति क.थ.पाठः ॥ 7-4-25 दैवं तत्र समासाद्येति क.थ.पाठः ॥

श्रीः