अध्यायः 091
अश्वमेधपर्व ॥ 1 ॥
वैशंपायनेन जनमेजयंप्रति नकुलाख्यानकथनारम्भः ॥ 1 ॥
अश्वमेधावसाने बिलान्निस्सृतेन कनकपार्श्वेन केनचिन्नकुलेन सदस्यान्प्रति
उञ्छवृत्तिब्राह्मणस्य सक्तुप्रस्थदानप्रशंसनपूर्वकं
युधिष्ठिराश्वमेधगार्हणम् ॥ 2 ॥ । तथा सदस्यचोदनया तत्कथनोपक्रमः ॥ 3 ॥
जनमेजय उवाच ।
पितामहस्य मे यज्ञे धर्मराजस्य धीमतः ।
यदाश्चर्यमभूत्किञ्चित्तद्भवान्वक्तुमर्हति ॥
वैशम्पायन उवाच ।
श्रूयतां राजशार्दूल महदाश्चर्यमुत्तमम् ।
अश्वमेधे महायज्ञे निवृत्ते यदभूत्प्रभो ॥
तर्पितेषु द्विजाग्र्येषु ज्ञातिसम्बन्धिबन्धुषु ।
दीनान्धकृपणे वाऽपि तदा भरतसत्तम ॥
घुष्यमाणे महादाने दिक्षु सर्वासु भारत ।
पतत्सु पुष्पवर्षेषु धर्मराजस्य मूर्धनि ॥
बिलान्निस्सृत्य नकुलो रुक्मपार्श्वस्तदाऽनघः ।
वज्राशनिसमं नादममुञ्चद्वसुधाधिप ॥
सकृदुत्सृज्य तन्नादं त्रासयानो मृगद्विजान् ।
मानुपं वचनं प्राह पुष्पोपरिशयो महान् ॥
सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः ।
उच्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः ॥
तस्य तद्वचनं श्रुत्वा नकुलस्य विशांपते ।
विस्मयं परमं जग्मुः सर्वे ते ब्राह्मणर्षभाः ॥
ततः समेत्य नकुलं पर्यपृच्छन्त ते द्विजाः ॥
कुतस्त्वं समनुप्राप्तो यज्ञं साधुसमागमम् ॥
किं बलं परमं तुभ्यं श्रुतं किं परायणम् ।
कथं भवन्तं विद्याम यो नो यज्ञं विगर्हसे ॥
अविलुप्यागमं कृत्स्नं विविधैर्यज्ञियैः कृतम् ।
यथागमं यथान्यायं कर्तव्यं च तथा कृतम् ॥
पूजार्हाः पूजिताश्चात्र विधिवच्छास्त्रदर्शात् ।
मन्त्राहुतिहुतश्चाग्निर्दत्तं देयममत्सरम् ॥
तुष्टा द्विजातयश्चात्र दानैर्बहुविधैरपि ।
क्षत्रियाश्चि सुयुद्धेन श्राद्धैश्चापि पितामहाः ॥
पालनेन विशस्तुष्टाः कामैस्तुष्टा वरस्त्रियः ।
अनुक्रोशैस्तता शूद्रा दानशेषैः पृथग्जनाः ॥
ज्ञातिसम्बन्धिनस्तुष्टाः शौचेन च नृपस्य नः ।
देवा हविर्भिः पुण्यैस्च रक्षणैः शरणागताः ॥
यदत्र तथ्यं तद्ब्रूहि सत्यंसत्यं द्विजातिषु ।
यथाश्रुतं यथादृष्टं पृष्टो ब्राह्मणकाम्यया ॥
श्रद्धेयवाक्यः प्राज्ञस्त्वं दिव्यं रूपं बिभर्षि च ।
समागतश्च विप्रैस्त्वं तद्भवान्वक्तुमर्हति ॥
इति पृष्टो द्विजैस्तैः स प्रहसन्नकुलोऽब्रवीत् ।
नैषा मृषामया वाणी प्रोक्ता दर्पेण वा द्विजाः ॥
यन्मयोक्तमिदं वाक्यं युष्माभिश्चाप्युपश्रुतम् ।
सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो द्विजर्षभाः ॥
इत्यवश्यं मयैतद्वो वक्तव्यं द्विजसत्तमाः ।
शृणुताव्यग्रमनसः शंसतो मे यथातथम् ॥
अनुभूतं च दृष्टं च यन्मयाऽद्भुतमुत्तमम् ।
उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः ॥
स्वर्गं येन द्विजाः प्राप्तः सभार्यः ससुतस्नुषः ।
यथा चार्धं शरीरस्य ममेदं काञ्चनीकृतम् ॥ ॥
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकनवतितमोऽध्यायः ॥ 91 ॥
7-91-5 नीलाक्षस्तत्र नकुल इति झ.पाठः ॥ 7-91-6 धृष्टो बिलशयो
महान् इति झ.पाठः ॥ 7-91-22 ममेदं यत्रेति शेषः ॥
श्रीः