अध्यायः 093

जनमेजयेन नकुलेन यज्ञनिन्दाकारणं पृष्टेन वैशंपायनेन तंप्रति सत्यदानतपोभिरेव स्वर्गादिसिद्धौ पशुहिंसाहेतुयज्ञस्य नातिप्रशस्ततरत्वमिति नकुलाभिप्रायवर्णनम् ॥ 1 ॥

जनमेजय उवाच ।

यज्ञे सक्ता नृपतयस्तपःसका महर्षयः ।
शान्तिव्यवस्थिता विप्राः शमे दम इति प्रभो ॥
तस्माद्यज्ञफलैस्तुल्यं न किञ्चिदिह दृश्यते ।
इति मे वर्तते बुद्धिस्तथा चैतदसंशयम् ॥
यज्ञैरिष्ट्वा तु बहवो राजानो द्विजसत्तमाः ।
इह कीर्ति परां प्राप्य प्रेत्य स्वर्गमितो गताः ॥
देवराजः सहस्राक्षः क्रतुभिर्भूरिदक्षिणैः ।
देवराज्यं महातेजाःक प्राप्तवानखिलं विभुः ॥
अतो युधिष्ठिरो राजा भीमार्जुनपुरःसरः ।
सदृशो देवराजेन समृद्ध्या विक्रमेण च ॥
अथ कस्मात्स नकुलो गर्हयामास तं क्रतुम् ।
अश्वमेधं महायज्ञं राज्ञस्तस्य महात्मनः ॥
वैशम्पायन उवाच ।
यज्ञस्य विधिमग्र्यं वै फलं चापि नराधिप ।
गदतः शृणु मे राजन्यथावदिह भारत ॥
पुरा शक्रस्य यजतः सर्व ऊचुर्महर्षयः ।
ऋत्विक्षु कर्मव्यग्रेषु वितते यज्ञकर्मणि ॥
हूयमाने तथा वह्नौ होत्रा गुणसमन्विते ।
देवष्वाहूयमानेषु स्थितेषु परमर्षिषु ॥
सुप्रतीतैस्तथा विप्रैः स्वागमैः सुस्वरैर्नृप ।
अश्रान्तैश्चापि लघुभिरध्वर्युवृषभैस्तथा ॥
आलम्भसमये तस्मिन्गृहीतेषु पशुष्वथ ।
महर्षयो महाराज बभूवुः कृपयाऽन्विताः ॥
ततो दीनान्पशून्दृष्ट्वा ऋषयस्ते तपोधनाः ।
ऊचुः शक्रं समागम्य नायं यज्ञविधिः शुभः ॥
अपरिज्ञानमेतत्ते महान्तं धर्ममिच्छतः ।
सन्ति यज्ञे बहुगुणा विधिदृष्टाः पुरंदर ॥
धर्मोपघातकस्त्वेष समारंभस्तव प्रभो ।
नायं धर्मकृतो यज्ञो न हिंसा धर्म उच्यते ॥
आगमेनैव ते यज्ञं कुर्वन्तु यदि चेच्छसि ।
विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान्भवेत् ॥
यज्ञं बीजैः सहस्राक्ष त्रिवर्षपरमोषितेः ।
एष धर्मो महाञ्शक्र चिन्तयानोसि गम्यते ॥
शतक्रतुस्तु तद्वाक्यमृषिभिस्तत्त्वदर्शिभिः ।
उक्तं न प्रतिजग्राह मानमोहवशं गतः ॥
तेषां विवादः सुमहाञ्शक्रयज्ञे तपस्विनाम् ।
जङ्गमैः स्थावरैर्वाऽपि यष्टव्यमिति भारत ॥
ते तु खिन्ना विवादेन ऋषयस्तत्त्वदर्शिनः ।
अभिसंधाय शक्रेण पप्रच्छुर्नृपतिं वसुम् ॥
धर्मसंशयमापन्नान्सत्यं ब्रूहि महामते । महाभाग कथं यज्ञेष्वागमो नृपसत्तम ।
यष्टव्यं पशुभिर्मेध्यैरथो बीजैरजैरिति ॥
तच्छ्रुत्वा तु वसुस्तेषामविचार्य बलाबलम् ।
यथोपनीतैर्यष्टव्यमिति प्रोवाच पार्थिवः ॥
एवमुक्त्वा स नृपतिः प्रविवेश रसातलम् ।
उक्त्वेह वितथं राजंश्चेदीनामीश्वरः प्रभुः ॥
तस्मान्नि वाच्यं ह्येकेन बहुज्ञेनापि संशये ।
प्रजापतिमपाहाय स्वयंभुवमृते प्रभुम् ॥
तेन दत्तानि दानानि पापेनाशुद्धबुद्धिना ।
तानि सर्वाण्यनादृत्य नश्यन्ति विपुलान्यपि ॥
तस्याधर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः ।
दानेन कीर्तिर्भवति न प्रेत्येह च दुर्मतेः ॥
अन्यायोपगतं द्रव्यमभीक्ष्णं यो ह्यपण्डितः ।
धर्माभिकाङ्क्षी त्यजति न स धर्मफलं लभेत् ॥
धर्मवैतंसिको यस्तु पापात्मा पुरुषाधमः ।
ददाति दानं विप्रेभ्यो लोकविश्वासकारणम् ॥
पापेन कर्मणा विप्रो धनं प्राप्य निरङ्कुशः ।
रागमोहान्वितः सोन्ते कलुषां गतिमश्नुते ॥
अपि संचयबुद्धिर्हि लोभमोहवशं गतः ।
यज्ञं करोति भूतानि पापेनाशुद्धबुद्धिना ॥
एवं लब्ध्वा धनं मोहाद्यो हि दद्याद्यजेत वा ।
न तस्य स फलं प्रेत्य भुंक्ते पापधनागमात् ॥
उञ्छं मूलं फलं शाकमुदपात्रं तपोधनाः ।
दानं विभवतो दत्त्वा नराः स्वर्यान्ति धार्मिकाः ॥
एष धर्मो महायोगो दानं भूतदया तथा ।
ब्रह्मचर्यं तथा सत्यमनुक्रोशो धृतिः क्षमा ॥
सनातनस्य धर्मस्य फलमेतत्सनातनम् ।
श्रूयन्ते हि पुरावृत्ता विश्वामित्रादयो नृपाः ॥
विश्वामित्रोसितश्चैवं जनसश्च महीपतिः ।
कक्षसेनार्ष्टिसेनौ च सिन्धुद्वीपश्च पार्थिवः ॥
एते चान्ये च बहवः सिद्धिं परमिकां गताः ।
नृपाः सत्यैश्च दानैश्च न्यायलब्धैस्तपोधनाः ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाश्रितास्तपः ।
दानधर्माग्निना शुद्धास्ते स्वर्गं यान्ति भारत ॥

॥ इती श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्रिनवतितमोऽध्यायः ॥ 93 ॥

7-93-13 नहि यज्ञे पशुगणाः इति झ.पाठः ॥ 7-93-16 त्रिवर्षपरमोषितैः पुराणैः ॥ 7-93-20 बीजै रसैरिति झ. पाठः ॥

श्रीः