अध्यायः 005

अश्वमेधपर्व ॥ 1 ॥

अङ्गीरसः पुत्रेण संवर्तेनाकारणवैरिणः स्वाग्रजन्मनो बृहस्पतेरुपद्रवासहनेन सर्वस्वत्यागपूर्वकमरण्यप्रवेशः ॥ 1 ॥ इन्द्रेण स्वातिशायिनि मरुत्ते राजनि स्पर्धया बृहस्पतिसाचिव्येन ततोप्यतिशयलिप्सया मरुत्तपुरोहितस्य बृहस्पतेर्भेदोपायेन वशीकरणम् ॥ 2 ॥ बृहस्पतिनेन्द्रंप्रति मरुत्तस्य स्वेनायाजनप्रतिज्ञानम् ॥ 3 ॥

युधिष्ठिर उवाच ।

पथंवीर्यः समभवत्स राजा ददतांवरः ।
कथं च जातरूपेण समयुज्यत वै नृपः ॥
क्व च तत्सांप्रतं द्रव्यं भगवन्नवतिष्ठते ।
कथं च शक्यमस्माभिस्तदवाप्नुं तचपोधन ॥
व्यास उवाच ।
असुराश्चैव देवाश्च दक्षस्यासन्प्रजापतेः ।
अपत्यं बहुलं तात तेऽस्पर्धन्त परस्परम् ॥
तथैवाङ्गिरसः पुत्रौ पितृतुल्यौ बभूवतुः ।
बृहस्पतिर्बृहत्तेजाः संवर्तश्च तपोधनः ॥
तावति स्पर्धिनौ राजन्पृथगास्तां परस्परम् ।
बृहस्पतिः स संवर्तं बाधते स्म पुनःपुनः ॥
स बाध्यमानः सततं भ्रात्रा ज्येष्ठेन भारत ।
अर्थानुत्सृज्य दिग्वासा वने वासमरोचयत् ॥
वासवोऽप्यसुरान्सर्वान्विजित्य च निपात्य च ।
इन्द्रत्वं प्राप्य लोकेषु ततो वव्रे पुरोहितम् ॥
पुत्रमङ्गिरसो ज्येष्ठं विप्रज्येष्ठं बृहस्पतिम् ।
याज्यस्त्वङ्गिरसः पूर्वमासीद्राजा करंधमः ॥
वीर्येणाप्रतिमो लोके वृत्तेन च बलेन च । शतक्रतुरिवौजस्वी धर्मात्मा संशितव्रतः ।
वाहनं यस्य योधाश्च मित्राणि विविधानि च ।
शयनानि च मुख्यानि महार्हाणि च सर्वशः ॥
ध्यानादेवाभवद्राजन्मुखवातेन सर्वशः ।
स गुणैः पार्थिवान्सर्वान्वशे चक्रे नराधिपः ॥
संजीव्य कालमिष्टं च सशरीरो दिवं गतः ।
बभूव तस्य पुत्रस्तु ययातिरिव धर्मवित् ॥
अविक्षिन्नाम शत्रुंजित्स वशे कृतवान्महीम् ।
विक्रमेण गुणैश्चैव पितेवासीत्स पार्थिवः ॥
तस्य वासवतुल्योऽभून्मरुत्तो नाम वीर्यवान् ।
पुत्रस्तमनुरक्ताऽभूत्पृथिवी सागराम्बरा ॥
स्पर्धते स स्म सततं देवराजेन नित्यदा ।
वासवोऽपि मरुत्तेनि स्पर्धते पाण्डुनन्दन ॥
शुचिः स गुणवानासीन्मरुत्तः पृथिवीपतिः ।
यतमानोपि यं शक्रो न विशेषयति स्म ह ॥
सोऽशक्नुवन्विशेषाय समाहूय बृहस्पतिम् ।
उवाचेदं वचो देवैः सहितो हरिवाहनः ॥
बृहस्पते मरुत्तस्य मा स्म कार्षीः कथञ्चन ।
दैवं कर्माथ पित्र्यं वा कर्तासि मम चेत्प्रियम् ॥
अहं हि त्रिषु लोकेषु सुराणां च बृहस्पते ।
इन्द्रत्वं प्राप्तवानेको मरुत्तस्तु महीपतिः ॥
कथं ह्यमर्त्यं ब्रह्मंस्त्वं याजयित्वा सुराधिपम् ।
याजयेर्मृत्युसंयुक्तं मरुत्तमविशङ्कया ॥
मां वा वृणीष्व भद्रं ते मरुत्तं वा महीपतिम् ।
परित्यज्य मरुत्तं वा यथाजोषं भजस्व माम् ॥
एवमुक्तः स करकव्य देवराज्ञा बृहस्पतिः ।
मुहूर्तमिव सञ्चिन्त्य देवराजानमब्रवीत् ॥
त्वं भूतानामधिपतिस्त्वयि लोकाः प्रतिष्ठिताः ।
नमुचेर्विश्वरूपस्य निहन्ता त्वं बलस्य च ॥
त्वमाजहर्थ् देवानामेको वीरश्रियं पराम् ।
त्वं बिभर्षि भुवं द्यां च सदैव बलसूदन ॥
परोहित्यं कथं कृत्वा तव देवगणेश्वर ।
याजयेयमहं मर्त्यं मरुत्तं पाकशासन ॥
समाश्वसिहि देवेन्द्र नाहं मर्त्यस्य कर्हिचित् ।
ग्रहीष्यामि स्रुवं यज्ञे शृणु चेदं वचो मम ॥
हिरण्यरेता नोष्णः स्यात्परिवर्तेत मेदिनी ।
भासं तु न रविः कुर्यान्न तु सत्यं चलेन्मयि ॥
व्यास उवाच ।
बृहस्पतिवचःक श्रुत्वा शक्रो विगतमत्सरः ।
प्रशस्यैनं विवेशाथ स्वमेव भवनं तदा ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि पञ्चमोऽध्यायः ॥ 5 ॥

श्रीः