अध्यायः 095

अश्वमेधपर्व ॥ 1 ॥

वैशंपायनेन जनमेजयंप्रति नकुलस्य निजस्वरूपकथनपूर्वकं तस्य नकुलत्वप्राप्तिविमोक्षकारणाभिधानम् ॥ 1 ॥

नमेजय उवाच ।

कोसौ नकुलरूपेण शिरसा काञ्चनेन वै ।
प्राह मानुषवद्वाचमेतत्पृष्टो वदस्व मे ॥
वैशम्पायन उवाच ।
एतत्पूर्वं न पृष्टोऽहं न चास्माभिः प्रभाषितम् ।
श्रूयतां नकुलो योसौ यथा वाक्तस्य मानुषी ॥
श्राद्धं संकल्पयामास जमदग्निः पुरा किल ।
होमधेनुस्तमागाच्च स्वयमेव दुदोह ताम् ॥
तत्पयः स्थपयामास नवे भाण्डे दृढे शुचौ ।
क्रोधो नकुलरूपेण पिठरं पर्यकर्षयत् ॥
जिज्ञासुस्तमृषिश्रेष्टं किं कुर्याद्विप्रिये कृते ।
इति सञ्चिन्त्य दुर्मेधा धर्षयामास तत्पयः ॥
तमाज्ञाय मुनिः क्रोधं नैवास्य स चुकोप ह ।
स तु क्रोधस्ततो राजन्ब्राह्मणीं मूर्तिमास्थितः ॥
जितोस्मीति भृगुश्रेष्ठ भृगवो ह्यतिरोषणाः ।
लोके मिथ्याप्रवादोयं यत्त्वयाऽस्मि विनिर्जितः ॥
वशे स्थितोऽहं त्वय्यह्य क्षमावति महात्मनि ।
बिभेमि तपसः साधो प्रसादं कुरु मे प्रभो ॥
जमदग्निरुवाच ।
साक्षाद्दृष्टोसि मे क्रध गच्छ त्वं विगतज्वरः ।
न त्वयापकृतं मेऽद्य न च मे मन्युरस्ति वै ॥
यान्समुद्दिश्य संकल्पः पयसोस्य कृतो मया ।
पितरस्ते महाभागास्तेभ्यो बुद्ध्यस्व गम्यताम् ॥
इत्युक्तो जातसंत्रासस्तत्रैवान्तरधीयत ।
पितॄणामभिषङ्गाच्च नकुलत्वमुपागतः ॥
स तान्प्रसादयामास शापस्यान्तो भवेदिति ।
तैश्चाप्युक्तः क्षिपन्धर्मं सापस्यान्तमवाप्स्यति ॥
तैश्चोक्तो यज्ञियान्देशान्धर्मारण्यं तथैव च ।
जुगुप्समानो धावन्स तं यज्ञं समुपासदत् ॥
धर्मपुत्रमथाक्षिप्य सक्तुप्रस्थेन तेन सः ।
मुक्तः सापात्ततः क्रोधो धर्मो ह्यासीद्युधिष्ठिरः ॥
एवमेतत्तदा वृत्तं यज्ञे तस्य महात्मनः । पश्यतां चापि नस्तत्र नकुलोऽन्तर्हितस्तदा ॥ ।

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चनवतितमोऽध्यायः ॥ 95 ॥ समाप्तमनुगीतापर्व । -------

7-95-4 पिठरं पात्रं । तत्पयः पीतवानित्यर्थः । तच्च क्रोधस्वरूपेण पिठरं धर्म आविशदिति झ. पाठः ॥

श्रीः