अध्यायः 098

अश्वमेधपर्व ॥ 1 ॥

कृष्णेन युधिष्ठिरंप्रति जन्मदानजीवितानां वैयर्थ्यापादकाधर्मकथनम् ॥ 1 ॥ तथा दानानां सात्विकत्वादिकथनपूर्व तत्तत्फलानां त्रैविध्यादिप्रतिपादनम् ॥ 2 ॥ तथा दानपात्रलक्षणनिरूपणम् ब्राह्मणमहिमानुवर्णनं च ॥ 3 ॥

वैशंपायन उवाच ।

एवं श्रुत्वा वचस्तस्य धर्मपुत्रोऽच्युतस्य तु ।
पप्रच्छ पुनरप्यन्यं धर्मं धर्मात्मजो हरिम् ॥
वृथा च कति जन्मानि वृथा दानानि कानि च ।
वृथा च जीवितं केषां नराणां पुरुषोत्तम ॥
कीदृशासु ह्यवस्थासु दानं दत्तं जनार्दन ।
इह लोकेऽनुभवति पुरुषः पुरुषोत्तम ॥
गर्भस्थः किं समश्नाति किं बाल्ये वाऽपि केशव ।
यौवनस्थेऽपि किं कृष्ण वार्धके वाऽपि किं भवेत् ॥
सात्विकं कीदृशं दानं राजसं कीदृशं भवेत् ।
तामसं कीदृशं देव तर्पयिष्यति किं प्रभो ॥
उत्तमं कीदृशं दानं तेषां वा किं फलं भवेत् । किं दानं नयति ह्यूर्ध्वं किं गतिं मध्यमां नयेत् ।
गतिं जघन्यामथवा देवदेव ब्रवीहि मे ॥
एतदिच्छामि विज्ञातुं परं कौतूहलं हि मे ।
त्वदीयं वचनं सत्यं पुण्यं च मधुसूदन ॥
वैशंपायन उवाच ।
एवं धर्मं प्रयत्नेन पृष्टः पाण्डुसुतेन वै ।
उवाच वासुदेवोऽथ धर्मान्धर्मात्मजस्य तु ॥
भगवानुवाच ।
शृणु राजन्यथान्यायं वचनं तथ्यमुत्तमम् ।
कथ्यमानं मया पुण्यं सर्वपापव्यपोहनम् ॥
वृथा च दश जन्मानि चत्वारि च नराधिप ।
वृथा दानानि पञ्चाशत्पञ्चैव च यथाक्रमम् ॥
वृथा च जीवितं येषां ते च षट् परिकीर्तिताः ।
अनुक्रमेण वक्ष्यामि तानि सर्वाणि पार्थिव ॥
धर्मघ्नानां वृथा जन्म लुब्धानां पापिनां तथा । वृथा पाकं च येऽश्नन्ति परदाररताश्च ये ।
पाकभेदकरा ये च ये च स्युः सत्यवर्जिताः ॥
मृष्टमश्नाति यश्चैकः क्लिस्यमानैस्तु बान्धवैः । पितरं मातरं चैव उपाध्यायं गुरुं तथा ।
मातुलं मातुलानीं च यो निहन्याच्छपेत वा ॥
ब्राह्मणश्चैव यो भूत्वा सन्ध्योपासनवर्जितः ।
निस्स्वाहो निस्स्वधश्चैव शूद्राणामन्नभुग्द्विजः ॥
मम वा शंकरस्याथ ब्रह्मणो वा युधिष्ठिर । अथवा ब्राह्मणानां तु ये न भक्ता नराधमाः ।
वृथाजन्मान्यथैतेषां पापिनां विद्धि डव ॥
अश्रद्धयाऽपि यद्दत्तमवामानेन वाऽपि यत् ।
डंभार्थमपि यद्दत्तं यत्पाषण्डिहृतं नृप ॥
शूद्राचाराय यद्दत्तं यद्दत्त्वा चानुकीर्तितम् ।
रोषयुक्तं तु यद्दत्तं यद्दत्तमनुशोचितम् ॥
डंभार्जितं च यद्दत्तं यच्च वाऽप्यनृतार्जितम् ।
ब्राह्मणस्वं च यद्दत्तं चौर्येणाप्यार्जितं च यत् ॥
अभिशास्ताहृतं यत्तु यद्दत्तं पतिते द्विजे ।
निर्ब्रह्माभिहृतं यत्तु यद्दत्तं सर्वयाचकैः ॥
व्राप्यैस्तु यद्धृतं दानमारूढपतितैश्च यत् ।
यद्दत्तं स्वैरिणीभर्तुः श्वशुराननुवर्तिने ॥
यद्ग्रामयाचकहृतं यत्कृतघ्नहृतं तथा ।
उपपातकिने दत्तं देवविक्रयिणे च यत् ॥
स्त्रीजिताय च यद्दत्तं यद्दत्तं राजसेविने ।
गणकाय च यद्दत्तं यच्च कारणिकाय च ॥
वृषलीपतये दत्तं यद्दत्तं शस्त्रजीविने ।
भृतकाय च यद्दत्तं व्यालग्राहिहृतं च यत् ॥
पुरोहिताय यद्दत्तं चिकित्सकहृतं च यत् ।
यद्वणिंक्कर्मिणे दत्तं क्षुद्रमन्त्रोपजीविने ॥
यच्छूद्रजीविने दत्तं यच्च देवलकाय च ।
देवद्रव्याशिने यच्च यद्दत्तं चित्रकर्मिणे ॥
रङ्गोपजीविने दत्तं यच्च मांसोपजीविने ।
सेवकाय च यद्दत्तं यद्दत्तं ब्राह्मणब्रुवे ॥
अदेशिने च यद्दत्तं दत्तं वार्धुषिकाय च ।
यदनाचारिणे दत्तं यत्तु दत्तमनग्रये ॥
असन्ध्योपासिने दत्तं यच्छूद्रग्रामवासिने ।
यन्मिथ्यालिङ्गिने दत्तं दत्तं सर्वाशिने च यत् ॥
नास्तिकाया च यद्दत्तं धर्मविक्रयिणे च यत् ।
वराकाय च यद्दत्तं यद्दत्तं कूटसाक्षिणे ॥
ग्रामकूटाय यद्दत्तं दानं पार्तिवपुङ्गव ।
वृथा भवति तत्सर्वं नात्र कार्या विचारणा ॥
विप्राणामधरा एते लोलुपा ब्राह्मणाधमाः ।
नात्मानं तारयन्त्येते न दातारं युधिष्ठिर ॥
एतेभ्यो दत्तमात्राणि दानानि सुबहून्यपि ।
वृथा भवन्ति राजेन्द्र भस्मन्याज्याहुतिर्यथा ॥
एतेषु यत्फलं किंचिद्भविष्यति कथंचन ।
राक्षसाश्च पिशाचाश्च तद्विलुंपन्ति हर्षिताः ॥
वृथा ह्येतानि दत्तानि कथितानि समासतः ।
जीवितं तु वृथा येषां चच्छृणुष्व युधिष्ठिर ॥
ये मां न प्रतिपद्यन्ते शङ्करं वा नराधमाः ।
ब्रैह्मणान्वा महीदेवान्वृथा जीवन्ति ते नराः ॥
हेतुशास्त्रेषु ये सक्ताः कुदृष्टिपथमाश्रिताः ।
देवान्निन्दन्त्यनाचारा वृथा जीवन्ति ते नराः ॥
कुशलैः कृतशास्त्राणि पठित्वा ये नराधमाः ।
विप्रान्निन्दन्ति यज्ञांश्च वृथा जीवन्ति ते नराः ॥
ये दुर्गां वा कुमारं वा वायुमग्निं जलं रविम् । पितरं मातरं चैव गुरुमिन्द्रं निशाकरम् ।
मूढा निन्दन्त्यनाचारा वृथा जीवन्ति ते नराः ॥
विद्यमाने धने यस्तु दानधर्मविवर्जितः ।
मृष्टमश्नाति यश्चैको वृथा जीवति सोपि च ॥
वृथा जीवितमाख्यातं दानकालं ब्रवीमि ते ॥
तमोनिविष्टचित्तेन दत्तं दानं तु यद्भवेत् ।
तदस्य फलमश्नाति नरो गर्भगतो नृप ॥
ईर्ष्यामत्सरसंयुक्तो डंभार्थं चार्थकारणात् ।
ददाति दानं यो मर्त्यो बालभावे तदश्नुते ॥
भोक्तं भोगमशक्तस्तु व्याधिभिः पीडितो भृशम् ।
ददाति दानं यो मर्त्यो वृद्धभावे तदश्नुते ॥
श्रद्धायुक्तः शुचिः स्नातः प्रसन्नेन्द्रियमानसः ।
ददाति दानं यो मर्त्यो यौवने स तदश्नुते ॥
स्वयं नीत्वा तु यद्दानं भक्त्या पात्रे प्रदीयते ।
तत्सार्वकालिकं विद्धि दानमामरणान्तिकम् ॥
राजसं सात्विकं चापि तामसं च युधिष्ठिर ।
दानं दानफलं चैव गतिं च त्रिविधां शृणु ॥
दानं दातव्यमित्येव मतिं कृत्वा द्विजाय वै ।
उपकारवियुक्ताय यद्दत्तं तद्धि सात्विकम् ॥
श्रोत्रियाय दरिद्राय बहुभृत्याय पाण्डव ।
दीयते यत्प्रहृष्टेन तत्सात्विकमुदाहृतम् ॥
वेदाक्षरविहीनाय यत्तु पूर्वोपकारिणे ।
समृद्धाय च यद्दत्तं तद्दानं राजसं स्मृतम् ॥
संबन्धिने च यद्दत्तं प्रमत्ताय च पाण्डव ।
फलार्थिभिरपात्राय तद्दानं राजसं स्मृतम् ॥
वैश्वदेवविहीनाय दानमश्रोत्रियाय च ।
दीयते तस्करायापि तद्दानं तामसं स्मृतम् ॥
सरोषमवधूतं च क्लेशयुक्तमवज्ञया ।
सेवकाय च यद्दतं तत्तामसमुदाहृतम् ॥
देवाः पितृगणाश्चैव मुनयश्चाग्नयस्तथा ।
सात्विकं दानमश्नन्ति तुष्यन्ति च नरेश्वर ॥
दानवा दैत्यसङ्गाश्च ग्रहा यक्षाः सराक्षसाः ।
राजसं दानमश्नन्ति वर्जितं पितृदैवतैः ॥
पिशाचाः प्रेतसङ्घाश्च कश्मला ये मलीमसाः ।
तामसं दानमश्नन्ति गतिं च त्रिविधां शृणु ॥
सात्विकानां तु दानानामुत्तमं फलमश्नुते ।
मध्यमं राजसानां तु तामसानां तु पश्चिमम् ॥
अभिगम्योपनीतानां दानानामुत्तमं फलम् ।
मध्यमं तु समाहूय जघन्यं याचते फलम् ॥
अयाचितप्रदाता यः स याति गतिमुत्तमाम् । समाहूय तु यो दद्यान्मध्यमां स गतिं व्रजेत् ।
याचितो यश्च वै दद्याज्जघन्यां स गतिं व्रजेत् ॥
उत्तमा दैविकी ज्ञेया मध्यमा मानुषी गतिः ।
गतिर्जघन्या तिर्यक्षु गतिरेषा त्रिधा स्मृता ॥
पात्रभूतेषु विप्रेषु संस्थितेष्वाहिताग्निषु ।
यत्तु निक्षिप्यते दानमक्षयं संप्रकीर्तितम् ॥
श्रोत्रियाणां दरिद्राणां भरणं कुरु पार्थिव ।
समृद्धानां द्विजातीनां कुर्यास्तेषां तु रक्षणम् ॥
दरिद्रान्वित्तहीनांश्च प्रदानैः सुष्ठु पूजय ।
आतुरस्यैषधैः कार्यं नीरुजस्य किमौषधैः ॥
पापं प्रतिग्रहीतारं प्रदातुरपगच्छति । प्रतिग्रहीतुर्यत्पुण्यं प्रदातारमुपैति तत् ।
तस्माद्दानं सदा कार्यं परत्र हितमिच्छता ॥
वेदविद्यावदातेषु सदा शूद्रान्नवर्जिषु ।
प्रयत्नेन विधातव्यो महादानमयो निधिः ॥
येषां दाराः प्रतीक्षन्ते सहस्रस्येव लम्भनम् ।
भुक्तशेषस्य भक्तस्य तान्निमन्त्रय पाण्डव ॥
आमन्त्र्य तु निराशानि न कर्तव्यानि भारत ।
कुलानि सुदरिद्राणि तेषामाशा हता भवेत् ॥
मद्भक्ता ये नरश्रेष्ठ मद्गता मत्परायणाः ।
मद्याजिनो मन्नियमास्तान्प्रयत्नेन पूजयेत् ॥
तेषां तु पावनायाहं नित्यमेव युधिष्ठिर ।
उभे सन्ध्येऽधितिष्ठामि ह्यस्कन्नं तद्व्रतं मम ॥
तस्मादष्टाक्षरं मन्त्रं मद्भक्तैर्वीतकल्मषैः ।
सन्ध्याकाले तु जप्तव्यं सततं चात्मशुद्धये ॥
अन्येषामपि विप्राणां किल्बिषं हि विनश्यति । उभे सन्ध्येप्युपासीत तस्माद्विप्रो विशुद्धये ।
दैवे श्राद्धेपि विप्रः स नियोक्तव्योऽजुगुप्सया ।
जुगुप्सितस्तु यः श्राद्धं दहत्यग्निरिवेन्धनम् ॥
भारतं मानवो धर्मो वेदाः साङ्गाश्चिकित्सितम् ।
आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥
न ब्राह्मणान्परीक्षेत दैवे कर्मणि धर्मवित् ।
महान्भवेत्परीवादो ब्राह्मणानां परीक्षणे ॥
ब्राह्मणानां परीवादं यः कुर्यात्स नराधमः ।
रासभानां शुनां योनिं गच्छेत्पुरुषदूषकः ॥
श्वत्वं प्राप्नोति निन्दित्वा परीवादात्खरो भवेत् ।
कृमिर्भवत्यभिभवात्कीटो भवति मत्सरात् ॥
दुर्वृत्ता वा सुवृत्ता वा प्राकृता वा सुसंस्कृताः ।
ब्राह्मणा नावमन्तव्या भस्मच्छन्ना इवाग्नयः ॥
क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् ।
नावमन्येत मेधावी कृशानपि कदाचन ॥
एतत्त्रयं हि पुरुषं निर्दहेदवमानितम् ।
तस्मादेतत्प्रयत्नेन नावमन्येत बुद्धिमान् ॥
यथा सर्वास्ववस्थासु पावको दैवतं महत् ।
तथा सर्वास्ववस्थासु ब्राह्मणो दैवतं महत् ॥
व्यङ्गाः काणाश्च कुब्जाश्च वामनाङ्गास्तथैव च ।
सर्वे दैवे नियोक्तव्या व्यामिश्रा वेदपारगैः ॥
मन्युं नोत्पादयेत्तेषां न चारिष्टं समाचरेत् ।
मन्युप्रहरणा विप्रा न विप्राः शश्त्रपाणयः ॥
मन्युना घ्नन्ति ते शत्रून्वज्रेणेन्द्र इवासुरान् ।
ब्राह्मणो हि महद्दैवं जातिमात्रेण जायते ॥
ब्राह्मणः सर्वभूतानां धर्मकोशस्य गुप्तये ।
किं पुनर्ये च कौन्तेय सन्ध्यां नित्यमुपासते ॥
यस्यास्येन समश्नन्ति हव्यानि त्रिदिवौकसः ।
कव्यानि चैव पितरः किं भूतमधिकं ततः ॥
उत्पत्तिरेव विप्रस्य मूर्तिधर्मस्य शाश्वती ।
स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ॥
स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च । आनृशंस्याद्ब्राह्मणस्य भुञ्जते हीतरे जनाः ।
तस्मात्ते नावमन्तव्या मद्भक्ता हि द्विजाः सदा ॥
आरण्यकोपनिषदि ये तु पश्यन्ति मां द्विजाः ।
निगूढं निष्कलावस्थं तान्प्रयत्नेन पूजय ॥
स्वगृहे वा प्रवासे वा दिवारात्रमथापि वा ।
श्रद्धया ब्राह्मणाः पूज्या मद्भक्ता ये च पाण्डव ॥
नास्ति विप्रसमं दैवं नास्ति विप्रसमो गुरुः । नास्ति विप्रात्परो बन्धुर्नास्ति विप्रात्परो निधिः ।
नास्ति विप्रात्परं तीर्थं न पुण्यं ब्राह्मणात्परम् ।
न पवित्रं परं विप्रान्न द्विजात्पावनं परम् ।
नास्ति विप्राप्तरो धर्मो नास्ति विप्रात्परा गतिः ॥
पापकर्मसमाक्षिप्तं पतन्तं नरके नरम् ।
त्रायते पात्रमप्येकं पात्रभूते तु तद्द्विजे ॥
बालाहिताग्नयो ये च शान्ताः शूद्रान्नवर्जिताः ।
मामर्चयन्ति तद्भक्तास्तेभ्यो दत्तमिहाक्षयम् ॥
प्रदानैः पूजितो विप्रो वन्दितो वापि संस्कृतः ।
सम्भाषितो वा दृष्टो वा मद्भक्तो दिवमुन्नयेत् ॥
ये पठन्ति नमस्यन्ति ध्यायन्ति पुरुषास्तु माम् ।
स तान्स्पृष्ट्वा च दृष्ट्वा च नरः पापैः प्रमुच्यते ॥
मद्भक्ता मद्गतप्राणा मद्गीता मत्परायणाः । बीजयोनिविशुद्धा यै श्रोत्रियाः संयतेन्द्रियाः ।
शूद्रान्नविरता नित्यं ते पुनन्तीह दर्शनात् ॥
स्वंय नीत्वा विशेषेण दानं तेषां गृहेष्वथ ।
निवापयेत्तु यद्भक्त्या तद्दानं कोटिसंमितम् ॥
जाग्रतः स्वपतो वापि प्रवासेषु गृहेष्वथ ।
हृदये न प्रणश्यामि यस्य विप्रस्य भावतः ॥
स पूजितो वा दृष्टो वा स्पृष्टो वापि द्विजोत्तमः ।
सम्भाषितो वा राजेन्द्र पुनात्येव नरं सदा ॥
एवं सर्वास्ववस्थासु सर्वदानानि पाण्डव ।
मद्भक्तेभ्यः प्रदत्तानि स्वर्गमार्गप्रदानि वै ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि अष्टनवतितमोऽध्यायः ॥ 98 ॥

श्रीः