अध्यायः 101

कृष्णेन युधिष्टिरंप्रति जलदानान्नदानफलप्रशंसनम् ॥ 1 ॥ तथाऽतिथिलक्षणकथनपूर्वकं तत्पूजाफलकथनम् ॥ 2 ॥

वैशंपायन उवाच ।

श्रुत्वा यमपुराध्वानं जीवानां गमनं तथा ।
धर्मपुत्रः प्रहृष्टात्मा केशवं पुनरब्रवीत् ॥
देवदेवेश दैत्यघ्न ऋषिसङ्घैरभिष्टुत ।
भगवन्भवहञ्श्रीमन्सहस्रादित्यसन्निभ ॥
सर्वसंभव धर्मज्ञ सर्वधरमप्रवर्तक ।
सर्वदानफलं सौम्य कथयस्व ममाच्युत ॥
दानं देयं कथं कृष्ण कीदृशाय द्विजाय वै ।
कीदृशं वा तपः कृत्वा तत्फलं कुत्र भुज्यते ॥
एवमुक्तो हृषीकेशो धर्मपुत्रेण धीमता ।
उवाच धर्मपुत्राय पुण्यान्धर्मान्महोदयान् ॥
शृणुष्वावहितो राजन्पूतं पापघ्नमुत्तमम् ।
सर्वदानफलं सौम्य न श्राव्यं पापकर्मणम् ॥
यच्छ्रुत्वा पुरुषः स्त्री वा नष्टपापः समाहितः ।
तत्क्षणात्पूततां याति पापकर्मरतोपि वा ॥
एकाहमपि कौन्तेय भूमावुत्पादितं जलम् ।
सप्त तारयते पूर्वान्वितृष्णा यत्र गौर्भवेत् ॥
पानीयं परमं लोके जीवानां जीवनं स्मृतम् । पानीयस्य प्रदानेन तृप्तिर्भवति पाण्डव ।
पानीयस्य गुणा दिव्याः परलोके गुणावहाः ॥
तत्र पुष्पोदकी नाम नदी परमपावनी ।
कामान्ददाति राजेन्द्र तोयदानां यमालये ॥
शीतलं सलिलं ह्यत्र ह्यक्षय्यममृतोपमम् ।
शीततोयप्रदादॄणां भवेन्नित्यं सुखावहम् ॥
ये चाप्यतोयदातारः पूयस्तेषां विधीयते ।
प्रणश्यत्यंबुपानेन बुभुक्षा च युधिष्ठिर । तृपीषस्य न चान्नेन पिपासाऽपि प्रणश्यति ।
तस्मात्तोयं सदा देयं तृषितेभ्यो विजानता ।
अग्नेर्मूर्तिः क्षितेर्योनिरमृतस्य स संभवः ।
अतोंभः सर्वभूतानां मूलमित्युच्यते बुधैः ॥
अद्भिः सर्वाणि भूतानि जीवन्ति प्रभवन्ति च ।
तस्मात्सर्वेषु दानेषु तोयदानं विशिष्यते ॥
सर्वदानतपोयज्ञैर्यत्प्राप्यं फलमुत्तमम् ।
तत्सर्वं तोयदानेन प्राप्यते नात्र संशयः ॥
ये प्रयच्छन्ति विप्रेभ्यस्त्वन्नदातं सुसंस्कृतम् ।
तैस्तु दत्ताः स्वयं प्राणा भवन्ति भरतर्षभ ॥
अन्नाद्रक्तं च शुक्लं च अन्ने जीवः प्रतिष्ठितः । इन्द्रियाणि च बुद्धिश्च पुष्णन्त्यन्नेन नित्यशः ।
अन्नहीनानि सीदन्ति सर्वभूतानि पाण्डव ॥
तेजो बलं च रूपं च सत्वं वीर्यं धृतिर्द्युतिः ।
ज्ञानं मेधा तथाऽऽयुश्च सर्वमन्ने प्रतिष्ठितम् ॥
देवमानवर्तिर्यक्षु सर्वलोकेषु सर्वदा ।
सर्वकालं हि सर्वेषां सर्वमन्ने प्रतिष्ठितम् ॥
अन्नं प्रजापते रूपमन्नं प्रजननं स्मृतम् ।
सर्वभूतमयं चान्नं जीवश्चान्नमयः स्मृतः ॥
अन्नेनाधिष्ठितः प्राण अपानो व्यान एव च ।
उदानश्च समानश्च धारयन्ति शरीरिणम् ॥
शयनोत्थानगमनग्रहणाकर्षणानि च सर्वसत्वकृतं क्रम चान्नादेव प्रवर्तते ॥
चतुर्विधानि भूतानि जङ्गमानि स्थिराणि च ।
अन्नाद्भवन्ति राजेन्द्र सृष्टिरेषा प्रजापतेः ॥
विद्यास्थानानि सर्वाणि सर्वयज्ञाश्च पावनाः ।
अन्नाद्यस्मात्प्रवर्तन्ते तस्मादन्नं परं स्मृतम् ॥
देवा रुद्रादयः सर्वे पितरोऽप्यग्नयस्तथा ।
यस्मादन्नेन तुष्यन्ति तस्मादन्नं विशिष्यते ॥
यस्मादन्नात्प्रजाः सर्वाः कल्पेकल्पेऽसृजत्प्रभुः ।
तस्मादन्नात्परं दानं न भूतं न भविष्यति ॥
यस्मादन्नात्प्रवर्तन्ते धर्मार्थौ काम एव च ।
तस्मादन्नात्परं दानं नामुत्रेह च पाण्डव ॥
यक्षरक्षोग्रहा नागा भूतान्यन्ते च दानवाः ।
तुष्यन्त्यन्नेन यस्मात्तु तस्मादन्नं परं भवेत् ॥
परान्नमुपभुञ्जनो यत्कर्म कुरुते शुभम् ।
तच्छुभस्यैकभागस्तु कर्तुर्भवति भारत ॥
अन्नदस्य त्रयो भागा भन्ति पुरुषर्षभ ।
तस्यादन्नं प्रदातव्यं ब्राह्मणेभ्यो विशेषतः ॥
ब्राह्मणाय दरिद्राय योऽन्नं संवत्सरं नृप ।
श्रोत्रियाय प्रयच्छेद्वै पाकभेदविवर्जितः ॥
डंभानृतविमुक्तस्तु परां भक्तिमुपागतः ।
स्वधर्मेणार्जितफलं तस्य पुण्यफलं शृणु ॥
शतवर्षसहस्राणि कामगः कामरूपधृत् । मोदतेऽमरलोकस्थः पूज्यमानोप्सरोगणैः ।
ततश्चापि च्युतः कालान्नरलोके द्विजो भवेत् ॥
अग्नभिक्षां च यो दद्याद्दरिद्राय द्विजातये ।
षण्मासान्वार्षिकं श्राद्दं तस्य पुण्यफलं शृणु ॥
गोसहस्रप्रदानेन यत्पुण्यं समुदाहृतम् ।
तत्प्रण्यफलमाप्नोति नरो वै नात्र संशयः ॥
अथ संवत्सरं दद्यादग्रभिक्षामयाचते ।
प्रच्छद्यैव स्वयं नीत्वा तस्य पुण्यफलं शृणु ॥
कपिलानां सहस्रैस्तु यद्देयं पुण्यमुच्यते ।
तत्सर्वमखिलं प्राप्य शक्रलोके महीयते ॥
स शक्रभवने रम्ये र्षिकोटिशतं नृप ।
यथाकामं महातेजाः क्रीडत्यप्सरसांगणैः ॥
अन्नं च यस्तु वै दद्याद्द्विजाय नियतव्रतः ।
दशवर्षामि राजेन्द्र तस्य पुण्यफलं शृणु ॥
कपिला शतसहस्रस्य विधिदत्तस्य यत्फलम् ।
तत्पुण्यफलमासाद्य पुरन्दरपुरं व्रजेत् ॥
स शक्रभवने रम्ये कामरूपी यथासुखम् ।
शतकोटिसमा राजन्क्रीडतेऽमरपूजितः ॥
शक्रलोकावतीर्णश्च इह लोके महाद्युतिः ।
चतुर्वेदी द्विजः श्रीमाञ्जायते राजपूजितः ॥
अध्वश्रान्ताय विप्राय क्षुधितायान्नकाङ्क्षिणे ।
देशकालाभियाताय दीयते पाण्डुनन्दन ॥
याचतेऽन्नं न दद्याद्यो विद्यामाने धनागमे ।
स लुब्धो नरकं याति कृमीणां कालसूत्रकम् ॥
तत्र नरके घोरे लोभमोहविचेतनः ।
दशरव्षसहस्राणि क्लिश्यते वेदनार्दितः ॥
तस्माच्च नरकान्मुक्तः कालेन महता हि सः । दरिद्रो मानुषे लोके चण्डालेष्वपि जायते ।
यस्तु पांसुलपादश्च दूराध्वश्रमकर्शितः ।
क्षुत्पिपासाश्रमश्रान्त आर्तः खिन्नगतिर्द्विजः ॥
पृच्छन्वै ह्यन्नदातारं गृहमभ्येत्य याचयेत् । तं पूजयेत्तु यत्नेन सोऽतिथिः स्वर्गसंक्रमः ।
तस्मिंस्तुष्टे नरश्रेष्ठ तुष्टाः स्युः सर्वदेवताः ॥
न तथा हविषा होमैर्न पुष्पैर्नानुलेपनैः ।
अग्नयः पार्थ तुष्यन्ति यथा ह्यतिथिपूजनात् ॥
कपिलायां तु दत्तायां विधिवज्ज्येष्ठपुष्करे । न तत्फलमवाप्नोति यत्फलं विप्रबोजनान् ।
द्विजपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी ।
तावत्पुष्करपत्रेण पिबन्ति पितरो जलम् ॥
देवमाल्यापनयनं द्विजोच्छिष्टापमार्जनम् ।
श्रान्तसंवाहनं चैव तथा पादावसेचनम् ॥
प्रतिश्रयप्रदानं च तथा शय्यासनस्य च ।
एकैकं पाण्डवश्रेष्ठ गोप्रदानाद्विशिष्यते ॥
पादोदकं पादघृतं दीपमन्नं प्रतिश्रयम् ।
ये प्रयच्छन्ति विप्रेभ्यो नोपसर्पन्ति ते यमम् ॥
विप्रातिथ्ये कृते राजन्भक्त्या शुश्रूषितेऽपि च ।
देवाः शुश्रूषिताः सर्वे त्रयस्त्रिंशदरिन्दम ॥
अभ्यागतो ज्ञातपूर्वो ह्यज्ञातोऽतिथिरुच्यते ।
तयोः पूजां द्विजः कुर्यादिति पौराणिकी श्रुतिः ॥
पादाभ्यङ्गन्नपानैस्तु योऽतिर्थिं पूजयेन्नरः ।
पूजितस्तेन राजेन्द्र भवामीह न संशयः ॥
शीघ्रं पापाद्विनिर्मुक्तो मया चानुग्रहीकृतः ।
विमानेनेन्दुकल्पेन मम लोकं स गच्छति ॥
अभ्यागतं श्रान्तमनुव्रजन्ति देवाश्च सर्वे पितरोऽग्नयश्च ।
तस्मिन्द्विजे पूजिते पूजिताः स्यु- र्गते निराशाः पितरो व्रजन्ति ॥
अतिर्थिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
पितरस्तस्य नाश्नन्ति दशवर्षणि पञ्च च ॥
वर्जितः पितृभिर्लुब्धः स देवैरग्निभिः सह । निरयं रौरवं गत्वा दशवर्षाणि पञ्च च ।
ततश्चापि च्युतः कालादिह चोच्छिष्टभुग्भवेत् ॥
वैश्वदेवान्तिके प्राप्तमतिथिं यो न पूजयेत् ।
चण्डालत्वमवाप्नोति सद्य एव न संशयः ॥
निर्वासयति यो विप्रं देशकालगतं गृहात् ।
पतितस्तत्क्षणादेव जायते नात्र संशयः ॥
नरके रौरवे घोरे वर्षकोटिं स पच्यते । ततश्चापि च्युतः कालादिह लोके नराधमः ।
श्वा वै द्वादशजन्मानि जायते क्षुत्पिपासितः ॥
चण्डालोप्यतिथिः प्राप्तो देशकालेऽन्नकाङ्क्षयाः ।
अभ्युद्गम्यो गृहस्थेन पूजनीयश्च सर्वदा ॥
अनर्चयित्वा योऽश्नाति लोभमोहविचेतनः ।
स चण्डालत्वमापन्नो दश जन्मानि पाण्डव ॥
निराशमतिथिं कृत्वा भुञ्जनो यः प्रहृष्टवान् ।
न जानाति किलात्मानं विष्ठकूपे निपातितं ॥
मोघं ध्रुवं प्रोर्णयति मोघमस्य तु पच्यते ।
मोघमन्नं सदाऽश्नाति योतिथिं न च पूजयेत् ॥
साङ्गोपाङ्गांस्तु यो वेदान्पठतीह दिनेदिने ।
न चातिथिं पूजयति वृथा भवति स द्विजः ॥
पाकयज्ञमहायज्ञैः सोमसंस्थाभिरेव च ।
ये यजन्ति न चार्चन्ति गृहेष्वतिथिमागतम् ॥
तेषां यशोभिकामानां दत्तमिष्टं च यद्भवेत् ।
वृथा भवति तत्सर्वमाशया हि तया हतम् ॥
देशं कालं च पात्रं च स्वशक्तिं च निरीक्ष्य च ।
अल्पं समं महद्वापि कुर्यादातिथ्यमात्मवान् ॥
सुमुखः सुप्रसन्नात्मा धीमानतिथिमागतम् ।
स्वागतेनासनेनाद्भिरन्नाद्येन च पूजयेत् ॥
हितः प्रियो वा द्वेष्यो वा मूर्खः पण्डित एव वा ।
प्राप्तो यो वैश्वदेवान्ते सोतिथिः स्वर्गसंक्रमः ॥
क्षुत्पिपासाश्रमार्ताय देशकालगताय च ।
सत्कृत्यान्नं प्रदातव्यं यज्ञस्य फलमिच्छता ॥
भोजयेदात्मनः श्रेष्ठान्विधइवद्धव्यकव्ययोः । अन्नं प्राणो मनुष्यणामन्नदः प्राणदो भवेत् ।
तस्मादन्नं विशेषेण दातव्यं भूतिमिच्छता ॥
अन्नदः सर्वकामैस्तु सुतृप्तः सुष्ट्वलङ्कृतः ।
पूर्णचन्द्रप्रकाशेन विमानेन विराजते ॥
सेव्यमानो वरस्त्रीभिर्मम लोकं स गच्छति ।
क्रीडित्वा तु ततस्तस्मिन्वर्षकोटिं यथाऽमरः ॥
ततस्चापि च्युतः कालादिह लोके महायशाः ।
वेदशास्त्रार्थतत्वज्ञो भोगवान्ब्राह्मणो भवेत् ॥
यथाश्रद्धं तु यः कुर्यान्मनुष्येषु प्रजायते । महाधनपतिः श्रीमान्वेदवेदाङ्गपारगः ।
सर्वशास्त्रार्थतत्वज्ञो भोगवान्ब्राह्मणो भवेत् ॥
सर्वातिथ्यं तु यः कुर्याद्वर्षमेकमकल्मषः ।
धर्मार्जितधनो भूत्वा पाकभेदविवर्जितः ॥
देवानिव स्वयं विप्रानर्चयित्वा पितॄनपि ।
विप्रानग्राशनाशी यस्तस्य पुण्यफलं शृणु ॥
वर्षेणैकेन यावन्ति पिण्डान्यश्नन्ति ये द्विजाः ।
तावद्वर्षाणि राजेन्द्र मम लोके महीयते ॥
ततश्चापि च्युतः कालादिह लोके महायशाः ।
वेदसास्त्रार्थतत्वज्ञो भोगवान्ब्राह्मणो भवेत् ॥
सर्वातिथ्यं तु यः कुर्याद्यथाश्रद्धं नरेश्वर ।
अकालनियमेनापि सत्यवादी जितेन्द्रियः ॥
सत्यसन्धो चितक्रोधः शाखाधर्मविवर्जितः ।
अधर्मभीरुर्धर्मिष्ठो मायामात्सर्यवर्जितः ॥
श्रद्दधानः सुचिर्नित्यं पाकबेदविवर्जितः ।
स विमानेन दिव्येन दिव्यरूपी महायशाः ॥
पुरन्दरपुरं याति गीयमानोप्सरोगणैः । मन्वन्तरं तु तत्रैव क्रीडित्वा देवपूजितः ।
मानुष्यलोकमागम्य भोगवान्ब्राह्मणो भवेत् ॥
दशजन्मानि विप्रत्वमाप्नुयाद्राजपूजितः ।
जातिस्मरश्च भवति यत्रयत्रोपजायते ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि एकाधिकशततमोऽध्यायः ॥ 101 ॥

श्रीः