अध्यायः 102

कृष्णेन युधिष्टिरंप्रति भूगोतिलकन्यादानफलप्रतिपादनम् ॥ 1 ॥

भगवानुवाच ।

अतः परं प्रवक्ष्यामि भूमिदानमनुत्तमम् ॥
यः प्रयच्छति विप्राय भूमिं रम्यां सदक्षिणाम् ।
श्रोत्रियाय दरिद्राय साग्निहोत्राय पाण्डव ॥
स सर्वकामतृप्तात्मा सर्वरत्नविभूषितः ।
सर्वपापविनिर्मुक्तो दीप्यमानोऽर्कवत्सदा ॥
बालसूर्यप्रकाशेन विचित्रध्वजशोभिना ।
याति यानेन दिव्येन मम लोकं महायशाः ॥
तत्र दिव्याङ्गनाभिस्तु सेव्यमानो यथासुखम् ।
कामगः कामरूपी च क्रीडत्यप्सरसांगणैः ॥
यावद्बिभर्ति लोकान्वै भूमिः कुरुकुलोद्वह ।
तावद्भूमिप्रदः काले मम लोके महीयते ॥
न हि भूमिप्रदानाद्वै दानमन्यद्विशिष्यते ।
न चापि भूमिहरणात्पापमान्यद्विशिष्यते ॥
दानान्यन्यानि हीयन्ते कालेन कुरुपुङ्गव ।
भूमिदानस्य पुण्यस्य क्षयो नैवोपपद्यते ॥
ब्राह्मणाय दरिद्राय भूमिं दत्तां तु यो नरः ।
न हिंसति नरव्याघ्र तस्य पुण्यफलं शृणु ॥
सप्तद्वीपसमुद्रान्ता रत्नसंचयसंकुला ।
सशैलवनदुर्गाढ्या तेन दत्ता मही भवेत् ॥
भूमिं दृष्ट्वा दीयमानां श्रोत्रियायाग्निहोत्रिणे ।
सर्वभूतानि मन्यन्ते मां ददातीति हर्षवत् ॥
सुवर्णमणिरत्नानि धनानि च वसूनि च ।
सर्वदानानि वै राजन्ददाति वसुधां ददत् ॥
सागरान्सरितः शैलान्समानि विषमाणि च ।
सर्वगन्धरसांश्चैव ददाति वसुधां ददत् ॥
ओषधीः फलसंपन्ना नानापुष्पसमन्विताः ।
कमलोत्पलषण्डांश्च ददाति वसुधां ददत् ॥
धर्मं कामं तथा चार्थं वेदान्यज्ञांस्तथैव च ।
स्वर्गमार्गगतिं चैव ददाति वसुधां ददत् ॥
अग्निष्टोमादिभिर्यज्ञैर्ये यजन्ते सदक्षिणैः ।
न तत्फलं लभन्ते ते भूमिदानस्य यत्फलम् ॥
श्रोत्रिया महीं दत्त्वा यो न हिंसति पाण्डव । तद्दानं कथयिष्यन्ति यावल्लोकाः प्रतिष्ठिताः ।
तावत्स्वर्गोपभोगानां भोक्तारः पाण्डुनन्दन ॥
सस्यपूर्णां महीं यस्तु श्रोत्रियाय प्रयच्छति ।
पितरस्तस्य तृप्ययन्ति यावदाभूतसंप्लुवम् ॥
मम रुद्रस्य सवितुस्त्रिदशानां तथैव च ।
प्रीतये विद्धि राजेन्द्र भूमिर्दत्ता द्विजाय वै ॥
तेन पुण्येन पूतात्मा दाता भूमेर्युधिष्ठिर ।
मम सालोक्यमाप्नोति नात्र कार्या विचाराणा ॥
यत्किंचित्कुरुते पापं पुरुषे वृत्तिकर्शितः ।
स च गोकर्णमात्रेण भूमिदानेन शुध्यति ॥
मासोपवासे यत्पुण्यं कृच्छ्रे चान्द्रायणेऽपि च ।
भूमिगोकर्णमात्रेण तत्पुण्यं तु विधीयते ॥
सर्वतीर्थाभिषेके च यत्पुण्यं समुदाहृतम् ।
भूमिगोकर्णमात्रेण तत्पुण्यं तु विधीयते ॥
युधिष्ठिर उवाच ।
देवदेव नमस्तेऽस्तदु वासुदेव सुरेश्वर ।
गोकर्णस्य प्रमाणं वै वक्तुमर्हसि तत्वतः ॥
भगवानुवाच ।
शृणु गोकर्णमात्रस्य प्रमाणं पाण्डुनन्दन ।
त्रिंशद्दण्डप्रमाणेन प्रमितं सर्वतो दिशम् ॥
प्रत्यक्प्रागपि राजेन्द्र तत्तथा दक्षिणोत्तरम् ।
गोकर्णं तद्विदः प्राहुः प्रमाणं धरणेर्नृप ॥
सवृषं गोशतं यत्र सुखं तिष्ठत्ययन्त्रितम् ।
सवत्सं कुरुशार्दूल तच्च गोकर्णमुच्यते ॥
किंकरा मृत्युदण्डाश्च कुंभीपाकाश्च दारुणाः ।
घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम् ॥
निरया रौरवाद्याश्च तथा वैतरणी नदी ।
तीव्राश्च यातनाः कृष्टा नोपसर्पन्ति भूमिदम् ॥
चित्रगुप्ताः कलिः कालः कृतान्तो मृत्युरेव च ।
यमश्च भगवान्साक्षात्पूजयन्ति महीप्रदम् ॥
रुद्रः प्रजापतिः शक्रः सुरा ऋषिगणास्तथा ।
अहं च प्रीतिमान्राजन्पूजयामो महीप्रदम् ॥
कृशभृत्यस्य कृशगोः कृशाश्वस्य कृतातिथेः ।
भूमिर्देया नरश्रेष्ठ स निधइः पारलौकिकः ॥
सीदमानकुटुंबाय श्रोत्रियायाग्निहोत्रिणे ।
व्रस्थाय दरिद्राय भूमिर्देया नराधिप ॥
यथा हि धात्री क्षीरेण पुत्रं वर्धयति स्वयम् ।
दातारमनुगृह्णाति दत्ता ह्येवं वसुंधरा ॥
यथा बिभर्ति गौर्वत्सं सृजन्ती क्षीरमात्मनः ।
तथा सर्वगुणोपेता भूमिर्वहति भूमिदम् ॥
यथा बीजनि रोहन्ति जलसिक्तानि भूपते ।
तथा कामाः प्ररोहन्ति भूमिदस्य दिनेदिने ॥
यथा तेजस्तु सूर्यस्य तमः सर्वं व्यपोहति ।
तथा पापं नरस्येह भूमिदानं व्यपोहति ॥
दाता दशानुगृह्णाति यो हरेद्दश हन्ति च ।
अतीतान्यागतानीह कुलानि कुरुपुङ्गव ॥
आश्रुत्य भूमिदानं तु दत्त्वा यो वा हरेन्पुनः ।
स बद्धो वारुणैः पाशैः क्षिप्यते पूयशोणिते ॥
स्वदत्तां परदत्तां वा यो हरेत् वसुंधराम् ।
न तस्य नरकाद्धोराद्विद्यते निष्कृतिः क्वचित् ॥
ब्राह्म्णस्य हृते क्षेत्रे हन्याद्द्वादश पूर्वजान् ।
स गच्छेत्कृमियोनिं च न च मुच्येत जातु सः ॥
दत्त्वा भूमिं द्विजेन्द्राय यस्तामेवोपजीवति ।
गवां शतसहस्रस्य हन्तुः स लभते फलम् ॥
सोधश्शिरास्तु पापात्मा कुंभीपाकेषु पच्यते । दिव्यैर्वर्षसहस्रैस्तु कुंभीपाकाद्विजनिस्सृतः ।
इह लोके भवेत्स श्वा रातजन्मनि पाण्डव ॥
दत्त्वा भूमि द्विजेन्द्राणां यस्तामेवोपजीवति । स मूढो याति दुष्टात्मा नरकानेकविंशतिम् ।
नरकेभ्यो विनिर्मुक्तः शुनां योनिं स गच्छति ॥
हलकृष्टा मही देया सबीजा सस्यमालिनी ।
अथवा सोदका देया दरिद्राय द्विजातये ॥
एवं दत्ता मही राजन्प्रहृष्टेनान्तरात्मना ।
सर्वान्कामानवाप्नोति मनसा चिन्तितानि च ॥
बहुभिर्वसुधा दत्ता दीयते च नराधिपैः ।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥
यः प्रयच्छति कन्यां वै सुरूपां श्रोत्रियाय वै ।
स ब्रह्मदेयो राजेन्द्र तस्य पुण्यफलं शृणु ॥
बलीवर्दसहस्राणां दत्तानां धुर्यवाहिनाम् ।
यत्पुण्यं लभते राजन्कन्यादानेन तत्फलम् ॥
गवां शतसहस्रस्य सम्यग्धत्तस्थ यत्फलम् ।
तत्फलं समवाप्नोतिः यः प्रयच्छति कन्यकाम् ॥
यावन्ति चैव रोमाणि कन्यायाः कुरुपुङ्गव ।
तावद्वर्षसहस्राणि मम लोके महीयते ॥
ततश्चापि च्युतः कालादिह लोके स जायते ।
षडङ्गविच्चतुर्वेदी सर्वलोकार्चितो द्विजः ॥
यः सुवर्णं दरिद्राय ब्राह्मणाय प्रयच्छति ।
श्रोत्रियाय सुवृत्ताय बहुपुत्राय पाण्डव ॥
स मुक्तः सर्वपापेभ्यो बालसूर्यसमप्रभः ।
विमानं दिव्यामारूढः कामगः कामभोगवान् ॥
वर्षकोटिं महातेजा मम लोके महीयते ॥
ततः कालावतीर्णश्च सोस्मिँल्लोके हि जायते ।
वेदवेदाङ्गविद्विप्रः कोटीधनपतिर्भवेत् ॥
यश्च रूप्यं प्रयच्छेद्वै दरिद्राय द्विजातये ।
कृशवृत्तेः कृशगवे स मुक्तः सर्वकिल्बिषैः ॥
पूर्णचन्द्रप्रकाशेन विमानेन विराजता ।
कामरूपि यथाकामं स्वर्गलोके महीयते ॥
ततोऽवतीर्णः कालेन लोके चास्मिन्महायशाः ।
सर्वलोकार्चितः श्रीमान्राजा भवति वीर्यवान् ॥
तिलपर्वतकं यस्तु श्रोत्रियाय प्रयच्छति ।
विशेषेण दरिद्राय तस्यापि शृणु यत्फलम् ॥
पुण्यं वृषायुतोत्सर्गे यत्प्रोक्तं पाण्डुनन्दन ।
तत्पुण्यं समनुप्राप्य तत्क्षणाद्विरजा भवेत् ॥
यथा त्वचं भुजङ्गो वै त्यक्त्वा शुद्धतनुर्भवेत् ।
तता तिलप्रदानाद्वै पापं त्यक्त्वा विसुद्ध्यति ॥
तिलषण्डं प्रयुञ्जानो जांबूनदविभूषितम् ।
विमानं दिव्यमारूढः पितृलोके महीयते ॥
षष्टिं वर्षसहस्राणि कामरूपी महायशाः ।
तिलप्रदाता रमते पितृलोके यथासुखम् ॥
यः प्रयच्छति विप्राय तिलधेनुं नराधिप ।
श्रोत्रियाय दरिद्राय शृणु तस्यापि यत्फलम् ॥
गोसहस्रप्रदानेन यत्पुण्यं समुदाहृतम् ।
तत्पुण्यफलामाप्नोति तिलधेनुप्रदो नरः ॥
तिलानां कुडवैर्यस्तु तिलधेनुं प्रयच्छति ।
तावत्कोटिसमा राजन्स्वर्गलोके महीयते ॥
अष्टाढकतिलैः कृत्वा तिलधेनु नराधिप । द्वात्रिंशन्निष्कसंयुक्तं विषुवे यः प्रयच्छति ।
मद्भक्त्या मद्गतात्मा वै तस्य पुण्यफलं शृणु ॥
कन्यादानसहस्रस्य विधिदत्तस्य यत्फलम् ।
तत्पुण्यं समनुप्राप्तो मम लोके महीयते ॥
मम लोकावतीर्णश्च सोस्मिँल्लोकेऽभिजायते ।
ऋग्यजुस्सामवेदानां पारगो ब्राह्मणर्षभः ॥
गां तु यस्तु दरिद्राय श्रोत्रियाय प्रयच्छति ।
प्रसन्नां क्षीरिणीं पुण्यां सवत्सां कांस्यदोहिनीं ॥
यत्किंचिद्दुष्कृतं कर्म तस्य पूर्वकृतं नृपः ।
तत्सर्वं तत्क्षणादेव विनश्यति न संशयः ॥
यानं च वृषसंयुक्तं दीप्यमानं स्वलङ्कृतम् ।
आरूढः कामगं दिव्यं गोलोकमधिगच्छति ॥
यावन्ति चैव रोमाणि तस्या गोस्तु नराधिप ।
तावद्वर्षसहस्राणि गवां लोके महीयते ॥
गोलोकादवतीर्णस्तु लोकेऽस्मिन्ब्राह्मणो भवेत् ।
सत्रयाजी वदन्यश्च सर्वराजभिरर्चितः ॥
तिलं गावः सुवर्णं चाप्यन्नं कन्या वसुंधरा ।
तारयन्तीह दत्तानि ब्राह्मणेभ्यो महाभुज ॥
ब्राह्मणं वृत्तसंपन्नमाहिताग्निमलोलुपम् ।
तर्पयेद्विधिवद्राजन्स निधिः पारलौकिकः ॥
आहिताग्नि दरिद्रं च श्रोत्रियं च जितेन्द्रियम् ।
शूद्रान्नवर्जितं चैव द्विजं यत्नेन पूजयेत् ॥
आहिताग्निः सदा पात्रमह्निहोत्री च वेदवित् ।
पात्राणामपि तत्पात्रं शूद्रान्नं यस्य नोदरे ॥
यच्च वेदमयं पात्रं यच्च पात्रं तपोमयम् ।
असंकीर्णं च यत्पात्रं तत्पात्रं तारयिष्यति ॥
नित्यस्वाध्यायनिरतास्त्वसंकीर्णेन्द्रियाश्च ये ।
पञ्चयज्ञपरा नित्यं पूजितास्तारयन्ति ते ॥
ये क्षान्तिदान्ताः श्रुतिपूर्णकर्णा जितेन्द्रियाः प्राणिवधै निवृत्ताः ।
प्रतिग्रहे संकुचिता गृहस्था- स्ते ब्राह्मणास्तारयितुं समर्थाः ॥
नित्योदकी नित्ययज्ञोपवीती नित्यस्वाध्यायी वृषलान्नवर्जी ।
क्रतौ गच्छन्विधिवच्चापि जुह्व- त्स ब्राह्मणस्तारयितुं समर्थः ॥
ब्राह्मणो यस्तु मद्भक्तो मद्रागी मत्परायणः ।
मयि संन्यस्तकर्मा च स विप्रस्तारयेद्ध्रुवम् ॥
द्वादशाक्षरतत्वज्ञश्चतुर्व्यूहविभागवित् ।
अच्छिद्रपञ्चकालज्ञःक स विप्रस्तारयिष्यति ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि द्व्यधिकशततमोऽध्यायः ॥ 102 ॥

श्रीः