अध्यायः 105

कृष्णेन युधिष्ठिरंप्रति दशधा कपिलाविभागकथनपूर्वकं तद्दानप्रशंसनम् ॥ 1 ॥

वैशम्पायन उवाच ।

दानपुण्यफलं श्रुत्वा तपःपुण्यफलानि च ।
धर्मपुत्रः प्रहृष्टात्मा केशवं पुनरब्रवीत् ॥
या चैषा कपिला देव पूर्वमुत्पादिता विभो ।
होमधेनुः सदा पुण्या चतुर्वक्त्रेण माधव ॥
सा कथं ब्राह्मणेभ्यो हि देया कस्मिन्दिनेऽपि वा ।
कीदृशाय च विप्राय दातव्या पुण्यलक्षणा ॥
कथिता कपिला प्रोक्ता स्वयमेव स्वयंभुवा ।
कैर्वा देयाश्च ता देव श्रोतुमिच्छामि तत्वतः ॥
वैशम्पायन उवाच ।
एवमुक्तो हृषीकेशो धर्मपुत्रेण संसदि ।
अब्रवीत्कपिलासङ्क्यां तासां माहात्म्यमेव च ॥
शृणु पाण्डव तत्वेन पवित्रं पावनं परम् ।
यच्छ्रुत्वा पापकर्मा पि नरः पापात्प्रमुच्यते ॥
अग्निमद्योद्भवां दिव्यामग्निज्वालासमप्रभाम् ।
अग्निज्वालोज्ज्वलच्छृङ्गीं प्रदीप्ताङ्गारलोचनाम् ॥
अग्निपुच्छामग्निखुरामग्निरोमप्रभान्विताम् ।
तामग्नेयीमग्निजिह्वामग्निग्रीवां ज्वलत्प्रभाम् ॥
भुञ्जते कपिलां ये तु शूद्रा लोभेन मोहिताः ।
पतितांस्तान्विजानीयाच्चण्डालसदृशा हि ते ॥
न तेषां ब्राह्ममः कश्चिद्गृहे कुर्यात्प्रतिग्रहम् ।
दूराच्च परिहर्तव्या महापातकिनोपि ते ॥
सार्वकालं हि ते सर्वैर्वर्जिताः पितृदैवतैः ।
ते सदा ह्यप्रतिग्राह्या ह्यसंभाष्याश्च पापिनः ॥
पिबन्ति कपिलां यावत्तावत्तेषां पितामहाः ।
अमेध्यमुपभुञ्जन्ति भूम्यां वै श्वसृगालवत् ॥
कपिलाया दधि क्षीरं घृतं तक्रमथापि वा ।
ये शूद्रा उपभुञ्जन्ति तेषां गतिमिमां शृणु ॥
कपिलोपजीवी शूद्रस्तु मृतो गच्छति रौरवम् ।
क्लिश्यते रौरवे घोरे वर्षकोटिशतं वसन् ॥
ततश्चापि च्युतः कालाच्छ्वानयोनिं स गच्छति ।
श्वयोन्याश्च परिभ्रष्टो विष्ठायां जायते क्रिमिः ॥
विष्ठाकूपेषु पापिष्ठो दुर्गन्धेषु सहस्रशः ।
तत्रतत्रोपजायेत नोत्तारं तत्रथ विन्दति ॥
ब्राह्मणश्चैव यस्तेषां गृहे कुर्यात्प्रतिग्रहम् ।
ततः प्रभृति तस्यापि पितरः स्युरमेध्यपाः ॥
न तेन सार्धं सम्भाषेन्न चाप्येकासनं व्रजेत् ।
स नित्यं वर्जनीयो हि दूरात्तु ब्राह्मणाधमः ॥
यस्तेन सह सम्भाषेदेकशय्यां व्रजेत् वा ।
प्राजापत्यं चरेत्कृच्छ्रं स च तेन विसुद्ध्यति ॥
कपिलोपजीविनः शूद्राद्यः करोति प्रतिग्रहम् ।
प्रायश्चित्तं भवेत्तस्य विप्रस्यैतन्न संशयः ॥
ब्रह्मकूर्चं प्रकुर्वीति चान्द्रायणमथापि वा ।
मुच्यते किल्बिषात्तस्मादेतेन ब्राह्मणो हि सः ॥
कपिला ह्यग्निहोत्रार्थे विप्रार्थे वा स्वयंभुवा ।
सर्वं तेजः समुद्धृत्य निर्मिता ब्रह्मणा पुरा ॥
पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् ।
पुण्यानां परमं पुण्यं कपिला पाण्डुनन्दन ॥
तपसा तप एवाग्र्यं व्रातनामुत्तमं व्रतम् ।
दानानां परमं दानं निदानं ह्येतदक्षयम् ॥
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ।
पवित्राणि च रम्याणि सर्वलोकेषु पाण्डव ॥
एभ्यस्तेजः समुद्धृत्य ब्रह्मणा लोककर्तृणा ॥
लोकनिस्तरणायैव निर्मिताः कपिलाः स्वयम् ॥
सर्वतेजोमयी ह्येषां कपिला पाण्डुनन्दन ।
सदाऽमृतमयी मेध्या शुचिः पावनमुत्तमम् ॥
क्षीरेण कपिलायास्तु दध्ना वा सघृतेन वा ।
होतव्यान्यग्निहोत्राणि सायं प्रातर्द्विजातिभिः ॥
कपिलाया घृतेनापि दध्ना क्षीरेण वा पुनः ।
जुह्वते योऽग्निहोत्राणि ब्राह्मणा विधिवत्प्रभो ॥
पूजयन्त्यतिथींश्चैव परां भक्तिमुपागताः ।
शूद्रान्नाद्विरता नित्यं डंभानृतविवर्जिताः ॥
ते यान्त्यादित्यसङ्काशैर्विमानैर्द्विजसत्तमाः ।
सूर्यमण्डलमध्येन ब्रह्मलोकमनुत्तमम् ॥
ब्रह्मणो भवने दिव्ये कामगाः कामरूपिणः ।
ब्रह्मणा पूज्यमानास्तु मोदन्ते कल्पमक्षयम् ॥
एवं हि कपिला राजन्पुण्या मन्त्रामृतारणिः ।
आदावेवाग्निमध्ये तु मैत्रेयी ब्रह्मनिर्मिता ॥
शृङ्गाग्रे कपिलायास्तु सर्वतीर्थानि पाण्डव ।
ब्रह्मणो हि नियोगेन निवसन्ति दिनेदिने ॥
प्रातरुत्थाय यो मर्त्यः कपिलाशृङ्गमस्तकात् ।
यश्च्युतामंबुधारां वै शिरसा प्रयतः शुचिः ॥
स तेन पुण्यतीर्थेन सहसा हतकिल्विषः ।
जन्मत्रयकृतं पापं प्रदहत्यग्निवतृणम् ॥
मूत्रेण कपिलायास्तु यश्च प्राणानुपस्पृशेत् ॥ स्नानेन तेन पुण्येन नष्टपापः स मानवः ।
त्रिंशद्वर्षकृतात्पापान्मुच्यते नात्र संशयः ॥
प्रातरुत्थाय यो भक्तया प्रयच्छेत्तृणमुष्टिकम् ।
तस्य नश्यति तत्पापं त्रिंशद्रात्रकृतं नृप ॥
प्रातरूत्थाय यद्भक्त्या कुर्याद्यस्मात्प्रदक्षिणम् ।
प्रदक्षिणीकृता तेन पृथिवी नात्र संशयः ॥
प्रदक्षिणेन चैकेन श्रद्धायुक्तेन पाण्डव ।
दशरात्रकृतं पापं तस्य तन्नश्यति ध्रुवम् ॥
कपिलापञ्चगव्येन यः स्नायात्तु शुचिर्नरः ।
स गङ्गाद्येषु तीर्थेषु स्नातो भवति पाण्डव ॥
तेन स्नानेन तस्यापि श्रद्दायुक्तस्य पार्थिव ।
दशरात्रकृतं पापं तत्क्षणादेव नश्यति ॥
दृष्ट्वा तु कपिलां भक्त्या श्रुत्वा हुङ्कारनिस्वनम् ।
व्यपोहति नरः पापमहोरात्रकृतं नृप ॥
यत्र वा तत्र वा चाङ्गे कपिलां यः स्पृशेच्छुचिः ।
संवत्सरकृतं पापं विनाशयति पाण्डव ॥
गोसहस्रं तु यो दद्यादेकां च कपिलां नरः ।
समं तस्य फलं प्राह ब्रह्मा लोकपितामहः ॥
यस्त्वेवं कपिलां हन्यान्नरः कश्चित्प्रमादतः ।
गोसहस्रं हतं तेन भवेन्नात्र विचारणा ॥
यश्चैकां कपिलां दद्याच्छ्रोत्रियायाहिताग्नये ।
गवां शतसहस्रं तु दत्तं भवति पाण्डव ॥
दश वै कपिलाः प्रोक्ताः स्वयमेव स्वयंभुवा ।
यो दद्याच्छ्रोत्रियेभ्यो वै स्वर्गं गच्छति तच्छृणु ॥
प्रथमा स्वर्णकपिला द्वितीया गौरपिङ्गला ।
तृतीया रक्तपिङ्गाक्षी चतुर्थीं गलपिङ्गला ॥
पञ्चमी बभ्रुवर्णाभा षष्ठी च श्वेतपिङ्गला ।
सप्तमी रङ्गपिङ्गाक्षी त्वष्टमी खुरपिङ्गला ॥
नवमी पाटला ज्ञेया दशमी पुच्छपिङ्गला ।
दशैताः कपिलाः प्रोक्तास्तारयन्ति नरान्सदा ॥
मङ्गल्याश्च पवित्राश्च सर्वपापप्रणाशनाः ।
एवमेव ह्यनड्वाहो दश प्रोक्ता नरेश्वर ॥
ब्राह्मणो वाहयेत्तांस्तु नान्यो वर्णः कथंचन ।
न वाहयेच्च कपिलां क्षेत्रे वाऽध्वनि वा द्विजः ॥
वाहयेद्धुङ्कृतेनैव शाखया वा सपत्रया ।
न दण्डेन न वा यष्ट्या न पाशेन न वा पुनः ॥
न क्षुत्तृष्णाश्रमश्रान्तान्वाहयेद्विकलेन्द्रियान् ।
अतृप्तेषु न भुञ्जीयात्पिबेत्पीतेषु चोदकम् ॥
शुश्रूषोर्मातरश्चैताः पितरस्ते प्रकीर्तिताः ।
अह्नां पूर्वत्र भागे च धुर्याणां वाहनं स्मृतम् ॥
विश्रामेन्मध्यमे भागे भागे चान्ते यथासुखम् । यत्र च त्वरया कृत्यं संशयो यत्र वाऽध्वनि ।
वाहयेत्तत्र धुर्यांस्तु न स पापेन लिप्यते ॥ भ्रूणहत्यासमं पापं तस्य स्यात्पाण्डुनन्दन ।
अन्यथा वाहयन्राजन्निरयं याति रौरवम् ॥ रुधिरं पातयेत्तेषां यस्तु मोहान्नराधिप ।
तेन पापेन पापात्मा नरकं यात्यसंशयम् ॥ नरकेषु च सर्वेषु समाः स्थित्वा शतंशतम् ।
इह मानुष्यके लोके बलीवर्दो भविष्यति ॥
तस्मात्तु मुक्तिमन्विच्छन्दद्यात्तु कपिलां नरः ॥
कपिलां वाहयेद्यस्तु वृषलो लोभमोहितः ।
तेन देवास्त्रयस्त्रिंशत्पितरश्चापि वाहिताः ॥
स देवैः पितृभिर्नित्यं वध्यमानस्तु दुर्मतिः ।
नरकान्नरकं घोरं गच्छेदाप्रलयं नृप ॥
ब्रह्मा रुद्रस्तथाऽग्निश्च कपिलानां गतिं गताः । तस्मात्ते न निहन्तव्याः पूज्याश्चैव न संशयः ।
निःश्वसन्ति यदा श्रान्तास्तदा हन्युस्च तत्कुलं ॥
यावन्ति तेषां रोमाणि तावद्वर्षशतं नृप ।
नरकेषूपपच्यन्ते तत्र तद्वाहका नराः ॥
कपिला सर्वयज्ञेषु दक्षिणार्थं विधीयते ।
तस्मात्तद्दक्षिणा देया यज्ञेष्वेव द्विजातिभिः ॥
होमार्तं चाग्निहोत्रस्य यां प्रयच्छेत्प्रयत्नतः । श्रोत्रियाय दरिद्राय श्रान्तायामिततेजसे ।
तेन दानेन पूतात्मा मम लोके महीयते ॥
यावन्ति चैव रोमाणि कपिलाङ्गे युधिष्ठिर ।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥
सुवर्णखुरशृङ्गीं च कपिलां यः प्रयच्छति । विषुवे चायने चापि सोऽश्वमेधफलं लभेत् ।
तेनाश्वमेधतुल्येन मम लोकं स गच्छति ॥
स्वर्णशृङ्गीं रूप्यखुरां सवत्सां कांस्यदोहिनीम् ।
वस्त्रैरलङ्कृतां पुष्टां गन्धैर्माल्यैश्च शोभिताम् ॥
पवित्रं हि पवित्राणां सुरव्णमिति मे मतिः ।
तस्मात्सुवर्णाभरणा दातव्या साऽग्निहोत्रिणे ॥
एवं दत्त्वा तु राजेन्द्र सप्तपूर्वान्परानपि ।
तारयिष्यति राजेन्द्र नात्र कार्या विचारणा ॥
अग्निष्टोमसहस्रस्य वाजपेयं च तत्समम् । वाजपेयसहस्रस्य अश्वमेधं च तत्समम् ।
अश्वमेधसहस्रस्य राजसूयं च तत्समम् ॥
कपिलानां सहस्रेण विदिदत्तेन पाण्डव । राजसूयफलं प्राप्य मम लोके महीयते ।
न तस्य पुनरावृत्तिर्विद्यते कुरुपुङ्गव ॥
प्रयच्छते यः कपिलां सवत्सां कांस्यदोहिनीम् ।
सुवर्णकुरशृङ्गाङ्गीं सर्वालङ्कारशोभिताम् ॥
तैस्तैर्गुणैः कामदुघा च भूत्वा नरं प्रदातारमुपैति सा गौः ।
स्वकर्मभिश्चाप्यनुबध्यमानं तीव्रान्धकारे नरके पतन्तम् । महार्णवे नौरिव वायुनीता दत्ता हि गौस्तारयते मनुष्यम् ॥
पुत्रांश्च पौत्रांश्च कुलं च सर्व- मासप्तमं तारयते यथावत् ।
यावन्मनुष्यान्पृथिवी बिभर्ति तावत्प्रदातारमृतं परत्र ॥
यथौषधं मन्त्रकृतं नरस्य प्रयुक्तमात्रं विनिहन्ति रोगान् ।
तथैव दत्ता कपिला सुपात्रे पापं नरस्याशु निहन्ति सर्वम् ॥
यथैव दृष्ट्वा भुजगाः सुपर्णं नश्यन्ति दूराद्विवशा भयार्ताः ।
तथैव दृष्ट्वा कपिलाप्रदाना- न्नस्यन्ति पापानि नरस्य शीघ्रम् ॥
यथा त्वचं वै भुजगो विहाय पुनर्नवं रूपमुपैति पुण्यम् ।
तथैव मुक्तः पुरुषः स्वपापै- र्विरज्यते वै कपिलाप्रदानात् ॥
यथाऽन्धकारं भवने विलग्नं दीप्तो हि निर्यातयति प्रदीपः ।
तथा नरः पापमपि प्रलीनं निष्क्रामयेद्वै कपिलाप्रदानात् ॥
यावन्ति रोमाणि भवन्ति तस्या वत्सान्वितायाश्च शरीरजानि ।
तावत्प्रदाता युगवर्षकोटिं स ब्रह्मलोके रमते मनुष्यः ॥
यस्याहिताग्नेरतिथिप्रियस्य शूद्रान्नदूरस्य जितेन्द्रियस्य ।
सत्यव्रतस्याध्ययनान्वितस्य दत्ता हि गौस्तारयते परत्र ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि पञ्चाधिकशततमोऽध्यायः ॥ 105 ॥

श्रीः