अध्यायः 106

कृष्णेन युधिष्ठिरंप्रति कपिलादानप्रशंसनम् ॥ 1 ॥ ब्रह्मणाऽग्निकुण्डमध्यात्कपिलासर्जनम् । तधा रुद्रादिदेवैः कपिलायै सर्वपूज्यत्वादिरूपवरदानम् ॥ 2 ॥ देवर्ष्यादिभइः स्वनिवासाय कपिलावयवसमाश्रयणम् ॥ 3 ॥ कृष्णेन हव्यकव्यदानकालकथनम् । तथा श्राद्धार्हानर्हब्राह्मणविवेचनम् । तथा स्वर्गनरकप्रापकसुकृतदुष्कृतकथनम् ॥ 4 ॥

वैशम्पायन उवाच ।

एवं श्रुत्वा परं पुण्यं कपिलादानमुत्तमम् ।
धर्मपुत्रः प्रहृष्टात्मा केशवं पुनरब्रवीत् ॥
देवदेवश कपिला यदा विप्राय दीयते ।
कथं सर्वेषु चाङ्गेषु तस्यास्तिष्ठन्ति देवताः ॥
याश्चैताः कपिलाः प्रोक्ता दश चैव त्वया मम ।
तासां कति सुरश्रेष्ठ् कपिलाः पुण्यलक्षणाः ॥
कथं वाऽनुगृहीतास्ताः सुरैः पितृगणैरपि ।
केन युक्ताश्च वर्णेन श्रोतुं कौतूहलं मे ॥
वैशम्पायन उवाच ।
युधिष्ठिरेणैवमुक्तः केशवः सत्यवाक्तदा ।
गुह्यानां परमं गुह्यं वक्तुमेवोपचक्रमे ॥
शृणु राजन्पवित्रं वै रहस्यं धर्ममुत्तमम् ॥
ग्रहणीयं सत्यमिदं न श्राव्यं हेतुवादिभिः ॥
यदा वत्सस्य पादौ द्वौ प्रसवे शिरसा सह ।
दृश्येते दानकालं तत्तमाहुर्मुनिसत्तमाः ॥
अन्तरिक्षगतो वत्सो यावद्भूमिं न यास्यति ।
गौस्तावत्पृथिवी ज्ञेया तस्माद्देया तु तादृशी ॥
यावन्ति धेन्वा रोमाणि सवत्साया युधिष्ठिर । यावत्यः सिकताश्चापि गर्भोदकपरिप्लुताः ।
तावद्वर्षसहस्राणि दाता स्वर्गे महीयते ॥
सुवर्णाभरणां कृत्वा सव्तसां कपिलां तिलैः ।
प्रच्छाद्य तां तु दद्याद्वै सर्वरत्नैरलङ्कृताम् ॥
ससमुद्रा नदी तेन सशैलवनकानना ।
चतुरन्ता भवेद्दत्ता नात्र कार्या विचारणा ॥
पृथिवीदानतुल्येन तेन दानेन मानवः ।
संसारसागरात्तीर्णो याति लोकं प्रजापतेः ॥
ब्रह्महा भ्रूणहा गोघ्नो यदि वा गुरुतल्पगः ।
महापातकयुक्तोपि एतद्दानेन शुद्ध्यति ॥
इदं पठति यः पुण्यं कपिलादानमुत्तमम् ।
प्रातरुत्थाय मद्भक्त्या तस्य पुण्यफलं शृणु ॥
मनसा कर्मणा वाचा मतिपूर्वं युधिष्ठिर ।
पापं रात्रिकृतं हन्यादस्याध्यायस्य पाठकः ॥
इदमावर्तमानस्तु श्राद्धे यस्तर्पयेद्द्विजान् ।
तस्याप्यमृतमश्नन्ति पितरोऽत्यन्तहर्षिताः ॥
यश्चेदं शृणुयाद्भक्त्या मद्गतेनान्तरात्मना ।
तस्य रात्रिकृतं सर्वुं पापमाशु प्रणश्यति ॥
अतः परं विशेषं तु कपिलानां ब्रवीमि ते । याश्चैताः कपिलाः प्रोक्ता दश राजन्मया तव ।
तासां चतस्रः प्रवराः पुण्याः पापप्रणाशनाः ॥
सुवर्णकपिला पुण्या तथा रक्ताक्षिपिङ्गला ।
पिङ्गलाक्षी च या गौश्च या स्यात्पिङ्गलपिङ्गला ॥
एताश्चतस्रः प्रवराः पवित्राः पापनाशनाः ।
नमस्कृता वा दृष्टा वा घ्नन्ति पापं नरस्य तु ॥
यस्यैताः कपिलाः सन्ति गृहे पापप्रणाशनाः ।
तत्र श्रीर्विजयः कीर्तिः स्फीता नित्यं युधिष्ठिर ॥
एतासां प्रीतिमायाति क्षीरेण तु वृषध्वजः ।
दध्ना च त्रिदशाः सर्वे घृतेन तु हुताशनः ॥
पितरः पितामहाश्चैव तथैव प्रपितामहाः ।
सकृद्देत्तेन तुष्यन्ति वर्षकोटिं युधिष्ठिर ॥
कपिलाया घृतं क्षीरं दधि पायसमेव वा ।
श्रोत्रियेभ्यः सकृद्दत्वा नरः पापैः प्रमुच्यते ॥
उपवासं तु यः कृत्वाऽप्यहोरात्रं जितेन्द्रियः ।
कपिलापञ्चगव्यं तु पीत्वा चान्द्रायणात्परम् ॥
सौम्ये मुहूर्ते तत्प्रशय शुद्धात्मा शुद्धमानसः ।
क्रोधानृतविनिर्मुक्तो मद्गतेनान्तरात्मना ॥
कपिलापञ्चगव्येन सुमन्त्रेण पृथक्पथक् । यो मत्प्रतिकृतिं वाऽपि शङ्कराकृतिमेव वा ।
स्नापयेद्विषुवे यस्तु सोऽश्वमेधफलं लभेत् ॥
स मुक्तपापः शुद्धात्मा यानेनांबरशोभिना ।
मम लोकं व्रजेन्मुक्तो रुद्रलोकमथापि वा ॥
ब्रह्मणा तु पुरा सृष्टा कपिला काञ्चनप्रभा ।
अग्निकुण्डात्परैर्मन्त्रैर्होमधेनुर्महाप्रभा ॥
सृष्टमात्रां तु तां दृष्ट्वा देवा रुद्रादयो दिवि ।
सिद्धा ब्रह्मर्षयश्चैव वेदाः साङ्गाः सहाध्वरैः ॥
सागराः सरितश्चैव पर्वताः सबलाहकाः ।
गन्धर्वाप्सरसो यक्षाः पन्नगाश्चाप्युपस्थिताः ॥
सर्वे विस्मयमापन्नाः शिखिमध्ये महाप्रभाम् ।
मन्त्रैशअच विविधैस्तां तु तुष्टुवुस्तामनेकशः ॥
कृताञ्जलिपुटाः सर्वे नातिशृङ्गीं त्रिलोचनाम् ।
मूर्ध्ना प्रणम्य तां भूमौ सवत्साममृतारणिम् ॥
ऊचुः प्राञ्जलयः सर्वे चतुर्वक्त्रं पितामहम् ।
आज्ञापय महादेव किं ते कुर्मः कथं विभो ॥
एवमुक्तः सुरैः सर्वैर्ब्रह्मा वचनमब्रवीत् ।
भवन्तोप्यनुगृह्णन्तु दोग्ध्रीमेनां पयस्विनीम् ॥
होमधेनुरियं ज्ञेया ह्यग्नीन्संतर्पयिष्यति ।
अतोऽग्निस्तर्पितः सर्वान्भवतस्तर्पयिष्यति ॥
प्रीताः क्षीरामृतेनास्या जातवीर्यपराक्रमाः ।
जयिष्यथ यथाकामं दानवान्सर्व एव तु ॥
जातवीर्यबलैर्युक्ताः सत्ववन्तो जितेन्द्रियाः ।
असङ्ख्येयबलाः सर्वे पालयिष्यथ वै प्रजाः ॥
पालिताश्च प्रजाः सर्वा भवद्भिरिह धर्मतः ।
पूजयिष्यन्ति वा नित्यं यज्ञैर्विविधदक्षिणैः ॥
एवमुक्ताः सुराः सर्वे ब्रह्मणा परमेष्ठिना ।
ततः संहृष्टवदनाः कपिलायै वरं ददुः ॥
देवता ऊचुः ।
यस्माल्लोकहितायाद्य ब्रह्मणा त्वं विनिर्मिता ।
तस्मात्पूता पवित्रा च भव पापव्यपोहिनी ॥
ये त्वां दृष्ट्वा नमस्यन्ति स्पृष्ट्वा चापि करैर्नराः ।
तेषां वर्षकृतं पापं त्वद्भक्तानां प्रणश्यति ॥
अकामकृतमज्ञानमदृष्टं यच्च पातकम् । त्वां दृष्ट्वा ये नमस्यन्ति नराः सर्वसहेति च ।
तेषां तद्विलयं याति तमः सूर्योदये यथा ॥
भगवानुवाच ।
इत्युक्त्वाऽस्यै वरं दत्त्वा प्रययुस्ते यथागतम् ।
लोकनिस्तरणार्थाय सा च लोकांश्चचार ह ॥
तस्यामेव समुद्भूता ह्येताश्च कपिला नव । विचरन्ति महीमेनां लोकानुग्रहकारणात् ।
तस्मात्तु कपिला देया परत्र हितमिच्छता ॥
यदा च दीयते राजन्कपिला ह्यग्निहोत्रिणे ।
तदा च शृङ्गयोस्तस्या विष्णुरिन्द्रश्च तिष्ठति ॥
चन्द्रवज्रधरौ चापि तिष्ठतः शृङ्गमूलयोः ।
शृङ्गमध्ये तथा ब्रह्मा ललाटे गोवृषध्वजः ॥
कर्णयोरश्विनौ देवौ चक्षुषी शशिभास्करौ ।
दन्तेषु मरुतो देवा जिह्वायां वाक्सरलस्वती ॥
रोमकूपेषु मुनयश्चर्मण्येव प्रजापतिः ।
निश्श्वासेषु स्थिता वेदाः सषडङ्गपदक्रमाः ॥
नासापुटे स्थिता गन्धाः पुष्पाणि सुरभीणि च ।
अधरे वसवः सर्वे मुखे चाग्निः प्रतिष्ठितः ॥
साध्या देवाः स्थिताः कक्षे ग्रीवायां पार्वती स्थिता ।
पृष्ठे च नक्षत्रगणाः ककुद्देशे नभस्स्थलम् ॥
अपाने सर्वतीर्थानि गोमूत्रे जाह्नवी स्वयम् ।
इष्टतुष्टमया लक्ष्मीर्गोमये वसती तदा ॥
नासिकायां सदा देवी ज्येष्ठा वसति भामिनी ।
श्रोणीतटस्थाः पितरो रमा लाङ्गूलमाश्रिता ॥
पार्श्वयोरुभयोः सर्वे विश्वेदेवाः प्रतिष्ठिताः ।
तिष्ठत्युरसि तासां तु प्रीतः शक्तिधरो गुहः ॥
जानजङ्घोरुदेशेषु पञ्च तिष्ठन्ति वायवः ।
खुरमध्येषु गन्धर्वाः खुराग्रेषु च पन्नगाः ॥
चत्वारः सागराः पूर्णास्तस्या एव पयोधराः । रतिर्मेधा क्षमा स्वाहा श्रद्धा शान्तिर्धृतिः स्मृतिः ।
कीर्तिर्दीप्तिः क्रिया कान्तिस्तुष्टिः पुष्टिस्च सन्ततिः ।
दिशश्च प्रदिशश्चैव सेवन्ते कपिलां सदा ॥
देवा पितृगणाश्चापि गन्धर्वाप्सरसां गणाः ।
लोका द्वीपार्णवाश्चैव गङ्गाद्याः सरितस्तथा ॥
देवाः पितृगणाश्चापि वेदाः साङ्गाः सहाध्वरैः ।
वेदोक्तैर्विविधैर्मन्त्रैः स्तुवन्ति हृषितास्तथा ॥
विद्याधराश्च ये सिद्धा भूतास्तारागणास्तथा ।
पुष्पवृष्टिं च वर्षन्ति प्रनृत्यन्ति च हर्षिताः ॥
ब्रह्मणोत्पादिता देवी वह्निकुण्डान्महाप्रभा ।
नमस्ते कपिले पुण्ये सर्वदेवैर्नमस्कृते ॥
कपिलेऽथ महासत्वे सर्वतीर्थमये शुभे ।
दातारं स्वजनोपेतं ब्रह्मलोकं नय स्वयम् ॥
अहो रत्नमिदं पुण्यं सर्वदुःखघ्नमुत्तमम् । अहो धर्मार्जितं शुद्धमिदमग्र्यं महाधनम् ।
इत्याकाशस्थितस्ते तु सर्वदेवा जपन्ति च ॥
तस्याः प्रतिग्रहीता च भुङ्क्ते यावद्द्विजोत्तमः । तावद्देवगणाः सर्वे कपिलामर्चयन्ति च ।
स्वर्णशृङ्गीं रूप्यखुरां गन्धैः पुष्पैः सुपूजिताम् ॥
वस्त्राभ्यामहताभ्यां तु यावत्तिष्ठत्यलङ्कृता । तावद्यदिच्छेत्कपिला मन्त्रपूता सुसंस्कृता ।
भूलोकवासिनः सर्वान्ब्रह्मलोकं नयेत्स्वयम् ॥
भूरश्वः कनकं गावो रूप्यमश्वं तिला यवाः ।
दीयमानानि विप्राय प्रहृष्यन्ति दिनेदिने ॥
अथ त्वश्रोत्रियेभ्यो वै तानि दत्तानि पाण्डव ।
तथा निन्दन्त्यथात्मानमशुभं किंनु नः कृतं ॥
अहो रक्षःपिशाचैश्च लुप्यमानाः समन्ततः ।
यास्यामो निरयं शीघ्रमिति शोचन्ति तानि वै ॥
एतान्यपि द्विजेभ्यो वै श्रोत्रियेभ्यो विशेषतः ।
दीयमानानि वर्धन्ते दातारं तारयन्ति च ॥
युधिष्ठिर उवाच ।
देवदेवेश दैत्यघ्न कालः को हव्यकव्ययोः ।
के तत्रि पूजामर्हन्ति वर्जनीयाश्च के द्विजाः ॥
भगवानुवाच ।
दैवं पूर्वाह्णिकं ज्ञेयं पैतृकं चापराह्णिकम् ।
कालहीनं च यद्दानं तद्दानं राजसं विदुः ॥
अवघुष्टं च यद्भुक्तमनृतेन च भारत ।
परामृष्टं शुना वाऽपि तद्भागं राक्षसं विदुः ॥
यावन्तः पतिता विप्रा जडोन्मत्तादयोपि च ।
दैवे च पित्र्ये ते विप्रा राजन्नार्हन्ति सत्क्रियां ॥
क्लीबः प्लङ्गी च कृष्ठी च राजयक्ष्मान्वितश्च यः ।
अपस्मारी च यश्चापि पित्र्ये नार्हति सत्कृतिम् ॥
चिकित्सका देवलका मिथ्यानियमधारिणः ।
सोमविक्रयिणश्चापि श्राद्धे नार्हन्ति सत्कृतिम् ॥
एकोद्दिष्टे च ये चान्नं भुञ्जते विधिवद्द्बिजाः ।
चान्द्रायणमकृत्वा ते पुनर्नार्हन्ति सत्कृतिम् ॥
गायका नर्तकाश्चैव प्लवका वादकास्तथा ।
कथका यौधिकाश्चैव श्राद्धे नार्हन्ति सत्कृतिम् ॥
अनग्नयश्च ये विप्राः शवनिर्यातकाश्च ये ।
स्तेनाश्चापि विकर्मस्था राजन्नार्हन्ति सत्कृतिम् ॥
अपरिज्ञातपूर्वाश्च गणपुत्राश्च ये द्विजाः ।
पुत्रिकापुत्रकाश्चापि श्राद्धे नार्हन्ति सत्कृतिम् ॥
रणकर्ता च यो विप्रो यश्च वाणिज्यको द्विजः ।
प्राणिविक्रयवृत्तिश्च श्राद्धे नार्हन्ति सत्कृतिम् ॥
चीर्णव्रतगुणैर्युक्ता नित्यं स्वाध्यायतत्पराः ।
सावित्रीज्ञाः क्रियावन्तस्ते श्राद्धे सत्कृतिक्षमाः ॥
श्राद्धस्य ब्राह्मणः कालः प्राप्तं दघि घृतं तथा ।
दर्भाः सुमनसः क्षेत्रं तत्काले श्राद्धदो भवेत् ॥
चारित्रनिरता राजन्कृशा ये कृशवृत्तयः ।
अर्थिनश्चोपगच्छन्ति तेभ्यो दत्तं महत्फलम् ॥
तपस्विनश्च ये विप्रास्तथा भैक्षचराश्च ये ।
अर्थिनः केचिदिच्छन्ति तेषां दत्तं महत्फलम् ॥
एवं धर्मभूतां श्रेष्ठ ज्ञात्वा सर्वात्मना तदा ।
र्श्रोत्रियाय दरिद्राय प्रयच्छानुपकारिणे ॥
दानं यत्ते प्रियं किंचिच्छ्रोत्रियाणां च यत्प्रियम् ।
तत्प्रयच्छस्व धर्मज्ञ यदीच्छसि तदक्षयम् ॥
निरयं ये च गच्छन्ति तच्छृणुष्व युधिष्ठिर ॥
गुर्वर्थं वा भयार्थं वा नोचेदन्यत्र पाण्डव ।
वदन्ति येऽनृतं विप्रास्ते वै निरयगामिनः ॥
परदारापहर्तारः परदारामिमर्शकाः ।
परारप्रयोक्तारस्तें वै निरयगामिनः ॥
सूचकाः संधिभेत्तारः परद्रव्योपजीविनः ।
अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः ॥
वर्णाश्रमाणां ये बाह्याः पाषण्डाश्चैव पापिनः ।
उपासते च तानेव ते सर्वे नरकालयाः ॥
वेदविक्रयिणश्चैव वेदानां चैव दूषकाः ।
वेदानां लेखकाश्चैव ते वै निरयगामिनः ॥
रसविक्रयिणो राजन्विषविक्रयिणश्च ये ।
क्षीरविक्रयिणश्चापि ते वै निरयगामिनः ॥
चण्डालेभ्यश्च ये क्षीरं प्रयच्छन्ति नराधमाः ।
अर्थार्थमथवा स्नेहात्ते वै निरयगामिनः ॥
पशूनां दमक**यैव तथा नासानुवेधकाः पुंस्त्वहिंसाकरस्चैव ते वै निरयगामिनः ॥
अदातारः समर्था ये द्रव्याणां लोभकारणात् ।
दीनानन्धान्न पश्यन्ति ते वै निरयगामिनः ॥
क्षान्तान्दान्तान्कृशान्प्राज्ञान्दीर्घकालं सहोषितान् ।
त्यजन्ति कृतकृत्या ये ते वा निरयगामिनः ॥
बालानामपि वृद्धानां श्रान्तानां चापि ये नराः ।
अदत्त्वाऽश्नान्ति मृष्टान्नं ते वै निरयगामिनः ॥
एते पूर्वर्षिभिः प्रोक्ता नरा निरयगामिनः ।
ये स्वर्गं समनुप्राप्तास्ताञ्शृणुष्व युधिष्ठिर ॥
दानेन तपसा चैव सत्येन च दमेन च ।
ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः ॥
शुश्रूषयाऽप्युपाध्यायाच्छ्रुतमादाय पाण्डव ।
ये प्रतिग्रहनिस्स्नेहास्ते नराः स्वर्गगामिनः ॥
मधुमांसासवेभ्यस्तु निवृत्ता व्रतवत्तु ये ।
परदारनिवृत्ता ये ते नराः स्वर्गगामिनः ॥
मातरं पितरं चैव शुश्रूषन्ति च ये नराः ।
भ्रहातॄणामपि सस्नेहास्ते नराः स्वर्गगामिनः ॥
ये तु भोजनकाले तु निर्याताश्चातिथिप्रियाः ।
द्वाररोधं न कुर्वन्ति ते नराः स्वर्गगामिनः ॥
वैवाहिकं तु कन्यानां दरिद्राणां च ये नराः ।
कारयन्ति च कुर्वन्ति ते नराः स्वर्गगामिनः ॥
रसानामथ बीजानामोषधीनां तथैव च ।
दातारः श्रद्धयोपेतास्ते नराः स्वर्गगामिनः ॥
क्षेमाक्षेमं च मार्गेषु समानि विषमाणि च ।
अर्थिनां ये च वक्ष्यन्ति ते नराः स्वर्गगामिनः ॥
पर्वद्वये चतुर्दश्यामष्टम्यां संध्ययोर्द्वयोः । आर्द्रायां जन्मनक्षत्रे विषुवे श्रवणेऽथवा ।
ये ग्राम्यधर्मविरतास्ते नराः स्वर्गगाप्तिनः ॥
हव्यकव्यविधानं च नरकस्वर्गगामिनौ ।
धर्माधर्मौ च कथितौ किं भूयः श्रोतुमिच्छसि ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि षडधिकशततमोऽध्यायः ॥ 106 ॥

श्रीः