अध्यायः 108

कृष्णेन युधिष्ठिरंप्रति यत्यग्निमहिमानुवर्णनम् ॥ 1 ॥ दानपात्रब्राह्मणलक्षणकथनम् ॥ 2 ॥ तथाऽन्नदानप्रशंसनम् ॥ 3 ॥

युधिष्ठिर उवाच ।

अनेकान्तं बहुद्वारं धर्ममाहुर्मनीपिणः ।
किंलक्षणोसौ भति तन्मे ब्रूहि जनार्दन ॥
भगवानुवाच ।
शृणु राजन्समासेन धर्मशौचविधिक्रमम् । अहिंसा शौचमक्रोधमानृशंस्यं दमः शमः ।
आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम् ॥
ब्रह्मचर्यं तपः क्षान्तिर्मधुमांसस्य वर्जनम् ।
मर्यादायां स्थितिश्चैव शमः शौचस्य लक्षणम् ॥
बाल्ये विद्यां निषेवेत यौवने दारसंग्रहम् ।
वार्धके मौनमातिष्ठेत्सर्वदा धर्ममाचरेत् ॥
ब्राह्मणान्नावमन्येत गुरुन्परिवदेन्न च ।
यतीनामनुकूलः स्यादेष धर्मः सनातनः ॥
यतिर्गुरुर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।
पतिरेव गुरुः स्त्रीणां सर्वेषां पार्थिवो गुरुः ॥
यद्गृहस्तार्जितं पापं ज्ञानतोऽज्ञानतोपि वा ।
निर्दहिष्यति तत्सर्वमेकरात्रोषितो यतिः ॥
दुर्वृत्ता वा सुवृत्ता वा ज्ञानिनोऽज्ञानिनोपि वा ।
गृहस्थैर्यतयः पूज्याः परत्र हितकाङ्क्षिभिः ॥
एकदण्डी त्रिदण्डी वा शिखी वा मुण्डितोपि वा ।
काषायदण्डधारोपि यतिः पूज्यो न संशयः ॥
अपूजितो गृहस्थैर्वा तथा चाप्यवमानितः ।
यतिर्वाऽप्यतिथिर्वाऽपि नरके पातयिष्यतः ॥
तस्मात्तु यत्नतः पूज्या मद्भक्ता मत्परायणाः ।
मयि संन्यस्तकर्माणः परत्र हितकाङ्क्षिभिः ॥
प्रहरेन्न द्विजान्विप्रो गां न हन्यात्कदाचन ।
भ्रूणहत्यासमं चैव उभयं यो निषेवते ॥
नाग्निं मुखेनोपधमेन्न च पादौ प्रतापयेत् ।
नाधः कुर्यात्कदाचित्तु न पृष्ठं परितापयेत् ॥
नान्तरा गमनं कुर्यान्न चामेध्यं विनिक्षिपेत् ।
उच्छिष्टो न स्पृशेदग्निमाशौचस्थो न जातुचित् ॥
श्वचण्डालादिभिः स्पृष्टो नाङ्गमग्नौ प्रतापयेत् ।
सर्वदेवमयो वह्निस्तस्माच्छुद्धः सदा स्पृशेत् ॥
प्राप्तमूत्रपुरीषस्तु न स्पृशेद्वह्निमात्मवान् ।
यावत्तु धारयेद्वेगं तावदप्रयतो भवेत् ॥
पचनाग्निं न गृह्णीयात्परवेश्मनि जातुचित् ।
तस्मिन्पक्वेन चान्नेन यत्कर्म कुरुते शुभम् ॥
तस्यैव तच्छुभस्यार्धमग्निदस्य भवेन्नृप ।
तस्माद्गृहगतं वह्निं प्रकुर्यादविनाशितम् ॥
प्रमादाद्यदि वाऽज्ञानात्तस्य नाशो भविष्यति ।
गृह्णीयात्तु मथित्वा वा श्रोत्रियागारतोपि वा ॥
युधिष्ठिर उवाच ।
कीदृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम् ।
कीदृशेभ्यो हि दातव्यं तन्मे ब्रूहि जनार्दन ॥
भगवानुवाच ।
अक्रोधनाः सत्यपरा धर्मनित्या जितेन्द्रियाः ।
तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम् ॥
अमानिनः सर्वसहा दृष्टार्था विजितेन्द्रियाः ।
सर्वभूतहिता मैत्रास्तेभ्यो दत्तं महाफलम् ॥
अलुब्धाः शुचयो वैद्या हीमन्तः सत्यवादिनः ।
स्वधर्मनिरता ये तु तेभ्यो दत्तं महाफलम् ॥
साङ्गंश्च चतुरो वेदान्योऽधीयेत दिनेदिने ।
शूद्रान्नं यस्य नो देहे तत्पात्रमृषयो विदुः ॥
प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः ।
तारयेत्तत्कुलं सर्वमेकोपीह युधिष्ठिर ॥
गामश्वमन्नं वित्तं वा तद्विधे प्रतिपादयेत् । निशम्य तु गुणोपेतं ब्राह्मअणं साधुसंमतम् ।
दूरादाहृत्य सत्कृत्य तं प्रयत्नेन पूजयेत् ॥
युधिष्टिर उवाच ।
धर्माधर्मविधिस्त्वेवं भीमं भीष्मेण भाषितम् ।
भीष्मवाक्यात्सारभूतं वद धर्मं सुरेश्वर ॥
भगवानुवाच ।
अन्नेन धार्यते सर्वं जगदेतच्चराचरम् ।
अन्नात्प्रभवति प्राणः प्रत्यक्षं नास्ति संशयः ॥
कलत्रं पीडयित्वा तु देशे काले च शक्तितः ।
दातव्यं भिक्षवे चान्नमात्मनो भूतिमिच्छता ॥
विप्रमध्वपरिश्रान्तं बालं वृद्धमथापि वा ।
अर्चयेद्गुरुवत्प्रीतो गृहस्थो गृहमागतम् ॥
क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः ।
अर्चयेदतिथिं प्रीतः परत्र हितभूतये ॥
अतिथिं नावमन्येत नानृतां गिरमीरयेत् ।
न पृच्छेद्गोत्रचरणं नाधीतं वा कदाचन ॥
चण्डालो वा श्वपाको वा काले यः कश्चिदागतः ।
अन्नेन पूजनीयः स्यात्परत्र हितमिच्छता ॥
पिधाय तु गृहद्वारं भुक्ते योऽन्नं प्रहृष्टवान् ।
स्वर्गद्वारपिधानं वै कृतं तेन युधिष्ठिर ॥
पितॄन्देवानृषीन्विप्रानतिथींश्च निराश्रयान् ।
यो नरः प्रीणयत्यन्नैस्तस्य पुण्यफलं महत् ॥
कृत्वा तु पापं बहुशो यो दद्यादन्नमर्थिने ।
ब्राह्मणाय विशेषेण सर्वपापैः प्रमुच्यते ॥
अन्नदः प्राणदो लोके प्राणदः सर्वदो भवेत् ।
तस्मादन्नं विशेषेण दातव्यं भूतिमिच्छता ॥
अन्नं ह्यमृतमित्याहुरन्नं प्रजननं स्मृतम् ।
अन्नप्रणाशो सीदन्ति शरीरे पञ्च धातवः ॥
बलं बलवतो नश्येदन्नहीनस्य देहिनः ।
तस्मादन्नं विशेषेण श्रद्धयाऽश्रद्धयापि वा ॥
आदत्ते हि रसं सर्वमादित्यः स्वगभस्तिभिः ।
वायुस्तस्मात्समादाय रसं मेधेषु धारयेत् ॥
तत्तु मेघगतं भूमौ शक्रो वर्षति तादृशम् । तेन दिग्धा भवेद्देवी मही प्रीता च ****
तस्यां सस्यानि रोहन्ति यैर्जीवन्त्यखिलाः प्रजाः ।
मांसमेदोस्थिमज्जानां सम्भवस्तेभ्य एव हि ॥
एवं सूर्यश्च पवनो मेघः शक्रस्तथैव च ।
एक एव स्थितो राशिर्यतो भूतानि जज्ञिरे ॥
भवनानि च दिव्यानि दिवि तेषां महात्मनाम् ।
नानासंस्थानि भूतानि नानाभूमिगतानि च ॥
चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च ।
तरुणादित्यवर्णानि स्थावराणि चराणि च ॥
अनेकशतसङ्ख्यानि सान्तर्जलवनानि च ।
तत्र पुष्पफलोपेताः कामदाः सुरपादपाः ॥
वाप्यो बद्धसभाः कूपा दीर्घिकाश्च सहस्रशः ।
भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च ॥
क्षीरस्रवन्त्यः सरितस्तथा चैवान्नपर्वताः ।
घोषवन्ति च यानानि युक्तान्यथ सहस्रशः ॥
प्रासादप्रवराः शुभ्राः शय्याश्च कनकोज्ज्वलाः ।
अन्नदास्तत्र तिष्ठन्ति तस्मादन्नप्रदो भवेत् ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि अष्टोत्तरशततमोऽध्यायः ॥ 108 ॥

श्रीः