अध्यायः 109

कृष्णेन युधिष्ठिरंप्रति भोजनविधिकथनम् ॥ 1 ॥ तथा गोग्रासदानप्रकारकथनम् ॥ 2 ॥ तथा तिलप्रशंसनपूर्वकं तेषां मिक्षूणां च ब्राह्मणेन स्वयं यन्त्रे निपीडनप्रतिषेधनम् ॥ 3 ॥

युधिष्ठिर उवाच ।

अन्नदानफलं श्रुत्वा प्रीतोस्मि मधुसूदन ।
भोजनस्य विधिं वक्तुं देवदेव त्वमर्हसि ॥
भगवानुवाच ।
बोजनस्य द्विजातीनां विधानं शृणु पाण्डव ।
स्नातः शुचिः शुचौ देशे निर्जने हुतपावकः ॥
मण्डलं कारयित्वा च चतुरश्रं द्विजोत्तमः ।
क्षत्रियश्चेत्ततो वृत्तं वैश्योऽर्धेन्दुसमाकृतिम् ॥
आर्द्रपादस्तु भुञ्जीयात्प्राङ्मुखश्चासने शुचौ ।
पादाभ्यां धरणीं स्पृष्ट्वा पादेनैकेन वा पुनः ॥
नैकवासास्तु भुञ्जीयान्न चान्तर्धाय वा द्विजः ।
न भिन्नपात्रे भुञ्जीत पर्णपृष्ठे तथैव च ॥
अन्नं पूर्वं नमस्कुर्यात्प्रहृष्टेनान्तरात्मना ।
नान्यदालोकयेदन्नान्न जुगुप्सेन तत्परः ॥
जुगुप्सितं च यच्चान्नं राक्षसा एव भुञ्जते ।
पाणिना जलमुद्धृत्य कुर्यादन्नं प्रदक्षिणम् ॥
अपेयं तद्विजानीयात्पीत्वा चान्द्रायणं चरेत् ।
परिवेषजलादन्यत्पेयमेव तु मन्त्रवत् ॥
पञ्च प्राणाहुतीः कुर्यात्समन्त्रं तु पृथक्पृथक् ॥
यथा रसं न जानाति जिह्वा प्रामाहुतौ नृप ।
तथा समाहितः कुर्यात्प्राणाहुतिमतन्द्रिकतः ॥
विदित्वाऽन्नमथान्नादं पञ्च प्राणांश्च पाण्डव ।
यः कुर्यादाहुतीः पञ्च तेनेष्टाः पञ्चवायवः ॥
अतोऽन्यथा तु भुञ्जानो ब्राह्मणो ज्ञानदुर्बलः ।
तेनान्नेनासुरान्प्रेतान्राक्षसांस्तर्पयिष्यति ॥
वक्त्रप्रमाणान्पिण्डांश्च ग्रसेदेकैकशः पुनः ।
वक्त्राधिकं तु यत्पिण्डमात्मोच्छिष्टं तदुच्यते ॥
पिण्डावशिष्टमन्यच्च वक्त्रान्निस्सृतमेव च ।
अभोज्यं तद्विजानीयाद्भुक्त्वा चान्द्रायणं चरेत् ॥
स्वमुच्छिष्टं तु यो भुङ्क्ते यो भुङ्क्ते मुक्तभोजनम् ।
चान्द्रायणं चरेन्कृच्छ्रं प्राजापत्यमथापि वा ॥
स्त्रीपात्रभुङ्नरः पापः स्त्रीणामुच्छिष्टभुक्तथा । तया सह च यो भुङ्क्ते स भुङ्क्ते मद्यमेव हि ।
न तस्य निष्कृतिर्दृष्टा मुनिभिस्तत्वदर्शिभिः ॥
पिबतः पतिते तोये भोजने मुखनिस्सृते ।
अभोज्यं तद्विजानीयाद्भुक्त्वा चान्द्रायणं चरेत् ॥
पीतशेषं तु तन्नाम न पेयं पाण्डुनन्दन ।
पिबेद्यदि हि तन्मोहाद्द्विजश्चान्द्रायणं चरेत् ॥
पानीयानि पिबेद्यते तत्पात्रं द्विजसत्तमः ।
अनुच्छिष्टं भवेत्तावद्यावद्भूमौ न निक्षिपेत् ॥
मौनी वाऽप्यथवा भूमौ नावलोक्य दिशस्तथा ।
भुञ्जीत विधिवद्विप्रो न चोच्छिष्टं प्रदापयेत् ॥
सदा चात्यशनं नाद्यान्नातिहीनं च कर्हिचित् ।
यथाऽन्नेन व्यथा न स्यात्तथा भुञ्जीत नित्यशः ॥
उदक्यामपि चण्डालं श्वानं सूकरमेव वा । भुञ्जानो यदि वा पश्येत्तदन्नं च परित्यजेत् ।
भुञ्जानो ह्यत्यजन्मोहाद्द्विजश्चान्द्रायणं चरेत् ॥
केशकीटोपपन्नं च मुखमारुतवीजितम् ।
अभोज्यं तद्विजानीयाद्भुक्त्वा चान्द्रायणं चरेत् ॥
उत्थाय च पुनः स्पृष्टं पादस्पृष्टं च लङ्घितम् ।
अन्नं तद्राक्षसं विद्यात्तस्मात्तत्परिवर्जयेत् ॥
राक्षसोच्छिष्टभुग्विप्रः सप्त पूर्वान्परानपि ।
नरके रौरवे घोर स पितॄन्पातयिष्यति ॥
तस्मिन्नाचमनं कुर्याद्यस्मिन्पात्रे स भुक्तवान् । यद्युत्तिष्ठत्यनाचान्तो भुक्तवानासनात्ततः ।
स्नानं सद्यः प्रकुर्वीत सोन्यथाऽप्रयतो भवेत् ॥
युधिष्ठिर उवाच ।
तृणमुष्टिविधानं च तृणमाहात्म्यमेव च ।
इक्षोः सोमसमुद्भूतिं वक्तुमर्हसि मानदः ॥
भगवानुवाच ।
पितरो वृषभा ज्ञेयो गावो लोकस्य मातरः ।
तासां तु पूजया राजन्पूजिताः पितृदेवताः ॥
सभा प्रपा गृहाश्चापि देवतायतनानि च ।
शुद्ध्यन्ति शकृता यासांकिं भूतमधिकं ततः ॥
ग्रासमुष्टिं परगवे दद्यात्संवत्सरं तु यः ।
अकृत्वा स्वयमाहारं प्राप्तस्तत्सार्वकालिकम् ॥
गावो मे मातरः सर्वाः पितरश्चैव गोवृषाः ।
ग्रासमुष्टिं मया दत्तं प्रतिगृह्णीत मातरः ॥
इत्युक्त्वाऽनेन मन्त्रेण गायत्र्या वा समाहितः ।
अभिमन्त्र्य ग्रासमुष्टिं तस्य पुण्यफलं शृणु ॥
यत्कृतं दुष्कृतं तेन ज्ञानतोऽज्ञानतोपि वा ।
तस्य नश्यति तत्सर्वं दुःखप्नं च विनश्यति ॥
तिलाः पिवित्राः पापघ्ना नारायणसमुद्भवाः ।
तिलाञ्श्राद्धे प्रशंसनति दानमेतदनुत्तमम् ॥
तिलान्दद्यात्तिलान्भक्ष्यात्तिलानप्रातरुपस्पृशेत् ।
तिलंतिलमिति ब्रूयात्तिलाः पापहरा हि ते ॥
क्रीत्वा प्रतिगृहीत्वा वा न विक्रेया द्विजातिभिः । भोजनाभ्यञ्जनाद्दानाद्योन्यत्तु कुरुते तिलैः ।
कृमिर्भूत्वा श्वविष्ठायां पितृभिः सह मज्जति ॥
तिलान्नपीडयेद्विप्रो यन्त्रचक्रे स्वयं नृप ।
पीडयन्हि द्विजो मोहान्नरकं याति रौरवम् ॥
इक्षुवंशोद्भवः सोमः सोमवंशोद्भवा द्विजाः ।
इक्षुं न पीडयेत्तस्मादिक्षुघात्यात्मघातकः ॥
इक्षुदण्डसहस्राणामेकैकेन युधिष्ठिर । ब्रह्महत्यामवाप्नोति द्विजश्चेद्यन्त्रपीडकः ।
तस्मान्न पीडयेदिक्षुं यन्त्रचक्रे द्विजोत्तमः ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि नवाधिकशततमोऽध्यायः ॥ 109 ॥

श्रीः